अध्यायः 037

अभिमन्युपराक्रमवर्णनम् ॥ 1 ॥

सञ्जय उवाच ।
तां प्रभाग्नां चमूं दृष्ट्वा सौभद्रेणामितौजसा ।
दुर्योधनो भृशं क्रुद्धः स्वयं सौभद्रमभ्ययात् ॥
ततो राजानमावृत्तं सौभद्रं प्रति संयुगे ।
दृष्ट्वा द्रोणोऽब्रवीद्योधान्परीप्सध्वं नराधिपम् ॥
पुराऽभिमन्युर्लक्षं नः पश्यतां हन्ति वीर्यवान् । तमाद्रवत माभैष्ट क्षिप्रं रक्षत कौरवम् ।
सञ्जय उवाच ।
`एवमुक्तास्ततस्तेन भारद्वाजेन धीमता' । कृतज्ञानबलोत्सेधाः सुहृदो जितकाशिनः ।
त्रास्यमाना भयाद्वीरं परिवव्रुस्तवात्मजम् ॥
द्रोणो द्रौणिः कृपः कर्णः कृतवर्मा च सौबलः ।
बृहद्बलो मद्रराजो भूरिर्भूरिश्रवाः शलः ॥
पौरवो वृषसेनश्च विसृजन्तः शिताञ्शरान् ।
सौभद्रं शरवर्षेण महता समवाकिरन् ॥
सम्मोहयित्वा तमथ दुर्योधनममोचयन् ।
आस्याद्ग्रासमिवाक्षिप्तं ममृषे नार्जुनात्मजः ॥
ताञ्शरौघेण महता साश्वसूतान्महारथान् ।
विमुखीकृत्य सौभद्रः सिंहनादमथानदत् ॥
तस्य नादं ततः श्रुत्वा सिंहस्येवामिषैषिणः ।
नामृष्यन्त सुसंरब्धाः पुनर्द्रोणमुखा रथाः ॥
त एनं कोष्ठकीकृत्य रथवंशेन मारिष ।
व्यसृजन्निषुजालानि नानालिङ्गानि सङ्घशः ॥
तान्यन्तरिक्षे चिच्छेद पौत्रस्ते निशितैः शरैः ।
तांश्चैव प्रतिविव्याध तदद्भुतमिवाभवत् ॥
`ततो रथपदात्योघाः कुञ्जराः सादिनश्च ह' । कोपितास्तेन शूरेण शरैराशीविषोपमैः ।
परिवब्रुर्जिघांसन्तः सौभद्रमपराजितम् ॥
समुद्रमिव पर्यस्तं त्वदीयं तं बलार्णवम् ।
दधारैकोऽर्जुनिर्बाणैर्वेलेवोद्वृत्तमर्णवम् ॥
शूराणां युध्यमानानां निघ्नतामितरेतरम् ।
अभिमन्योः परेषां च नासीत्कश्चित्पराङ्मुखः ॥
तस्मिंस्तु घोरे सङ्ग्रामे वर्तमाने भयङ्करे ।
दुःसहो नवभिर्बाणैरभिमन्युमविध्यत ॥
दुःशानो द्वादशभिः कृपः शारद्वतस्त्रिभिः ।
द्रोणस्तु सप्तदशभिः शरैराशीविषोपमैः ॥
विविंशतिस्तु सप्तत्या कृतवर्मा च सप्तभिः ।
बृहद्बलस्तथाऽष्टाभिरश्वत्थामा च सप्तभिः ॥
भूरिश्रवास्त्रिभिर्बाणैर्मद्रेशः षङ्भिराशुगैः ।
द्वाभ्यां शराभ्यां शकुनिस्त्रिभिर्दुर्योधनो नृपः ॥
स तु तान्प्रतिविव्याध त्रिभिस्त्रिभिरजिह्मगैः ।
नृत्यन्निव महाराज चापहस्तः प्रतापवान् ॥
ततोऽभिमन्युः सङ्क्रुद्धस्त्रास्यमानस्तवात्मजैः ।
विदर्शयन्वै सुमहच्छिक्षौरसकृतं बलम् ॥
