अध्यायः 186

दुर्योधनोपालम्भकोपितेन द्रोणेन पार्थदुर्योधनप्रशंसाधिक्षेपपूर्वकं रणाय निःसरणम् ॥ 1 ॥

सञ्जय उवाच ।
ततो दुर्योधनो द्रोममभिगम्याब्रवीदिदम् ।
अमर्षवशमापन्नो जनयन्हर्षतेजसी ॥
दुर्योधन उवाच ।
न मर्षणीयाः सङ्ग्रामे विश्रमन्तः श्रमान्विताः ।
सपत्ना ग्लानमनसो लब्धलक्षा विशेषतः ॥
यत्तु मर्षितमस्माभिर्भवतः प्रियकाम्यया ।
त एते परिविश्रान्ताः पाण्डवा बलवत्तराः ॥
सर्वथा परिहीनाः स्म तेजसा च बलेन च ।
भवता पाल्यमानास्ते विवर्धन्ते पुनःपुनः ॥
दिव्यान्यस्त्राणि सर्वाणि ब्राह्मादीनि च यानि ह ।
तानि सर्वामि तिष्ठन्ति भवत्येव विशेषतः ॥
न पाण्डवेया न वयं नान्ये लोके धनुर्धराः ।
युध्यमानस्य ते तुल्याः सत्यमेतद्ब्रवीमि ते ॥
ससुरासुरगन्धर्वानिमाँलोकान्द्विजोत्तम ।
सर्वास्त्रविद्भवान्हन्याद्दिव्यैरस्त्रैर्न संशयः ॥
स भवान्मर्षयत्येनांस्तव तुल्यानवेत्य च ।
शिष्यत्वं वा पुरस्कृत्य मम वा मन्दभाग्यताम् ॥
सञ्जय उवाच ।
एवमुद्धर्षितो द्रोणः कोपितश्च सुतेन ते ।
समन्युरब्रवीद्राजन्दुर्योधनमिदं वचः ॥
स्थविरः सन्परं शक्त्या घटे दुर्योधनाहवे । अतः परं मया कार्यं क्षुद्रं विजयगृद्धिना ।
अनस्त्रविदयं सर्वो हन्तव्योऽस्त्रविदा जनः ॥
यद्भवान्मन्यते चापि शुभं वा यदि वाऽशुभम् ।
तद्वै कर्ताऽस्मि कौरव्य वचनात्तव नान्यथा ॥
निहत्य सर्वपाञ्चालान्युद्धे कृत्वा पराक्रमम् ।
विमोक्ष्ये कवचं राजन्सत्येनायुधमालभे ॥
मन्यसे यच्च कौन्तेयमर्जुनं श्रान्तमाहवे ।
तस्य वीर्यं महाबाहो शृणु सत्येन कौरव ॥
तं न देवा न गन्धर्वा न यक्षा न च राक्षसाः ।
उत्सहन्ते रणे जेतुं कुपितं सव्यसाचिनम् ॥
खाण्डवे येन भगवान्प्रत्युद्यातः सुरेश्वरः ।
सायकैर्वारितश्चापि वर्षमाणो महात्मना ॥
यक्षा नागास्तथा दैत्या ये चान्ये बलगर्विताः ।
निहताः पुरुषेन्द्रेण तच्चापि विदितं तव ॥
गन्धर्वा घोषयात्रायां चित्रसेनादयो जिताः ।
यूयं तैर्ह्रियमाणाश्च मोक्षिता दृढधन्वना ॥
निवातकवचाश्चापि देवानां शत्रवस्तथा ।
सुरैरवध्याः सङ्ग्रामे तेन वीरेण निर्जिताः ॥
दानवानां सहस्राणि हिरण्यपुरवासिनाम् ।
विजिग्ये पुरुषव्याघ्रः स शक्यो मानुषैः कथम् ॥
प्रत्यक्षं चैव ते सर्वं यथा बलमिदं तव ।
क्षपितं पाण्डुपुत्रेण चेष्टतां नो विशाम्पते ॥
सञ्जय उवाच ।
तं तदाऽभिप्रशंसन्तमर्जुनं कुपितस्तदा ।
द्रोणं तव सुतो राजन्पुनरेवेदमब्रवीत् ॥
अहं दुःशासनः कर्णः शकुनिर्मातुलश्च मे । हनिष्यामोऽर्जुनं सङ्ख्ये द्विधा कृत्वाऽद्य भारतीम् ।
`तिष्ठ स त्वं महाबाहो नित्यं शिष्यः प्रियस्तव' ॥
तस्य तद्वचनं श्रुत्वा भारद्वाजो हसन्निव ।
अन्ववर्तत राजानं स्वस्ति तेऽस्त्विति चाब्रवीत् ॥
को हि गाण्डीवधन्वानं ज्वलन्तमिव तेजसा ।
अक्षयं क्षपयेत्कश्चित्क्षत्रियः क्षत्रियर्षभम् ॥
तं न वित्तपतिर्नेन्द्रो न यमो न जलेश्वरः ।
नासुरोरगरक्षांसि क्षपयेयुः सहायुधम् ॥
मूढास्त्वेतानि भाषन्ते यानीमान्यात्थ भारत ।
युद्धे ह्यर्जुनमासाद्य स्वस्तिमान्को व्रजेद्गृहान् ॥
त्वं तु सर्वाभिशङ्कित्वान्निष्ठुरः पापनिश्चयः ।
श्रेयसस्त्वद्धिते युक्तांस्तत्तद्वक्तुमिहेच्छसि ॥
गच्छ त्वमपि कौन्तेयमात्मार्थे जहि माचिरम् ।
त्वमप्याशंससे योद्धुं कुलजः क्षत्रियो ह्यसि ॥
इमान्किं क्षत्रियान्सर्वान्घातयिष्यस्यनागसः ।
त्वस्य मूलं वैरस्य तस्मादासादयार्जुनम् ॥
एष ते मातुलः प्राज्ञः क्षत्रधर्ममनुव्रतः ।
दुर्द्युतदेवी गान्धारे प्रयात्वर्जुनमाहवे ॥
एषोऽक्षकुशलो जिह्मो द्यूतकृत्कितवः शठः ।
देविता निकृतिप्रज्ञो युधि जेष्यति पाण्डवान् ॥
त्वया कथितमत्यर्थं कर्णेन सह हृष्टवत् ।
असकृच्छून्यवन्मोहाद्वृतराष्ट्रस्य शृण्वतः ॥
अहं च तात कर्णश्च भ्राता दुःशानश्च मे ।
पाण्डुपुत्रान्हनिष्यामः सहिताः समरे त्रयः ॥
इति ते कत्थमानस्य श्रुतं संसदिसंसदि ।
अनुतिष्ठ प्रतिज्ञां तां सत्यवाग्भव तैः सह ॥
एष ते पाण्डवः शत्रुरविशङ्कोऽग्रतः स्थितः ।
क्षत्रधर्ममवेक्षस्व श्लाघ्यस्तव वधो जयात् ॥
दत्तं भुक्तमधीतं च प्राप्तमैश्वर्यमीप्सितम् ।
कृतकृत्योऽनृणश्चासि मा भैर्युध्यस्व पाण्डवम् ॥
इत्युक्त्वा समरे द्रोणो न्यवर्तत यतः परे ।
द्वैधीकृत्य ततः सेनां युद्धं समभवत्तदा ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणवधपर्वणि चतुर्दशरात्रियुद्धे षडशीत्यधिकशततमोऽध्यायः ॥ 186 ॥

श्रीः