अध्यायः 031
कर्णस्य रणप्रयाणकाले दुर्निमित्तप्रादुर्भावः ॥ 1 ॥
कर्णेनात्मश्लाघनपूर्वकं पार्थवधे प्रतिज्ञाते तदसहमानेन
शल्येनार्जुनप्रशंसनपूर्वकं कर्णोपालम्भः ॥ 2 ॥
दृष्ट्वा कर्णं महावीर्यं युयुत्सं समवस्थितम् ।
चुक्रुशुः कुरवः सर्वे हृष्टरूपाः समन्ततः ॥
ततो दुन्दुभिनिर्घोषैर्भेरीणां निनदेन च ।
कोणशब्दैश्च विविधैर्गर्जितैश्च तरस्विनाम् ।
निर्ययुस्तावकाः सर्वे मृत्युं कृत्वा निवर्तनम् ॥
प्रयाते तु ततः कर्णे रथेषु मदितेषु च ।
चचाल च मही सर्वा ररास च सुविस्वरम् ॥
निःसरन्तो व्यदृश्यन्त सूर्यात्सप्त महाग्रहाः ॥
उल्कापाताश्च सञ्जज्ञुर्दिग्दाहाश्चैव दारुणाः ।
तथाऽशन्यश्च सम्पेतुर्ववुर्वाताश्च भैरवाः ॥
मृगपक्षिगणाश्चैव पृतनां बहुशस्तव ।
अपसव्यं तदा चक्रुर्वेदयन्तो महाभयम् ॥
प्रस्थितस्य च कर्णस्य निपेतुस्तुरगा भुवि ।
अस्थिवर्षं च पतितमन्तरिक्षाद्भयानकम् ॥
जज्वलुश्चैव शस्त्राणि ध्वजाश्चैव चकम्पिरे ।
अश्रूणि च व्यमुञ्चन्त वाहनानि विशाम्पते ॥
एते चान्ये च बहव उत्पातास्तत्र मारिष ।
समुत्पेतुर्विनाशाय कौरवाणां सुदारुणाः ॥
न च तान्गणयामासुः सर्वे दैवेन मोहिताः ।
प्रस्थितं सूतपुत्रं च जयेत्सूचुर्नराधिपाः ॥
`शल्येन सहितं दृष्ट्वा कर्णमाहवशोभिनम्' ।
निर्जितान्पाण्डवांश्चैव मेनिरे तत्र कौरवाः ॥
ततो रथस्थः परवीरहन्ता
भीष्मद्रोणवतिवीर्यौ समीक्ष्य ।
समुज्ज्वलन्भास्करपावकाभो
वैकर्तनोऽसौ रथकुञ्जरो वृषा ॥
अलं मनुष्यस्य सुखाय वर्तितुं
तथाहि युद्वे निहतः परैर्गुरुः ॥
हुताशनादित्यसमानतेजसं
पराक्रमे विष्णुपुरन्दरोपमम् ॥
नये ब-हस्पत्युशनःसमं सदा
न चैनमस्त्रं तदुपास्त दुःसहम् ॥
सम्प्राक्रुष्टे रुदितस्त्रीकुमारे
पराभूते पौरुषे धार्तराष्ट्रे ।
कृत्यं मया नाद्य जानामि शल्य
प्रयाहि तस्माद्द्विषतामनीकम् ॥
स यत्र राजा पाण्डवः सत्यसन्धो
व्यवस्थितो भीमसेनार्जुनौ च ।
स वासुदेवः सात्यकिः सृञ्जयाश्च
यमौ च कस्तान्विषहेन्मदन्यः ॥
तस्मात्क्षिप्रं मद्रपते प्रयाहि
रणे पाञ्चालान्पाण्डवान्सृञ्जयांश्च ।
तान्वा हनिष्यामि समेत्य सङ्ख्ये
यास्यामि वा द्रोणमुखो यमाय ॥
न त्वेवाहं न गमिष्यामि मध्ये
तेषां शूराणामिति शल्याद्य विद्वि ।
मित्रद्रोहो मर्षणीयो न मेऽयं
त्यक्त्वा प्राणाननुयास्यामि द्रोणम् ॥
प्राज्ञस्य मूढस्य च जीवितान्ते
नास्ति प्रमोक्षोऽन्तकसन्निभस्य ।
अतो विद्वन्नभियोत्स्यामि पार्थं
दिष्टं न शक्यं व्यतिवर्तितुं वै ॥
कल्याणवृत्तः सततं हि राजा
वैचित्रवीर्यस्य सुतो ममासीत् ।
तस्यार्थसिद्व्यर्थमहं त्यजामि
प्रियान्भोगान्दुस्त्यजं जीवितं च ॥
वैयाघ्रचर्माणमकूजनाक्षं
हैमं त्रिकोशं रजतत्रिवेणुम् ।
रथप्रबर्हं तुरगप्रबार्है--
र्युक्तं प्रादान्मह्यमिमं हि रामः ॥
धनूंषि चित्राणि निरीक्ष्य शल्य
ध्वजान्गदाः सायकांश्चोग्ररूपान् ।
असिं च दीप्तं परमायुधं च
शङ्खं च शुभ्रं स्वनवन्तमुग्रम् ॥
पताकिनं वज्रनिपातनिः स्वनं
सिताश्वयुक्तं शुभतूणशोभितम् ।
इमं समास्थाय रथर्षभं रणे
दृढं हनिष्याम्यहमर्जुनं बलात् ॥
तं चेन्मृत्युः सर्वहरोऽभिरक्षे--
त्सदाऽप्रमत्तः समरे पाण्डुपुत्रम् ।
तं वा हनिष्यामि रणे समेत्य
