अध्यायः 052

संशप्तकैर्युध्यमानस्य पार्थस्याश्वत्थाम्नाऽऽह्नानम् ॥ 1 ॥ तयोर्युद्धम् ॥ 2 ॥

धृतराष्ट्र उवाच ।
कथं संशप्तकैः सार्धमर्जुनस्याभवद्रणः ।
सूतपुत्रस्य पाञ्चालैः कथं युद्धं प्रवर्तितम् ॥
अश्वत्थाम्नस्तु यद्युद्धमर्जुनस्य च सञ्जय ।
अन्येषां च मदीयानां पाण्डवैस्तद्ब्रवीहि मे ॥
सञ्जय उवाच ।
शृणु राजन्यथावृत्तं सङ्ग्रामं ब्रुवतो मम ।
वीराणां शत्रुभिः सार्धं देहपाप्मविनाशनम् ॥
पार्थः संशप्तकबलं प्रविश्यार्णवसन्निभम् ।
व्यक्षोभयदमित्रघ्नो महावात इवार्णवम् ॥
पूर्णचन्द्राभवक्राणि स्वक्षिभ्रूदशनानि च । शिरांस्युन्मथ्य वीराणां शितैर्भल्लैर्धनञ्जयः ।
सन्तस्तार क्षितिं क्षिप्रं विनालैर्नलिनैरिव ॥
सुवृत्तानायतान्पुष्टांश्चन्दनागुरुभूषितान् । सायुधान्सतलत्रांश्च पञ्चास्योरगसन्निभान् ।
बाहून्क्षुरैरमित्राणां चिच्छेद समरेऽर्जुनः ॥
धुर्यान्धुर्योतरान्सूतान्ध्वजांश्चापानि सायकान् ।
पाणीन्नितान्तनिशितैर्भल्लैश्चिच्छेद पाण्डवः ॥
रथान्द्विपान्हयांश्चैव सारोहानर्जुनो युधि ।
शरैरनेकसाहस्रैर्निन्ये राजन्यमक्षयम् ॥
तं प्रवीराः सुसंरब्धा नर्दमाना इवर्षभाः । वासितार्थमिव क्रुद्धमभिद्रुत्य महोत्कटाः ।
निघ्न्तमभिजघ्नुस्ते शरैः शृङ्गैरिवर्षभाः ॥
तस्य तेषां च तद्युद्वमभवद्रोमहर्षणम् ।
त्रैलोक्यविजये यद्वद्दैत्यानां सह वज्रिणा ॥
अस्त्रैस्त्राणि संवार्य द्विषतां सर्वतोऽर्जुनः ।
इषुभिर्बहुभिस्तूर्णं विद्व्वा प्राणाञ्जहार सः ॥
छिन्नत्रिवेणुचक्राक्षान्हतयोधान्ससारथीन् ।
विध्वस्तायुधतूणीरान्समुन्मथितकेतनान् ॥
सञ्छिन्नयोक्ररश्मीषान्वित्रिवेणून्विकूबरान् ।
विस्रस्तबन्धुरयुगान्विस्रस्ताक्षप्रमण्डलान् ॥
रथान्विशकलीकुर्वन्महाभ्राणीव मारुतः ॥
विस्मापकं प्रेक्षकाणां द्विषतां भयवर्धनम् ।
महारथसहस्रस्य समं कर्माकरोज्जयः ॥
सिद्धदेवर्षिसङ्घाश्च चारणाश्चापि तुष्टुवुः ॥
देवदुन्दुभयो नेदुः पुष्पवर्षाणि चापतन् ।
केशवार्जुनयोर्मूर्ध्नि प्राह वाक्वाशरीरिणी ॥
चन्द्राग्न्यनिलसूर्याणां कान्तिदीप्तिबलद्युतीः ।
यौ सदा बिभ्रतुर्वीराविमौ तौ केशवार्जुनौ ॥
ब्रह्मेशानाविव पुरा वीरावेकरथे स्थितौ ।
सर्वभूतवरौ वीरौ नरनारायणाविमौ ॥
इत्येतन्महदाश्चर्यं दृष्ट्वा श्रुत्वा च भारत ।
अश्वत्थामा सुसङ्क्रुद्धः कृष्णावभ्यद्रवद्रणे ॥
अथ पाण्डवमस्यन्तममित्रान्तकराञ्छरान् ।
सेषुणा पाणिनाऽऽहूय प्रहसन्द्रौणिरब्रवीत् ॥
यदि मां मन्यसे वीर प्राप्तमर्हमिहातिथिम् ।
ततः सर्वात्मना त्वद्य युद्वातिथ्यं प्रयच्छ मे ॥
एवमाचार्यपुत्रेण समाहूतो युयुत्सया ।
बहुमेनेऽर्जुनोऽऽत्मानमिति चाह जनार्दनम् ॥
संशप्तकाश्च मे वध्या द्रौणिराह्वयते च माम् ।
यदत्रानन्तरं प्राप्तं शंस मे तद्वि माधव ॥
आतिथ्यकर्माभ्युत्थाय दीयतां यदि मन्यसे ।
