अध्यायः 024
पाण्डवैश्चिरावस्थाननिर्धारणपूर्वकं द्वैतवनप्रवेशः ॥ 1 ॥
ततस्तेषु प्रयातेषु कौन्तेयः सत्यसंगरः ।
अभ्यभाषत धर्मात्मा भ्रातॄन्सर्वान्युधिष्ठिरः ॥
द्वादशेमाः समाऽस्माभिर्वस्तव्यं निर्जने वने ।
समीक्षध्वं महारण्ये देशं बहुमृगद्विजम् ॥
बहुपुष्पफलं रम्यं शिवं पुण्यजनोचितम् ।
यत्रेमा द्वादश समाः सुखं प्रतिवसेमहि ॥
एवमुक्ते प्रत्युवाच धर्मराजं धनंजयः ।
गुरुवन्मानववरं मानयित्वा मनस्विनम् ॥
भवानेव महर्षीणां वृद्धानां पर्युपासिता ।
अज्ञातं मानुषे लोके भवतो नास्ति किंचन ॥
त्वया ह्युपासिता नित्यं ब्राह्मणा वेदपारगाः ।
द्वैपायनप्रभृतयो नारदश्च महातपाः ॥
यः सर्वलोकद्वाराणि नित्यं संचरते वशी ।
देवलोकाद्ब्रह्मलोकं गन्धर्वाप्सरसामपि ॥
अनुभावांश्च जानासि ब्राह्मणानां न संशयः ।
प्रभावांश्चैव वेत्थ त्वं सर्वेषामेव पार्थिव ॥
त्वमेव राजञ्जानासि श्रेयःकारणमेव च ।
यत्रेच्छसि महाराज निवासं तत्र कुंर्महे ॥
इदं द्वैतवनं नाम सरः पुण्यजनोषितम् ।
बहुपुष्पफलं रम्यं नानाद्विजनिषेवितम् ॥
अत्रेमा द्वादश समा विहरेमेति रोचये ।
यदि तेऽनुमतं राजन्किमन्यन्मन्यते भवान् ॥
युधिष्ठिर उवाच ।
ममाप्येतन्मतं पार्थ त्वया यत्समुदाहृतम् ।
गच्छामः पुण्यविख्यातं महद्द्वैतवनं सरः ॥
वैशंपायन उवाच ।
ततस्ते प्रययुः सर्वे पाण्डवा धर्मचारिणः ।
ब्राह्मणैर्बहुभिः सार्धं पुण्यं द्वैतवनं सरः ॥
ब्राह्मणाः साग्निहोत्राश्च तथैव च निरग्नयः ।
स्वाध्यायिनो भिक्षवश्च तथैव वनवासिनः ॥
बहवो ब्राह्मणास्तत्र परिवव्रुर्युधिष्ठिरम् ।
तपस्विनः सत्यशीलाः शतशः संशितव्रताः ॥
ते यात्वा पाण्डवास्तत्रब्राह्मणैर्बहुभिः सह ।
पुण्यं द्वैतवनं रम्यं विविशुर्बरतर्षभाः ॥
तत्सालतालाम्रमधूकनीप-
कदम्बसर्जार्जुनकर्णिकारैः ।
तपात्यये पुष्पधरैरुपेतं
महावनं राष्ट्रपतिर्ददर्श ॥
महाद्रुमाणां शिखरेषु तस्थु-
र्मनोरमां वाचमुदीरयन्तः ।
मयूरदात्यूहचकोरसङ्घा-
स्तस्मिन्वने बर्हिणकोकिलाश्च ॥
करेणुयूथैः सह यूथपानां
मदोत्कटानामचलप्रभाणाम् ।
महान्ति यूथानि महाद्विपानां
तस्मिन्वने राष्ट्रपतिर्ददर्श ॥
मनोरमां भोगवतीमुपेत्य
पूतात्मनां चीरजटाधराणाम् ।
तस्मिन्वने धर्मभृतां निवासे
ददर्श सिद्धर्षिगणाननेकान् ॥
ततः स यानादवरुह्य राजा
सभ्रातृकः सजनः काननं तत् ।
विवेश धर्मात्मवतां बरिष्ठ-
स्त्रिविष्टपं शक्र इवामितौजाः ॥
तं सत्यसन्धं सहिताऽभिपेतु-
र्दिदृक्षवश्चारणसिद्धसङ्घाः ।
वनौकसश्चापि नेरन्द्रसिंहं
मनस्विनं तं परिवार्य तस्थुः ॥
स तत्रवृद्धानभिवाद्य सर्वान्
प्रत्यर्चितो राजवद्देववच्च ।
विवेश सर्वैः सहितो द्विजाग्र्यैः
कृताञ्जलिर्धर्मभृतां वरिष्ठः ॥
स पुण्यशीलः पितृवन्महात्मा
तपस्विभिर्मपरैरुपेत्य ।
प्रत्यर्चितः पुष्पधरस्य मूले
महाद्रुमस्योपविवेश राजा ॥
भीमश्च कृष्णा च धनंजयश्च
यमौ च ते चानुचरा नरेन्द्रम् ।
विमुच्यवाहानवशाश्च सर्वे
तत्रोपतस्थुर्भरतप्रबर्हाः ॥
लतावतानावनतः स पाण्डवै-
र्महाद्रुमः पञ्चभिरेव धन्विभिः ।
बभौ निवासोपगतैर्महात्मभि-
र्महागिरिर्वारणयूथपैरिव ॥
इति श्रीमन्महाभारते अरण्यपर्वणि अर्जुनाभिगमनपर्वणि चतुर्विंशोऽध्यायः ॥ 24 ॥
3-24-1 सत्यसंगर सत्यप्रतिज्ञः ॥ समाः वर्षाणि । संधिरार्षः ॥ 3-24-8 अनुभावान् कर्तव्याकर्तव्यविषयान्निश्चयान् । प्रभावो
निग्रहानुग्रहशक्तिः । सर्वा गतीर्विजानासि इति क. पाठः ॥ 3-24-10 द्वैतं द्वौ
शोकमोहौ इतौ गतौ यस्मात्तद्बीतं द्वीतमेव द्वैतम् । स्वार्थे तद्धितः । वनं जलं
यस्मिन् द्वैतवनम् ॥ 3-24-11 विहरेम प्रीत्यानयेम ॥ 3-24-16 यात्वा गत्वा ॥ 3-24-17 तपात्यये वर्षासु ॥ 3-24-19 करेणुः हस्तिनी ॥ 3-24-20 भोगवतीं
सरस्वतीं नदीम् ॥ 3-24-22 चारणाः देवगायनाः ॥ 3-24-24 महाद्रुमः कदम्बः ॥ 3-24-26 लतावतानावनतः वल्लीतन्तुभिरावृततया नम्रः ॥