अध्यायः 018
मोहितैर्दैत्यैर्मोहिन्या अमृतकलशदानम् ॥ 1 ॥
ततोऽभ्रशिखराकारैर्गिरिशृङ्गैरलंकृतम् ।
मन्दरं पर्वतवरं लताजालसमाकुलम् ॥
नानाविहंगसंघुष्टं नानादंष्ट्रिसमाकुलम् ।
किंनरैरप्सरोभिश्च देवैरपि च सेवितम् ॥
एकादश सहस्राणि योजनानां समुच्छ्रितम् ।
अधोभूमेः सहस्रेषु तावत्स्वेव प्रतिष्ठितम् ॥
तमुद्धर्तुमशक्ता वै सर्वे देवगणास्तदा ।
विष्णुमासीनमभ्येत्य ब्रह्माणं चेदमब्रुवन् ॥
भवन्तावत्र कुरुतां बुद्धिं नैःश्रेयसीं पराम् ।
मन्दरोद्धरणे यत्नः क्रियतां च हिताय नः ॥
सौतिरुवाच ।
तथेति चाब्रवीद्विष्णुर्ब्रह्मणा सह भार्गव ।
अचोदयदमेयात्मा फणीन्द्रं पद्मलोचनः ॥
ततोऽनन्तः समुत्थाय ब्रह्मणा परिचोदितः ।
नारायणेन चाप्युक्तस्तस्मिन्कर्मणि वीर्यवान् ॥
अथ पर्वतराजानं तमनन्तो महाबलः ।
उज्जहार बलाद्ब्रह्मन्सवनं सवनौकसम् ॥
ततस्तेन सुराः सार्धं समुद्रमुपतस्थिरे ।
तमूचुरमृतस्यार्थे निर्मथिष्यामहे जलम् ॥
अपांपतिरथोवाच ममाप्यंशो भवेत्ततः ।
सोढाऽस्मि विपुलं मर्दं मन्दरभ्रमणादिति ॥
ऊचुश्च कूर्मराजानमकूपारे सुरासुराः ।
अधिष्ठानं गिरेरस्य भवान्भवितुमर्हति ॥
कूर्मेण तु तथेत्युक्त्वा पृष्ठमस्य समर्पितम् ।
तं शैलं तस्य पृष्ठस्थं वज्रेणेन्द्रोऽभ्यपीडयत् ॥
मन्थानं मन्दरं कृत्वा तथा योक्त्रं च वासुकिम् ।
देवा मथितुमारब्धाः समुद्रं निधिमम्भसाम् ।
अमृतार्थे पुरा ब्रह्मस्तथैवासुरदानवाः ॥
एकमन्तमुपाश्लिष्टा नागराज्ञो महासुराः ॥
विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः ।
अनन्तो भगवान्देवो यतो नारायणः स्थितः ॥
`वासुकेरग्रमाश्लिष्टा नागराज्ञो महासुराः ।'
शिर उत्क्षिप्य नागस्य पुनः पुनरवाक्षिपन् ॥
वासुकेरथ नागस्य सहसा क्षिप्यतोऽसुरैः ।
सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात् ॥
`वासुकेर्मथ्यमानस्य निःसृतेन विषेण च ।
अभवन्मिश्रितं तोयं तदा भार्गवनन्दन ॥
मथनान्मन्दरेणाथ देवदानवबाहुभिः ।
विषं तीक्ष्णं समुद्भूतं हालाहलमिति श्रुतम् ॥
देवाश्च दानवाश्चैव दग्धाश्चैव विषेण ह ।
अपाक्रामंस्ततो भीता विषादमगमंस्तदा ॥
ब्रह्माणमब्रुवन्देवाः समेत्य मुनिपुंगवैः ।
मथ्यमानेऽमृते जातं विषं कालानलप्रभम् ॥
तेनैव तापिता लोकास्तस्य प्रतिकुरुष्वह ।
एवमुक्तस्तदा ब्रह्मा दध्यौ लोकेश्वरं हरम् ॥