एवमुक्तोऽवहत्पार्थं कृष्णोद्रोणात्मजान्तिके ॥
शैक्ष्येण विधिनाऽऽहूतं वायुरिन्द्रमिवाध्वरे ।
तमामन्त्र्यैकमनसं केशवो द्रौणिमब्रवीत् ॥
अश्वत्थामन्स्थिरो भूत्वा प्रहराशु सहस्व च ।
निर्वेष्टुं भर्तृपिण्डं हि कालोऽयमुपजीविनाम् ॥
सूक्ष्मो विवादो विप्राणां सूक्ष्मौ क्षास्त्रौ जयाजयौ ॥
नहि संक्षमसे मोहाद्दिव्यां पार्थस्य सत्क्रियाम् ।
समाप्तिमिच्छन्युध्यस्व स्यिरो भूत्वाऽद्य पाण्डवं ॥
इत्युक्तो वासुदेवेन तथेत्युक्त्वा द्विजोत्तमः ।
विव्याध केशवं षष्ट्या नाराचैरर्जुनं त्रिभिः ॥
तस्यार्जुनः सुसङ्क्रुद्धस्त्रिभिर्बाणैः शरासनम् ।
चिच्छेदाथान्यदादत्त द्रौणिर्घोरतरं धनुः ॥
सज्यं कृत्वा निमेषाच्च विव्याधार्जुनकेशवौ ।
त्रिभिः शतैर्वासुदेवं सहस्रेण च पाण्डवम् ॥
ततः शरसहस्राणि प्रयुतान्यर्बुदानि च ।
ससृजे द्रौणिरायस्तः स्तम्भयामास चार्जुनम् ॥
इषुधेर्धनुषो ज्यायास्त्वङ्गुलिभ्यश्च मारिष ।
बाह्वोः कराभ्यामुरसो वदनाद्व्राणनेत्रतः ॥
कर्णाभ्यां शिरसोऽङ्गेभ्यो लोमवर्मभ्य एव च ।
रथध्वजाभ्यां च शरा निष्पेतुर्ब्रह्मवादिनः ॥
शरजालेन महता बद्ध्वा माधवपाण्डवौ ।
ननाद सुदितो द्रौणिर्महामेघौघनिःस्वनम् ॥
`तैः पतद्भिर्महाराज द्रौणिमुक्तैः समन्ततः ।
सञ्छादितौ रथस्थौ तावुभौ कृष्णधनञ्जयौ ॥
दतः शरxxxxxxक्ष्णैर्भारद्वाजः प्रतापवान् ।
निxxxxxचक्रे रथे माधवपाण्डवौ ॥
xxxxजङ्गमं स्थावरं तथा ।
चराचरसा मोप्तारौ दृष्ट्वा सञ्छादितौ शरैः ॥
सिद्धचारxxxxxश्च संपेतुर्शै समन्ततः ।
अपि xxxxxxxx लोकानामिति चाब्रुवन् ॥
न मया xxxxxxxxxx राजन्दृष्टपृर्वः पराकमः ।
xxxxxxxxxxxx कृष्णो छादयतो रणे ॥
xxxxxxxxxxxशब्दं रथानां त्रासनं रणे ।
xxxxxxxxxx राजन्सिंहस्य नदतो यथा ॥
चरतो युद्धे सव्यं दक्षिणमस्यतः ।
विद्युदम्भोधरस्येव भ्राजमाना व्यदृश्यत ॥
स तदा क्षिप्रकारी च दृढहस्तश्च पाण्डवः ।
प्रमोहं परमं गत्वा प्रेक्षन्नास्ते धनञ्जयः ॥
विक्रमं चरतो युद्धे सव्यं दक्षिणमस्यतः ।
विक्रमं च हृतं मेने आत्मनस्तेन संयुगे ॥
अथास्य समरे राजन्वपुरासीत्सुदुर्दृशम् ।
द्रौणेस्तत्कुर्वतः कर्म यादृग्रूपं पिनाकिनः ॥
वर्धमाने ततस्तत्र द्रोणपुत्रे विशाम्पते ।
हीयमाने च कौन्तेये कृष्णं रोषः समाविशत् ॥
स रोषान्निश्वसन्राजन्निर्दहन्निव चक्षुषा ।
द्रौणिं ददर्श सङ्ग्रामे फल्गुनं च मुहुर्मुहुः ॥
ततः कृष्णोऽब्रवीत्क्रुद्धः पार्थं सप्रणयं वचः ॥
अत्यद्भुततमिदं पार्थ त्वयि पश्यामि संयुगे ।
यत्त्वां विशेषयत्याजौ द्रोणपुत्रोऽद्य भारत ॥
कच्चित्ते गाण्डिवं हस्ते मुष्टिर्वा न व्यशीर्यत ।
कच्चिद्वीर्यं यथापूर्वं भुजयोर्वा बलं तव ॥
उदीर्यमाणं हि रणे पश्यामि द्रौणिमाहवे । गुरुपुत्र इति ह्येनं मानयन्पाण्डवर्षभ ।
