अध्यायः 285

अङ्गदेन रावणाय रामसंदंशनिवेदनपूर्वकंपुना रामसमीपागमनम् ॥ 1 ॥ वानरै रामाज्ञया लङ्काप्राकारादिविभेदनपूर्वकं राक्षसैः सह योधनम् ॥ 2 ॥ ततो रामेण स्वसेनानामवहारः ॥ 3 ॥

मार्कण्डेय उवाच ।
प्रभूतान्नोदकेतस्मिन्बहुमूलफले वने ।
सेनां निवेश्य काकुत्स्थो विधिवत्पर्यरक्षत ॥
रावणः संविधं चक्रे लङ्कायां शास्त्रनिर्मिताम् ।
प्रकृत्यैवदुराधर्षा दृढप्राकारतोरणा ॥
अगाधतोयाः परिखा मीननक्रसमाकुलाः ।
बभूवुः सप्त दुर्धर्षाः स्वादिरैः शङ्कुभिश्चिताः ॥
कर्णाटयन्त्रा दुर्धर्षा बभूवुः सहुडोपलाः ।
साशीविषघटायोधाः ससर्जरसपांसवः ॥
मुसलालातनाराचतोमरासिपरश्वथैः ।
अन्विताश्चशतघ्नीभिः समधूच्छिष्टमुद्गराः ॥
पुरद्वारेषु सर्वेषु गुल्माः स्थावरजङ्गमाः ।
बभूवुः पत्तिबहुलाः प्रभूतगजवाजिनः ॥
अङ्गदस्त्वथ लङ्कायां द्वारदेशमुपागतः ।
विदितो रराक्षसेन्द्रस्य प्रविवेशगतव्यथः ॥
मध्ये राक्षसकोटीनां बह्वीनां सुमहाबलः ।
शुशुभे मेघमालाभिरादित्य इव संवृतः ॥
ससमासाद्य पौलस्त्यममात्यैरभिसंवृतम् ।
रामसंदेशमामन्त्र्य वाग्मी वक्तुं प्रचक्रमे ॥
आह त्वां राघवो राजन्कोसलेन्द्रो महायशाः । प्राप्तकालमिदं वाक्यं तदादत्स्व सुदुर्मते ।
अकृतात्मानमासाद्य राजानमनये रतम् ।
विनश्यन्त्यनयाविष्टा देशाश्च नगराणि च ॥
त्वयैकेनापराद्धं मे सीतामाहरता बलात् ।
वधायानपराद्धानामन्येषां तद्भविष्यति ॥
ये त्वया बलदर्पाभ्यामाविष्टेन वनेचराः ।
ऋषयोहिंसिताः पूर्वंदेवाश्चाप्यवमानिताः ॥
राजर्षयश्च निहता रुदत्यश्चाहृताः स्त्रियः ।
तदिदं समनुप्राप्तं फलंतस्यानयस्य ते ॥
हन्तास्मि त्वां सहामात्यैर्युध्यस्व पुरुषो भव ।
पश्य मे धनुषो वीर्यं मानुषस् निशाचर ॥
मुच्यतां जानकी सीता न मे मोक्ष्यमसि कर्हिचित् ।
अराक्षसमिमं लोकंकर्ताऽस्मि निशितैः शरैः ॥
इतितस् ब्रुवाणस् दूतस् परुषं वचः ।
श्रुत्वा न ममृषे राजा रावणः क्रोधमूर्च्छितः ॥
हङ्गितज्ञास्ततो भर्तुश्चत्वारो रजनीचराः ।
चतुर्ष्वङ्गेषु जगृहुः शार्दूलमिव पक्षिणः ॥
तांस्तथाङ्गेषु संसक्तानङ्गदो रजनीचरान् ।
आदायैव खमुत्पत्य प्रासादतलमाविशत् ॥
वेगेनोत्पततस्तस्य पेतुस्ते रजनीचराः ।
भुवि संभिन्नहृदयाः प्रहारवरपीडिताः ॥
संसक्तोहर्म्यशिखरात्तस्मात्पुनरवापतत् ।
लङ्घयित्वा पुरं लङ्कां सुवेलस्य समीपतः ॥
कोसलेन्द्रमथागम्य सर्वमावेद्य वानरः ।
विशश्राम स तेजस्वी राघवेणाभिनन्दितः ॥
ततः सर्वाभिसारेण हरीणां वातरंहसाम् ।
भेदयामास लङ्कायाः ग्राकारं रघुनन्दनः ॥
विभीषणर्क्षाधिपती पुरस्कृत्याथ लक्ष्मणः ।
दक्षिणं नगरद्वारमवामृद्गाद्दुरासदम् ॥
करभारुणगात्राणां हरीणां युद्धशालिनाम् ।
कोटीशतसहस्रेण लङ्कामभ्यपतत्तदा ॥
प्रलम्बबाहूरुकरजङ्घान्तरविलम्बिनाम् ।
ऋक्षाणआं धूम्रवर्णानां तिस्रः कोठ्यो व्यवस्थिताः ॥
उत्पतद्भिः पतद्भिश्च निपतद्भिश्च वानरैः ।
नादृश्यत तदा सूर्यो रजसा नाशितप्रभः ॥
शालिप्रसूनसदृशैः शिरीपकुसुमप्रभैः ।
तरुणादित्यसदृशैः शणगौरैश्च वैनरैः ॥
प्राकारं ददृशुस्ते तु समन्तात्कपिलीकृतम् ।
राक्षसा विस्मिता राजन्सस्त्रीवृद्धाः समन्ततः ॥
बिभिदुस्ते मणिस्तम्भान्कर्णाट्टशिखराणि च ।
भग्नोन्मथितशृङ्गाणि यन्त्राणि च विचिक्षिपुः ॥
परिगृह्य शतघ्नीश्च सचक्राः सगुडोपलाः ।
चिक्षिपुर्भुजवेगेन लङ्कामध्येमहास्वनाः ॥
प्राकारस्थाश्चये केचिन्निशाचरगणास्तथा ।
प्रदुद्रुवुस्ते शतशः कपिभिः समभिद्रुताः ॥
ततस्तु राजवचनाद्राक्षसाः कामरूपिणः ।
निर्ययुर्विकृताकाराः सहस्रशतसङ्घशः ॥
शखवर्षाणि वर्षन्तो द्रावयित्वा वनौकसः ।
प्राकारं शोभयन्तस्ते परं विस्मयमास्थिताः ॥
स मापराशिसदृशैर्बभूव क्षणादाचरैः ।
कृतो निर्वानरो भूयः प्राकारो भीमदर्शनैः ॥
पेतुः शलविभिन्नाङ्गा बहवो वानरर्पभाः ।
स्तम्भतोरणभग्नाश्चपेतुस्तत्रनिशाचराः ॥
केशाकेश्यभवद्युद्धं रक्षसां वानरैः सह ।
नखैर्दन्तैश्च वीराणां खादतां वै परस्परम् ॥
निष्टनन्तो ह्युभयतस्तत्र वानरराक्षसाः ।
हतानिपतिता भूमौ न मुञ्चन्ति परस्परम् ॥
रामस्तु शरजालानिववर्ष जलदो यथा ।
तानिलङ्कां समासाद्य जघ्रुस्तान्रजनीचरान् ॥
सौमित्रिरपि नाराचैर्दृढधन्वा जितक्लमः ।
आदिश्यादिश्य दुर्गस्थान्पातयामास राक्षसान् ॥
ततः प्रत्यवहारोऽभूत्सैन्यानां राधवाज्ञया । कृते विमर्दे लङ्कायां लब्धलक्ष्योजयोत्तरः ॥

