अध्यायः 045

कर्णं पराजित्य जिघांसोर्भीमस्य शल्येन हेतुकयहपूर्वकं निषेधनम् ॥ 1 ॥

सञ्जय उवाच ।
तानभिद्रवतो दृष्ट्वा पाण्डवांस्तावकं बलम् ।
अन्तमद्य गमिष्यामि तस्य दुःखस्य पार्षत ॥
हन्तास्म्यद्य रणे कर्णं स वा मां निहनिष्यति ।
सङ्ग्रामेऽद्य सुघोरेऽस्मिन्सत्यमेतद्ब्रवीमि वः ॥
राजानमद्य भवतां न्यासभूतं ददानि वै ।
तस्य संरक्षणे सर्वे यतध्वं विगतज्वराः ॥
एवमुक्त्वा महाबाहुः प्रायादाधिरथिं प्रति ।
सिंहनादेन महता सर्वाः सन्नादयन्दिशः ॥
दृष्ट्वा त्वरितमायान्तं भीमं युद्धाभिनन्दिनम् ।
सूतपुत्रमथोवाच मद्राणामीश्वरो विभुः ॥
शल्य उवाच ।
पश्य कर्ण महाबाहुं सङ्क्रुद्धं पाण्डुनन्दनम् ।
दीर्घकालार्जितं क्रोधं मोक्तुकामं त्वयि ध्रुवम् ॥
ईदृशं नास्य रूपं मे दृष्टपूर्वं कदाचन ।
अभिमन्यौ हते कर्ण राक्षसे च घटोत्कचे ॥
त्रैलोक्यस्य समस्तस्य शक्तः क्रुद्धो निवारणे ।
बिभर्ति सदृशं रूपं युगान्ताग्निसमप्रभम् ॥
सञ्जय उवाच ।
इति ब्रुवति राधेयं मद्राणामीश्वरे नृप ।
अभ्यवर्तत वै कर्णं क्रोधदीप्ततो वृकोदरः ॥
अथागतं तु सम्प्रेक्ष्य भीमं युद्धाभिनन्दिनम् ।
अब्रवीद्वचनं शल्यं राधेयः प्रहसन्निव ॥
यदुक्तं वचनं मेऽद्य त्वया मद्रजनेश्वर ।
भीमसेनं प्रति विभो तत्सत्यं नात्र संशयः ॥
एष शूरश्च वीरश्च क्रोधनश्च वृकोदरः ।
निरपेक्षः शरीरे च प्राणतश्च बलाधिकः ॥
अज्ञातवासं वसता विराटनगरे तदा । द्रौपद्याः प्रियकामेन केवलं बाहुसंश्रयात् ।
गूढभावं समाश्रित्य कीचकः सगणो हतः ॥
सोऽद्य सङ्ग्रामशिरसि सन्नद्वः क्रोधमूर्च्छितः ।
किं करोद्यतदण्डेन मृत्युनापि व्रजेद्रणम् ॥
चिरकालाभिलषितो ममायं तु मनोरथः ।
अर्जुनं समरे हन्यां मां वा हन्याद्वनञ्जयः ॥
स मे कदाचिदद्यैव भवेद्भीमसमागमात् ॥
निहते भीमसेने वा यदि वा विरथीकृते । अभियास्यति मां पार्थस्तन्मे साधु भविष्यति ।
अत्र यन्मन्यसे प्राप्तं तच्छीघ्रं सम्प्रधारय ॥
सञ्जय उवाच ।
एतच्छ्रुत्वा तु वचनं राधेयस्यामितौजसः ।
उवाच वचनं शल्यः सूतपुत्रं तथागतम् ॥
अभियाहि महाबाहो भीमसेनं महाबलम् ।
निरपेक्षश्च युध्यस्व शक्तिं स्वां सम्प्रदर्शयन् ॥
यस्ते कामोऽभिलषितश्चिरात्प्रभृति हृद्गततः ।
स वै सम्पत्स्यते कर्ण सत्यमेतद्ब्रवीमि ते ॥
एवमुक्ते ततः कर्णः शल्यं पुनरभाषत ।
हन्ताऽहमेनं संरब्धं मां वा हन्ता वृकोदरः ॥
एवमुक्त्वा महाराज राधेयो रथिनां वरः ।
युद्धे मनः समाधाय याहि याहीत्यचोदयत् ॥
ततः प्रायाद्रथेनाशु शल्यस्तत्र विशाम्पते ।
यत्र भीमो महेष्वासो व्यद्रावयत वाहिनीम् ॥
ततस्तूर्यनिनादश्च भेरीणां च महास्वनः ।
उदतिष्ठच्च राजेन्द्र कर्णभीमसमागमे ॥
भीमसेनोऽथथ सङ्क्रुद्धस्तस्य सैन्यं दुरासदम् ।
नाराचैर्विमलैस्तीक्ष्णैर्दिशः प्राद्रावयद्बली ॥
स सन्निपातस्ततुमुलो घोररूपो विशाम्पते ।
आसीद्रौद्रो महाराज कर्णपाण्डवयोर्मृधे ॥
ततो मुहूर्ताद्राजेन्द्र नातिकृच्छ्राद्धसन्निव ।
भीमसेनो महाबाहुः कर्णं प्रेप्सुरभिद्रवत् ॥
