अध्यायः 053

कृष्णेन बालकैः सह विहृत्य कालियमर्दनम् ॥ 1 ॥ बलरामेण धेनुकासुरहननम् ॥ 2 ॥ कृष्णेन गोवर्धनोद्धरणम् ॥ 3 ॥ अरिष्टासुरादिहननम् ॥ 4 ॥ मधुरायां कंसं हत्वा पित्रोः पादाभिवन्दनम् ॥ 5 ।

भीष्ण उवाच ।

ततः कदचिद्गोविन्दो ज्येष्ठं सङ्कर्षणं विना ।
चचार तद्वनं रम्यं सुस्वरूपो वराननः ॥
काकपक्षधरः श्रीमाञ्छ्यामः पद्मनिभेक्षणः ।
श्रीवत्सेनोरसा युक्तः शशाङ्क इव लक्ष्मणा ॥
रज्जुयज्ञोपवीती स पीताम्बरधरो युवा ।
श्वेतचन्द्रनलिप्राङ्गो नीलकुञ्चितमूर्धजः ॥
राजता बर्हिपत्रेण मन्दमारुतकम्पिना ।
क्वचिद्गायन्क्वञ्चित्क्रीडन्क्वचिन्नृत्यन्क्वचिद्धसन् ॥
गोपवेणुं सुमधुरं कामं तदपि वादयन् ।
प्रह्लादनार्थं च गवां क क्वचिद्वनगतो युवा ॥
गोकुले मेघकाले तु चचार द्युतिमान्प्रभुः ।
बहुरम्येषु देशेषु वनस्य वनराजिपु ॥
तासु कृष्णो मुदा युक्तः क्रीडयन्भरतर्षभ ।
स कदाचिद्वने तस्मिन्गोभिः सह परिव्रजन् ॥
भाण्डीरं नाम दृष्ट्वाऽथ न्यग्रोधं केशवो महान् ।
तच्छायायां मतिं चक्रे निवासाय तदा प्रभुः ॥
स तत्र वयसा तुल्यैर्बत्सपालैस्तदाऽनघ ।
रेमे स दिवसं कृष्णः पुरा स्वर्गगतो यथा ॥
तं क्रीडमानं गोपालाः कृष्णं भाण्डीरवासिनः ।
रमयन्ति स्म बहवो मान्यैः क्रीडनकैस्तदा ॥
अन्ये स्म परिगायन्ति गोपा मुदितमानसाः ।
गोपालकृष्णमेवान्ये गायन्ति स्म वनप्रियाः ॥
तेषां सङ्गायतामेव वादयामास केशवः ।
पर्णवाद्यान्तरे वेणुं तुम्बवीणां च तत्र वै ॥
एवं क्रीडान्तरैः कृष्णो गोपालैर्विजहार सः ।
तेन बालेन कौन्तेय कृतं लोकहितं तदा ॥
पश्यतां सर्वभूतानां वासुदेवेन भारत ।
ह्रदे निपातता तत्र क्रीडितं नागमूर्धनि ॥
शासयित्वा तु कालीयं सर्वलोकस्य पश्यतः ।
विजहार ततः कृष्णो बलेदवसहायवान् ॥
धेनुको दारुणो राजन्दैत्यो रासभविग्रहः ।
तदा तालवने राजन्बलदेवेन वै हतः ॥
ततः कदाचित्कौन्तेय रामकृष्णौ वनं गतौ ।
चारयन्तौ प्रवृद्धानि गोधनानि शुभाननौ ॥
विहरन्तौ मुदा युक्तौ वीक्षमाणौ वनानि वै ।
श्वेलयन्तौ प्रगायन्तौ विचिन्वन्तौ च पादपान् ॥
नामभिर्व्याहरन्तौ च वत्सान्गाश्च परन्तपौ ।
चेरतुर्लोकसिद्धाभिः क्रीडाभिरपराजितौ ॥
तौ देवौ मानुषीं दीक्षां वहन्तौ सुरपूजितौ ।
तज्जातिगुणयुक्ताभिः क्रीडाभिश्चेरतुर्वनम् ॥
एवं बाल्येऽपि गोपालैः क्रीडाभिश्च विजह्रतुः ॥
ततः कृष्णो महातेजास्तदा गत्वा तु गोव्रजम् ।
गिरियज्ञं तमेवैष प्रवृत्तं गोपदारकैः ॥
बुभुजे पायसं शौरिरीश्वरः सर्वभूतकृत् ।
तं दृष्ट्वा गोपकाः सर्वे कृष्णमेव समर्चयन् ॥
पूज्यमानस्तदा देवैर्दिव्यं वपुरधारयत् ।
धृतो गोवर्धनो नाम सप्ताहं पर्वतो धृतः ॥
शिशुना वासुदेवेन गवार्थमरिमर्दन ।
क्रीडमानस्तदा कृष्णः कृतवान्कर्म दुष्करम् ॥
तदद्भुतमतीवासीत्सर्वलोकस्य भारत । देवदेवः क्षितं गत्वा कृष्णं नत्वा मुदान्वितः ।
गोविन्द इति तं ह्युक्त्वा ह्यभ्यषिञ्चत्पुरन्दरः ।
इत्युक्त्वाश्लिष्य गोविन्दं पुरुहूतोभ्ययाद्दिवम् ॥
अथारिष्ट इति ख्यातं दैत्यं वृषभविग्रहम् ।
जघान तरसा कृष्णः पशूनां हितकाम्यया ॥
केशिनामा ततो दैत्यो राजंस्तुरगविग्रहः ।
तथा वनगतं पार्थ गजायुतबलं हयम् ॥
कराम्भोरुहवज्रेण जघान मधुसूदनः ।
अथ मल्लं तु चाणूरं निजघान महाऽसुरम् ॥
सुदामानममित्रघ्न सर्वसैन्यपुरस्कृतम् ।
बालरूपेण गोविन्दो निजघान च भारत ॥
बलदेवेन चायत्नात्समाजे मुष्टिको हतः ।
ताडितश्च सहामात्यः कंसः कृष्णेन भारत ॥
हत्वा कंसममित्रघ्नः सर्वेषां पश्यतां तदा । अभिषिच्योग्रसेनं तं पित्रोः पादमवन्दत ।
एवमादीनि कर्माणि कृतवान्वै जनार्दनः ॥ ॥

इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि त्रिपञ्चाशोऽध्यायः ॥ 53 ॥