उपेक्षां मा कृथाः पार्थ नायं काल उपेक्षितुम्' ॥
अर्जुन उवाच ।
पश्य माधव दौरात्म्यं गुरुपुत्रस्य मां प्रति । वधं प्राप्तौ मन्यते नौ प्रावेश्य शवरेश्मनि ।
एषोस्मि हन्मि सङ्कल्पं शिक्षया च बलेन च ॥
`एवमुक्त्वाऽस्य चिच्छेद भल्लैः कर्मारमार्जितैः ।
धनुश्छत्रं पताकां च रथशक्तिं गदां वराम्' ॥
अश्वत्थाम्नः शरानस्ताञ्छित्त्वैकैकं त्रिधा त्रिधा ।
व्यधमद्भरतश्रेष्ठो नीहारमिव मारुतः ॥
ततः संशप्तकान्भूयः साश्वसूतरथद्विपान् ।
ध्वजपत्तिगणानुर्ग्रैर्बाणैर्विव्याध पाण्डवः ॥
ये ये ददृशिरे तत्र यद्यद्रूपास्तदा जनाः ।
ते ते तत्र शरैर्व्याप्तं मेनिरेऽऽत्मानमात्मना ॥
ते गाण्डीवप्रमुक्तास्तु नानारूपाः पतत्रिणः ।
क्रोशे साग्रे स्थिताञ्जघ्नुर्द्विपांश्च पुरुषान्रणे ॥
भल्लैश्छिन्नाः कराः पेतुः करिणां मदवर्षिणाम् ।
यथा वने परशुभिर्निकृत्ताः शाल्मलिद्रुमाः ॥
पश्चात्तु शैलवत्पतुस्ते गजाः सह सादिभिः ।
वज्रिवज्रावमथिता यथैवाद्रिचयास्तथा ॥
गन्धर्वनगराकारान्रथांश्चैव सुकल्पितान् ।
विनीतैर्जवनैर्युक्तानास्थितान्युद्वदुर्मदैः ॥
शरैर्विशकलीकुर्वन्नमित्रानभ्यवीवृषत् ।
स्वलङ्कृतानश्वसादीन्पत्तींश्चाहन्धनञ्जयः ॥
धनञ्जययुगान्तार्कः संशप्तकमहार्णवम् ।
व्यशोषयत दुःशोषं तीक्ष्णैः शरगभस्तिभिः ॥
पुनर्द्रौणिमहाशैलं नाराचैर्वज्रसन्निभैः ।
निर्बिभेद महावेगैस्त्वरन्वज्रीव पर्वतम् ॥
तमाचार्यसुतः क्रुद्धः साश्वयन्तारमाशुगैः ।
युयुत्सुरागमद्योद्धुं पार्थस्तानच्छिनच्छरान् ॥
ततः परमसङ्क्रुद्धः काण्डकोशमवासृजत् ।
अश्वत्थामाभिरूपाय गृहानतिथये यथा ॥
अथ संशप्तकांस्त्यक्त्वा पाण्डवो द्रौणिमभ्ययात् ।
अपाङ्क्तेयानिव त्यक्त्वा दाता पाङ्क्तेयमर्थिनम् ॥
`स्थिताः संशप्तका राजन्दृष्ट्वा युद्वं महात्मनोः' ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे द्विपञ्चाशोऽध्यायः ॥ 52 ॥

8-52-1 वासिता पुष्पवती गौस्तदर्थम् ॥ 8-52-12 त्रिवेणुः उभयतः-- काष्ठद्वयसहितो धूर्दण्डः । अक्षश्चक्राधारदण्डः ॥ 8-52-13 योक्राणि बन्धनरज्जवः । रश्मयः प्रग्रहाः । कूबरस्त्रिवेणोरग्रभागः । बन्धुरं रथतल्पः युगं धूरग्रकाष्ठम् । अक्षप्रमण्डलं रथनीडाक्षयोः सन्धानकाष्ठजातम् ॥ 8-52-14 विशकलीकुर्वन् विशेषेण शकलीकुर्वन् ॥ 8-52-15 चन्द्रादीनां कान्त्यादीन् यथासंख्यं विभ्रतुः ॥ 8-52-22 अर्हं पूजयितुं योग्यम् ॥ 8-52-24 अनन्तरं प्रथमम् ॥ 8-52-26 जैत्रेण विधिना इति झ.पाठः ॥ 8-52-33 अयन्तः यत्नवान् ॥ 8-52-34 इषुषिप्रभृतिभ्यः शराः पेतुः लोमभ्योऽपि च चेतुस्तत्र हेतुः ब्रह्मवादिनः योगबलवत इत्यर्थः ॥ 8-52-64 महत् शैलं शिलासमूहो यस्मिन् तं महाशैलं पर्वतमिव ॥ 8-52-66 काण्डकोशं बाणनिषङ्गम् ॥ 8-52-52 द्विपञ्चाशोऽध्यायः ॥ 52 ॥

श्रीः