यास्यामि वा द्रोणमुखो यमाय ॥
यमवरुणकुबेरवासवा वा
यदि युगपत्सगणा महाहवे ।
जुगुपुरिह समेत्य फल्गुनं
किमु बहुना सह तैर्जयामि तम् ॥
सञ्जय उवाच ।
इति रणरभसस्य कत्थत--
स्तदुपनिशम्य वचः स मद्रराट् ।
अवहसदवमन्य वीर्यवान्
प्रतिषिषिधे च जगाद चोत्तरम् ॥
शल्य उवाच ।
विरम विरम कर्ण कत्थना--
दतिरभसोऽप्यतिवाचमुक्तवान् ।
क्व च हि नरवरो धनञ्जयः
क्व पुनरिह त्वमहो नराधमः ॥
यदुसदनमुपेन्द्रपालितं
त्रिदिवमिवामरराजरक्षितम् ।
प्रसभमतिविलोड्य को हरे--
त्पुरुषवरावरजामृतेऽर्जुनात् ॥
त्रिभुवनसृजमीश्वरेश्वरं
क इह पुमान्भवमाह्वयेद्युधि ।
मृगवधकलहे ऋतेऽर्जुनात्
सुरपतिवीर्यसमप्रभावतः ॥
असुरसुरमहोरगान्नरान्
गरुडपिशाचसयक्षराक्षसान् ।
इषुभिरजयदग्निगौरवात्
स्वभिलषितं च हविर्ददौ जयः ॥
स्मरसि ननु यदा परैर्हृतः
सहधृतराष्ट्रसुतो विमोक्षितः ।
अधिरथज नरोत्तमैर्युतान्
कुरुषु बहून्विनिहत्य तानरीन् ॥
प्रथममपि पलायिते त्वयि
प्रियकलहा धृतराष्ट्रसूनवः ।
स्मरसि ननु यदा प्रमोचिताः
खचरगणानवजित्य पाण्डवैः ॥
समुदितबलवाहनाः पुनः
पुरुषवरेण जिताः स्थ गोग्रहे ।
सगुरुगुरुसुताः सभीष्मकाः
किमु न जितः स तदा त्वयाऽर्जुनः ॥
इदमपरमुपस्थितं पुन--
स्तव निधनाय सुयुद्वमद्य वै ।
यदि न रिपुभयात्पलायसे
समरगतोऽद्य हतोऽसि सूतज ॥
सञ्जय उवाच ।
इति बहुपरुषं प्रभाषति
प्रमनसि मद्रपतौ रिपुस्तवम् ।
भृशमभिरुषितः सरन्तपः
कुरुपृतनापतिराह मद्रपम् ॥
कर्ण उवाच ।
भवतु भवतु किं विकत्थसे
ननु मर्म तस्य हि युद्धमुद्यतम् ।
यदि स जयति मामिहाहवे
तत इदमस्तु सुकत्थितं तव ॥
सञ्जय उवाच ।
एवमस्त्विति मद्रेश उक्त्वा नोत्तरमुक्तवान् ।
याहि शल्येति चाप्येनं कंर्णः प्राह युयुत्सया ॥
स रथः प्रययौ शत्रून्निघ्नतः शल्यसारथिः ।
निघ्नन्नमित्रान्समरे तमोघ्नः सविता यथा ॥
ततः प्रायात्प्रीतिमान्वै रथेन
वैयाघ्रेण श्वेतयुजाऽथ कर्णः ।
स चालोक्य ध्वजिनीं पाण्डवानां
धनञ्जयं त्वरया पर्यपृच्छत् ॥ ॥
इति श्रीमन्महाभारते कर्णपर्वणि एकत्रिंशोऽध्यायः ॥ 31 ॥
8-31-2 तरस्विनामश्वादीनाम् ॥ 8-31-3 ररास शब्दं चकार ॥ 8-31-4 निःसरन्तो युद्धार्थमिति शेषः । सूर्यात्सूर्यमारभ्य । सूर्यादयोऽन्योन्यं
युध्यन्तीत्यर्थः ॥ 8-31-12 भीष्मद्रोणौ अतिक्रान्तं वीर्यं ययोस्तावतिवीर्यौ
समीक्ष्य स्वकृत्यमालोच्य जगादेत्युत्तरेणान्वयः ॥ 8-31-16 8-31-18 आतुरान्
आसन्नमृत्यून् ॥ 8-31-19 भावxxxxxमाति निश्चयम् ॥ 8-31-20 अस्त्रादीनि
मनुष्यस्य सुखायxxxxxxगिति सम्बन्धः ॥ 8-31-21 उपास्त उपातिष्ठत ।
त्रातुमिxxxxxx अस्त्रादि ॥ 8-31-25 तेषां भीष्मादीनां मध्ये न गमिष्यामीति न
अपितु गमिष्याम्येवेत्यर्थः । सङ्ग्रामात्पलायने हि मित्रस्य दुर्योधनस्य द्रोहः
कृतः स्यात्तच्चासह्यम् ॥ 8-31-26 जीवितान्ते आयुषः समाप्तौ प्रमोक्षो
मृत्युनिवर्तनम् ॥ 8-31-28 वैयाघ्रचर्माणं व्याघ्रचर्मपरिवृतम् ॥ 8-31-33
रणरभसस्य रणोत्कटस्य ॥ 8-31-34 अतिरभसोऽपि त्वं अतिवाचं स्वसामर्थ्यादधिकाम् ॥ 8-31-35 पुरुषवरस्य कृष्णस्यावरजां कनीयसीं सुभद्राम् ॥ 8-31-39 खचरगणान्
गन्धर्वान् ॥ 8-31-46 श्वेतयुजा श्वेताश्वयुजा ॥ 8-31-31 एकत्रिंशोऽध्यायः ॥
श्रीः