अध्यायः 043

सङ्कुलयुद्धम् ॥ 1 ॥

धृतराष्ट्र उवाच ।
युक्तं प्रविश्य पार्थानां सैन्यं कुर्वञ्जनक्षयम् ।
कर्णो राजानमभ्येत्य तन्ममाचक्ष्व स़ञ्जय ॥
के च प्रवीराः पार्थानां युधि कर्णमवारयन् ।
कांश्च प्रमथ्याधिरथिर्युधिष्ठिरमपीडयत् ॥
सञ्जय उवाच ।
धृष्टद्युम्नमुखान्पार्थान्दृष्ट्वा कर्णो व्यवस्थितान् ।
समभ्यधावत्त्वरितः पाञ्चालाञ्छत्रुकर्शनः ॥
तं तूर्णमभिधावन्तं पाञ्चाला जितकाशिनः ।
प्रत्युद्ययुर्महात्मानं हंसाः सर इवोष्णगे ॥
ततः शङ्खसहस्राणां निःस्वनो हृदयङ्गमः ।
प्रादुरासीदुभयतो भेरीशब्दश्च दारुणः ॥
नानाबाणनिनादश्च द्विपाश्वरथनिःस्वनः ।
सिंहनादश्च वीराणामभवद्दारुणस्तदा ॥
साद्रिद्रुमार्णवा भूमिः सवाताम्बुदमम्बरम् ।
सार्केन्दुग्रहनक्षत्रा द्यौश्च व्यक्तं विघूर्णिता ॥
इति भूतानि तं शब्दं मेनिरे ते च विव्यथुः ।
यानि चाप्यल्पसत्वानि प्रायस्तानि मृतानि वै ॥
अथ कर्णो भृशं क्रुद्धः शीघ्रमस्त्रमुदीरयन् ।
जघान पाण्डवीं सेनामासुरीं मघवानिव ॥
स पाण्डवबलं कर्णः प्रविश्य विसृजञ्छरान् ।
प्रभद्रकाणां प्रवरानहनत्सप्तसप्ततिम् ॥
ततः सुपुङ्खैर्निशितैरथ श्रष्ठो रथेषुभिः ।
अवधीत्पञ्चविंशत्या पाञ्चालान्पञ्चविंशतिम् ॥
सुवर्णपुङ्खैर्नाराचैः परकायविदारणैः ।
चेदिकानवधीद्वीरः शतशोऽथ सहस्रशः ॥
तं तथा समरे कर्म कुर्वाणमतिमानुषम् ।
परिवव्रुर्महाराज पाञ्चालानां रथव्रजाः ॥
ततः सन्धाय विशिखान्पञ्च भारत दुःसहान् ।
पाञ्चालानवधीत्पञ्च कर्णो वैकर्तनो वृषः ॥
भानुदेवं चित्रसेनं सेनाबिन्दुं च भारत ।
तपनं शूरसेनं च पाञ्चालानहनद्रणे ॥
पाञ्चालेषु च शूरेषु वध्यमानेषु सायकैः ।
हाहाकारो महानासीत्पाञ्चालानां महाहवे ॥
तेषां सह्क्रीडमानानां हाहाकारं प्रकुर्वताम् ।
पुनरेव च तान्कर्णो जघानाशु पतत्त्रिभिः ॥
चक्ररक्षौ तु कर्णस्य पुत्रौ मारिष दुर्जयौ ।
सुषेणः सत्यसेनश्च त्यक्त्वा प्राणानयुध्यताम् ॥
पृष्ठगोप्ता तु कर्णस्य ज्येष्ठः पुत्रो महारथः ।
वृषसेनोऽन्वयात्कर्णं पृष्ठतः परिपालयन् ॥
धृष्टद्युम्नः सात्यकिश्च द्रौपदेया वृकोदरः ।
जनमेजयः शिखण्डी च प्रवीराश्च प्रभद्रकाः ॥
चेदिकेकयपाञ्चाला यमौ मात्स्याश्च दंशिताः ।
समभ्यधावन्राधेयं जिघांसन्तः प्रहारिणम् ॥
त एनं विविधैः शस्त्रैः शरधाराभिरेव च ।