त्र्यक्षं त्रिशूलिनं रुद्रे देवदेवमुमापतिम् ।
तदाऽथ चिन्तितो देवस्तज्ज्ञात्वा द्रुतमाययौ ॥
तस्याथ देवस्तत्सर्वमाचचक्षे प्रजापतिः ।
तच्छ्रुत्वा दवेदेवेशो लोकस्यास्य हितेप्सया ॥
अपिबत्तद्विषं रुद्रः कालानलसमप्रभम् ।
कण्ठे स्थापितवान्देवो लोकानां हितकाम्यया ॥
यस्मात्तु नीलता कण्ठे नीलकण्ठस्ततः स्मृतः ।
पीतमात्रे विषे तत्र रुद्रेणामिततेजसा ॥
देवाः प्रीताः पुनर्जग्मुश्चक्रुर्वै कर्म तत्तथा ।
मथ्यमानेऽमृतस्यार्थे भूयो वै देवदानवैः ॥
वासुकेरथ नागस्य सहसा क्षिप्यतोऽसुरैः ।
सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात् ॥'
ते धूमसङ्घाः संभूता मेघसङ्घाः सविद्युतः ।
अभ्यवर्षन्सुरगणाञ्श्रमसंतापकर्शितान् ॥
तस्माच्च गिरिकूटाग्रात्प्रच्युताः पुष्पवृष्टयः ।
सुरासुरगणान्सर्वान्समन्तात्समवाकिरन् ॥
बभूवात्र महान्नादो महामेघरवोपमः ।
उदधेर्मथ्यमानस्य मन्दरेण सुरासुरैः ॥
तत्र नानाजलचरा विनिष्पिष्टा महाद्रिणा ।
विलयं समुपाजग्मुः शतशो लवणाम्भसि ॥
वारुणानि च भूतानि विविधानि महीधरः ।
पातालतलवासीनि विलयं समुपानयत् ॥
तस्मिंश्च भ्राम्यमाणेऽद्रौ संघृष्यन्तः परस्परम् ।
न्यपतन्पतगोपेताः पर्वताग्रान्महाद्रुमाः ॥
तेषां संघर्षजश्चाग्निरर्चिर्भिः प्रज्वलन्मुहुः ।
विद्युद्भिरिव नीलाभ्रमावृणोन्मन्दरं गिरिम् ॥
ददाह कुञ्जरांस्तत्र सिंहांश्चैव विनिर्गतान् ।
विगतासूनि सर्वाणि सत्त्वानि विविधानि च ॥
तमग्निममरश्रेष्ठः प्रदहन्तमितस्ततः ।
वारिणा मेघजेनेन्द्रः शमयामास सर्वशः ॥
ततो नानाविधास्तत्र सुस्रुवुः सागराम्भसि ।
महाद्रुमाणां निर्यासा बहवश्चौषधीरसाः ॥
तेषाममृतवीर्याणां रसानां पयसैव च ।
अमरत्वं सुरा जग्मुः काञ्चनस्य च निःस्रवात् ॥
ततस्तस्य समुद्रस्य तञ्जातमुदकं पयः ।
रसोत्तमैर्विमिश्रं च ततः क्षीरादभूद्धृतम् ॥
ततो ब्रह्माणमासीनं देवा वरदमब्रुवन् ।
श्रान्ताः स्म सुभृशं ब्रह्मन्नोद्भवत्यमृतं च तत् ॥
ऋते नारायणं देवं सर्वेऽन्ये देवदानवाः ।
चिरारब्धमिदं चापि सागरस्यापि मन्थनम् ॥
`ग्लानिरस्मान्समाविष्टा न चात्रामृतमत्थितम् ।
सौतिरुवाच ।
देवानां वचनं श्रुत्वा ब्रह्मा लोकपितामहः' ॥
ततो नारायणं देवं वचनं चेदमब्रवीत् ।
विधत्स्वैषां बलं विष्णो भवानत्र परायणम् ॥
विष्णुरुवाच ।