गरुडानिलरंहोभिर्यन्तुर्वाक्यकरैर्हयैः ।
अभ्यद्रवत तं कार्ष्णिमश्मकेन्द्रः कृतत्वरः ॥
अश्वाश्चाश्मकमादाय त्वरमाणाऽभ्यहारयन् ।
विव्याध दशभिर्बाणैस्तिष्ठतिष्ठेति चाब्रवीत् ॥
तस्याभिमन्युर्दशभिर्हयान्सूतं ध्वजं शरैः ।
बाहू धनुः शिरश्चोर्व्यां स्मयमानोऽभ्यपातयत् ॥
ततस्तस्मिन्हते वीरे सौभद्रेणाश्मकेश्वरे ।
सञ्चचाल बलं सर्वं पलायनपरायणम् ॥
ततः कर्णः कृपो द्रोणो द्रौणिर्गान्धारराट् शलः । शल्यो भूरिश्रवाः क्राथः सोमदत्तो विविंशतिः ।
वृषसेनः सुषेणश्च कुण्डभेदी प्रतर्दनः ॥
बृन्दारको ललित्थश्च प्रबाहुर्दीर्घलोचनः ।
दुर्योधनश्च सङ्क्रुद्धः शरवर्षैरवाकिरन् ॥
सोऽतिविद्धो महेष्वासैरभिमन्युरजिह्मगैः ।
शरमादत्त कर्णाय वर्मकायावभेदिनम् ॥
तस्य भित्त्वा तनुत्राणं देहं निर्भिद्य चाशुगः ।
प्राविशद्धरणीं वेगाद्वल्मी कमिव पन्नगः ॥
स तेनातिप्रहारेण व्यथितो विह्वलन्निव ।
सञ्चचाल रणे कर्णः क्षितिकम्पे यथाऽचलः ॥
तथान्यैर्निशितैर्बाणैः सुषेणं दीर्घलोचनम् ।
कुण्डभेदिं च सङ्क्रुद्धस्त्रिभिस्त्रीनवधीद्बली ॥
कर्णस्तं पञ्चविंशत्या नाराचानां समार्पयत् ।
अश्वत्थामा च विंशत्या कृतवर्मा च सप्तभिः ॥
स शराचितसर्वाङ्गः क्रुद्धः शक्रात्मजात्मजः ।
विचरन्ददृशे सैन्ये पाशहस्त इवान्तकः ॥
शल्यं च शरवर्षेण समीपस्थामवाकिरत् ।
उदक्रोशन्महाबाहुस्तव सैन्यानि भीषयन् ॥
ततः स विद्धोऽस्त्रविदा मर्मभिद्भिरजिह्मगैः ।
शल्यो राजन्रथोपस्थे निषसाद मुमोह च ॥
तं हि दृष्ट्वा तथा विद्धं सौभद्रेण यशास्विना ।
सम्प्राद्रवच्चमूः सर्वा भारद्वाजस्य पश्यतः ॥
सम्प्रेक्ष्य तं महाबाहुं रुक्मपुङ्खैः समावृतम् ।
त्वदीयाः प्रपलायन्ते मृगाः सिंहार्दिता इव ॥
`सौभद्रशरनिर्भग्नाः समरेऽमरविक्रमाः ।
एवं शल्यो विमृदितस्तव पौत्रेण भारत' ॥
स तु रणयशसाऽभिपूज्यमानः पितृसुरचारणसिद्धयक्षसङ्गैः
अवनितलगतैश्च भूतसङ्घै-- रतिविबभौ हुतभुग्यथाऽऽज्यसिक्तः ॥ ॥

इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि त्रयोदशदिवसयुद्धे सप्तत्रिंशोऽध्यायः ॥ 37 ॥

5-37- त्रास्यमानाः पालयिष्यन्तः ॥ 5-37- पर्यस्तं उत्क्रान्तमर्यादम् ॥ 5-37- शिक्षौरसकृतं अभ्यासकृतं निसर्गभवं च ॥

श्रीः