इति श्रीमन्महाभारते अरण्यपर्वणि रामोपाख्यानपर्वणि पञ्चाशीत्यधिकाद्विशततमोऽध्यायः ॥ 285 ॥

3-285-2 संविधं सम्यग्विद्ध्यान्त्यनया तां यात्रादिसंपत्तिम् ॥ 3-285-4 सहुडाः सोपलाश्च । हुढं मूत्राद्युत्सर्जनार्थं शृङ्गम् । उपलाः प्रक्षेप्या गोलकाः. कपाटयन्त्रदुर्धर्षा इति झ. पाठः ॥ 3-285-5 समधूच्छिष्टमुद्गराः । मधूच्छिष्टं क्षौद्रं मधु ॥ 3-285-6 गुल्माः गुप्तोपवेशनस्थानानि ॥ 3-285-7 गतव्यथो निर्भयः ॥ 3-285-9 आमन्त्र्य हेरावण इति संबोध्य ॥ 3-285-10 तदादत्स्व कुरुष्व चेति झ.पाठः ॥ 3-285-23 सर्वाभिसारः युपगत्सर्वेषामभिसारो यत्नस्तेन ॥ 3-285-24 ऋक्षाधिपतिर्जाम्बवान् ॥ 3-285-25 करभो मणिबन्धादिकनिष्ठान्तं हस्तप्रदेशस्तद्वदरुणाः ॥ 3-285-28 शणो गोणीसूत्रोपादानवीरुत् ॥ 3-285-30 कर्णस्तिर्यग्यानं तेन प्रकारेण यत्पाषाणादिविस्तरेण क्रियते तत्तद्गृहविशेषं कर्णाट्टमिति वदन्ति ॥ 3-285-36 स्तम्भतः स्तम्भैर्वानरोपात्तैः । रणे भग्ना रणभग्नाः ॥ 3-285-37 केशाकेशि अन्योन्यं केशेषु गृहीत्वा प्रवृत्तम् ॥ 3-285-38 निष्टनन्तःशब्दं कुर्वन्तः ॥ 3-285-40 आदिश्य संमुखीकृत्येत्यर्थः ॥ 3-285-41 प्रत्यवहारः शिविरंप्रति गमनम् । लब्धा आयुधैः प्राप्ता लक्ष्या वेध्यायस्मिन्नवन्ध्यप्रहार इतियावत् । जयोत्तरो जयोत्कर्षवान् ॥