अभ्यवर्षन्विमर्दन्तं प्रावृषीवाम्बुदा गिरिम् ॥
पितरं तु परीप्सन्तः कर्णपुत्राः प्रहारिणः ।
त्वदीयाश्चापरे राजन्वीरा वीरानवारयन् ॥
सुषेणो भीमसेनस्य च्छित्त्वा भल्लेन कार्मुकम् ।
नाराचैः सप्तबिर्विद्ध्वा हृदि भीमं ननाद ह ॥
अथान्यद्वनुरादाय सुदृढं भीमविक्रमः ।
सज्यं वृकोदरः कृत्वा सुषेणस्याच्छिनद्वनुः ॥
विव्याध चैनं दशभिः क्रुद्धो नृत्यन्निवेषुभिः ।
कर्णं च तूर्णं विव्याध त्रिसप्तत्या शितैः शरैः ॥
सत्यसेनं च दशभिः साश्वसूतायुधध्वजम् ।
पश्यतां सुहृदां मध्ये कर्णपुत्रमपातयत् ॥
क्षुरप्रणुन्नं तत्तस्य शिरश्चन्द्रनिभाननम् ।
शुभदर्शनमेवासीन्नालभ्रष्टमिवाम्बुजम् ॥
हत्वा कर्णसुतं भीमस्तावकान्पुनरार्दयत् ।
कृपहार्दिक्ययोश्छित्त्वा चापौ तावप्यथार्दयत् ॥
दुःशासनं त्रिभिर्विद्ध्वा शकुनिं षड्भिरायसैः ।
उलूकं च पतत्रिं च चकार विरथावुभौ ॥
हे सुषेण हतोऽसीति ब्रुवन्नादत्त सायकम् ।
तमस्य कर्णश्चिच्छेद त्रिभिश्चैनमताडयत् ॥
अथान्यं परिजग्राह सुपर्वाणं सुतेजनम् ।
सुषेणायासृजद्भीमस्तमप्यस्याच्छिनद्वृषः ॥
पुनः कर्णस्त्रिसप्तत्या भीमसेनमथेषुभिः ।
पुत्रं परीप्सन्विव्याध क्रुद्धः शत्रुजिघांसया ॥
सुषेणस्तु धनुर्गृह्य भारसाधनमुत्तमम् ।
नकुलंपञ्चभिर्बाणैर्बाह्वोरुरसि चार्पयत् ॥
नकुलस्तं तु विंशत्या विद्व्वा भारसहैर्दृढैः ।
ननाद बलवन्नादं कर्णस्य भयमादधत् ॥
तं सुषेणो महाराज विद्ध्वा दशभिराशुगैः ।
चिच्छेद च धनुः शीघ्रं क्षुरप्रेण महारथः ॥
अथान्यद्वनुरादाय नकुलः क्रोधमूर्च्छितः ।
सुषेणं नवभिर्बाणैर्वारयामास संयुगे ॥
स तु बाणैर्दिशो राजन्नाच्छाद्य परवीरहा ॥ आजघ्ने सारथिं चास्य सुषेणं च ततस्त्रिभिः ।
चिच्छेद चास्य सुदृढं धनुर्भल्लैस्त्रिभिस्त्रिधा ॥
अथान्यद्वनुरादाय सुषेणः क्रोधमूर्च्छितः ।
आविध्यन्नकुलं षष्ट्या सहदेवं च सप्तभिः ॥
तद्युद्धं सुमहद्धोरमासीद्देवासुरोपमम् ।
निघ्नतां सायकैस्तूर्णमन्योन्यस्य वधं प्रति ॥
सात्यकिर्वृषसेनं तु विद्ध्वा सप्तभिरायसैः ।
`पुनर्विव्याध सप्तत्या सारथिं च त्रिभिः शितैः ॥
वृषसेनस्तु शैनेयं शरेणानतपर्वणा ।
आजघान महाराज शङ्खदेशे महारथम् ॥
शैनेयो वृषसेनेन पत्रिणा परिपीडितः ।
कोपं चक्रे महाराज क्रुद्धो वेगं च दारुणम् ॥
जग्राहेषुवरान्वीरः शीघ्रं वै दश पञ्च च ।