बलं ददामि सर्वेषां कर्मैतद्ये समास्थिताः ।
क्षोभ्यतां कलशः सर्वैमन्दरः परिवर्त्यताम् ॥
सौतिरुवाच ।
नारायणवचः श्रुत्वा बलिनस्ते महोदधेः ।
तत्पयः सहिता भूयश्चक्रिरे भृशमाकुलम् ॥
`तत्र पूर्वं विषं जातं तद्ब्रह्मवचनाच्छिवः ।
प्राग्रसल्लोकरक्षार्थं ततो ज्येष्ठा समुत्थिता ।
कृष्णरूपधरा देवी सर्वाभरणभूषिता ॥'
ततः शतसहस्रांशुर्मथ्यमानात्तु सागरात् ।
प्रसन्नात्मा समुत्पन्नः सोमः शीतांशुरुज्ज्वलः ॥
श्रीरनन्तरमुत्पन्ना घृतात्पाण्डुरवासिनी ।
सुरा देवी समुत्पन्ना तुरगः पाण्डुरस्तथा ॥
कौस्तुभस्तु मणिर्दिव्य उत्पन्नो घृतसंभवः ।
मरीचिविकचः श्रीमान्नारायणउरोगतः ॥
श्रीः सुरा चैव सोमश्च तुरगश्च मनोजवः ।
`पारिजातश्च तत्रैव सुरभिश्च महामुने ।
जज्ञाते तौ तदा ब्रह्मन्सर्वकामफलप्रदौ ॥
ततो जज्ञे महाकायश्चतुर्दन्तो महागजः ।
कपिला कामवृक्षश्च कौस्तुभश्चाप्सरोगणः ।'
यतो देवास्ततो जग्मुरादित्यपथमाश्रिताः ॥
धन्वन्तरिस्ततो देवो वपुष्मानुदतिष्ठत ।
श्वेतं कमण्डलुं बिभ्रदमृतं यत्र तिष्ठति ॥
एतदत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः ।
अमृतार्थे महान्नादो ममेदमिति जल्पताम् ॥
ततो नारायणो मायां मोहिनीं समुपाश्रितः ।
स्त्रीरूपमद्भुतं कृत्वा दानवानभिसंश्रितः ॥
ततस्तदमृतं तस्यै ददुस्ते मूढचेतसः ।
स्त्रियै दानवदैतेयाः सर्वे तद्गतमानसाः ॥
`सा तु नारायणी माया धारयन्ती कमण्डलुम् ।
आस्यमानेषु दैत्येषु पङ्क्त्या च प्रति दानवैः ॥
देवानपाययद्देवी न दैत्यांस्ते च चुक्रुशुः ॥ ॥
इति श्रीमन्महाबारते आदिपर्वणि आस्तीकपर्वणि अष्टादशोऽध्यायः ॥ 18 ॥
1-18-11 अकूपारे समुद्रसमीपे । अधिष्ठानं आधारः ॥ 1-18-12 तु
तथेत्युक्ते पृष्ठे त्वस्य समर्पितः । सशैलस्तस्य चाग्रं वै
वज्रेणेन्द्रोऽभ्यपीडयत् । इति पाठान्तरं ॥ 1-18-13 योक्त्रं मन्थनरज्जुम् ॥ 1-18-14 एकमन्तं एकं प्रदेशं मुखभागम् ॥ 1-18-33 वारुणानि वरुणलोकस्थानि
आप्यांशप्रधानशरीराणि ॥ 1-18-40 लवणाम्भसि कुतो दुग्धमित्यत आह । तत इति । ततः
तेषां निःस्रवं प्राप्य । समुद्रस्य तत्क्षारं उदकं पयः क्षीरं जातम् ॥ 1-18-50
मरीचिविकचः रश्मिभिरुज्ज्वलः । नारायणउरोगत इत्यसन्धिरार्षः ॥ 1-18-55
अभिसंश्रितः संमुखः स्थितः मोहनार्थमिति शेषः ॥ अष्टादशोऽध्यायः ॥ 18 ॥