समापतन्तं सम्प्रेक्ष्य कर्णो वैकर्तनो वृषा । आजघान सुसङ्क्रुद्धो नाराचेन स्तनान्तरे ।
पुनश्चैनममेयात्मा शरवर्षैरवाकिरत् ॥
स विद्वः सूतपुत्रेण च्छादयामास पत्रिभिः ।
विव्याध निशितैः कर्णं नवभिर्नतपर्वभिः ॥
तस्य कर्णो धनुर्मध्ये द्विधा चिच्छेद पत्रिभिः ॥
अथैनं छिन्नधन्वानं प्रतत्यविध्यत्स्तनान्तरे ।
नाराचेन सुतीक्ष्णेन सर्वावरणभेदिना ॥
सोऽन्यत्कार्मुकमादाय सूततपुत्रं वृकोदरः । राजन्मर्मसु मर्मज्ञो विव्याध निशितैः शरैः ।
ननाद बलवन्नादं कम्पयन्निव रोदसी ॥
ततं कर्णः पञ्चविंशत्या नाराचानां समार्पयत् ।
मदोत्कटं वने दृप्ततमुल्काभिरिव कुञ्जरम् ॥
ततः सायकभिन्नाङ्गः पाण्डवः क्रोधमूर्च्छितः ।
संरम्भामर्षताम्राक्षः सूतपुत्रवधेप्सया ॥
स कार्मुके महावेगं भारसाधनमुत्तमम् ।
गिरीणामपि भेत्तारं सायकं समयोजयत् ॥
विकृष्य बलवच्चापमाकर्णादतिमारुतिः ।
तं मुमोच महेष्वासः क्रुद्धः कर्णजिघांसया ॥
स विसृष्टो बलवता बाणो वज्राशनिस्वनः ।
अदारयद्रणे कर्णं वज्रवेगो यथाऽचलम् ॥
स भीमसेनाभिहतः सूतपुत्रः कुरूद्वह । निषसाद रथोपस्थे विसंज्ञः पृतनापतिः ।
`रुधिरेणावसिक्ताङ्गो गतासुवदरिन्दमः ॥
एतस्मिन्नन्तरे दृष्ट्वा मद्रराजो वृकोदरम् ।
जिघांसुं छेत्तुमायान्तं साधयन्निदमब्रवीत् ॥
भीमसेन महाबाहो यतत्तत्वां वक्ष्यामि तच्छृणु ।
वचनं हेतुसम्पन्नं श्रुत्वा चैतत्तथा कुरु ॥
अर्जुनेन प्रतिज्ञातो वधः कर्णस्य शुष्मिणः ।
तां तथा कुरु भद्रं ते प्रतिज्ञां सव्यसाचिनः ॥
भीमसेन उवाच ।
दृढव्रतत्वं पार्थस्य जानामि नृपसत्तम ।
राज्ञस्तु धर्षणं पापः कृतवान्मम सन्निधौ ॥
ततः कोपाभिभूतेन शेषं न गणितं मया । पतिते चापि राधेये न मे मन्युः शमं गतः) ।
जिह्वोद्वरणमेवास्य प्राप्तकालं मतं मम ॥
अनेन सुनृशंसेन समवेतेषु राजसु । अस्माकं शृण्वतां शल्य यानि वाक्यानि मातुल ।
असहेयानि नीचानि बहूनि श्रावितानि भो ॥
नूनं चैतत्प्रतिज्ञातं दूरस्थस्यापि पार्थिव । छेदनं चास्य जिह्वायास्तदैवाकाङ्क्षितं मया ।
राज्ञस्तु प्रियकामेन कालोऽयं परिपालितः ॥
भवता तु यदुक्तोऽस्मि वाक्यं हेत्वर्थसंहितम् ।
तद्गृहीतं महारात कटुकस्थमिवौषधम् ॥
हीनप्रतिज्ञो बीभत्सुर्न हि जीवेत कर्हिचित् ।
अस्मिन्विनष्टे नष्टाः स्मः सर्व एव सकेशवाः ॥
अद्य चैव नृशंसात्मा पापः पापकृतां वरः ।
गमिष्यतति परीभावं दृष्टमात्रः किरीटिना ॥
युधिष्ठिरस्य कोपेन पूर्वं दग्धो नृशंसकृत् ।
त्वया संरक्षिततस्तत्वद्य मत्समीपादुपागतः ॥
सञ्जय उवाच ।'
एवं मद्राधिपः श्रुत्वा विसंज्ञं सूतनन्दनम् ।
अपोवाह रथेनाजौ कर्णमाहवशोभिनम् ॥
पराजिते ततः कर्णे धार्तराष्ट्री महाचमूः ।
व्यपायात्सर्वतो भग्ना हाहाभूता समन्ततः ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि सप्ततदशदिवसयुद्धे पञ्चचत्वारिंशोऽध्यायः ॥ 45 ॥

8-45-59 ततो मद्राधिपो दृष्ट्वा इति झ.पाठः ॥ 8-45-45 पञ्चत्वारिंशोऽध्यायः ॥

श्रीः