सात्यकिर्वृषसेनस्य सूतं हत्वा त्रिभिः शरैः' ॥
धनुश्चिच्छेद भल्लेन जघानाश्वांश्च सप्तभिः ।
ध्वजमेकेषुणोन्मथ्य त्रिभिश्तं हृद्यताडयत् ॥
अथावसन्नः स्वरथे मुहूर्तात्पुनरुत्थितः । स रणे युयुधानेन विसूताश्वरथध्वजः ।
कृतो जिघांसुः शैनेयं खङ्गचर्मधृगभ्ययात् ॥
तस्य चापततः शीघ्रं वृषसेनस्य सात्यकिः ।
वाराहकर्णैर्दशभिरविध्यदसिचर्मणी ॥
दुःशासनस्तु तं दृष्ट्वा विरथं व्यायुधं कृतम् ।
आरोप्य स्वरथं तूर्णमपोवाह रथान्तरम् ॥
अथान्यं रथमास्थाय वृषसेनो महारथः ।
द्रौपदेयांस्त्रिसप्तत्या युयुधानं च पञ्चभिः ॥
भीमसेनं चतुःषष्ट्या सहदेवं च पञ्चभिः ।
नकुलं त्रिंशता बाणैः शतानीकं च सप्तभिः ॥
शिखण्डिनं च दशभिर्धर्मराजं शतेन च ।
एतांश्चान्यांश्च राजेन्द्र प्रवीराञ्चयगृद्धिनः ॥
अभ्यर्दयन्महेष्वासः कर्णपुत्रो विशाम्पते ।
कर्णस्य युधि दुर्धर्षस्ततः पृष्ठमपालयत् ॥
युयुधानं च राधेयो नवैर्नवभिरायसैः ।
विसूताश्वरथं कृत्वा ललाटे त्रिभिरार्पयत् ॥
स त्वन्यं रथमास्थाय विधिवत्कल्पितं पुनः ।
युयुधे पाण्डुभिः सार्धं कर्णस्य व्यधमद्बलम् ॥
धृष्टद्युम्नस्ततः कर्णमविध्यद्दशभिः शरैः ।
द्रौपदेयास्त्रिसप्तत्या युयुधानस्तु सप्तभिः ॥
भीमसेनश्चतुःषष्ट्या सहदेवश्च सप्तिभिः ।
नकुलस्त्रिंशता बाणैः शतानीकस्तु सप्तभिः ॥
शिखण्डी दशभिर्वीरो धर्मराजः शतेन तु । एते चान्ये च राजेन्द्र प्रवीरा जयगृद्विनः ।
अभ्यर्दयन्महेष्वासं सूतपुत्रं महामृधे ॥
तान्सूतपुत्रो विशिखैर्दशभिर्दशभिः शरैः । रथेनानुचरन्वीरः प्रत्यविध्यदरिन्दमः ।
`सात्यकिं भीमसेनं च धृष्टद्युम्नं शिखण्डिनम् ।
द्रौपदेयांश्च संरब्धान्यतमानान्महारथान् ॥
पश्यतां सर्वसैन्यानामथैनान्सूतनन्दनः ।
विरथान्रथिनः श्रेष्ठान्निमेषार्धाच्चकार ह ॥
अमोघत्वाच्च बाणानां भूतसङ्घा विसिप्मयुः' ॥
तत्रास्त्रवीर्यं कर्णस्य लाघवं च महात्मनः ।
अपश्याम महाभाग तदद्भुतमिवाभवत् ॥
न ह्याददानं ददृशुः सन्दधानं च सायकान् ।
विमुञ्चन्तं च संरम्भाद पश्यन्नैव तं जनाः ॥
प्रतीच्यां दिशि तं दृष्ट्वा प्राच्यां पश्याम लाघवात् ।
न च पश्याम राजेन्द्र क्व नु कर्णो व्यतिष्ठत ॥
इषूनेवास्य पश्यामो विनिकीर्णाऽन्समन्ततः ।
छादयानान्दिशो राजञ्शलभानामिव व्रजान् ॥
तस्य तैरिषुभिस्त्रीक्ष्णैः सम्पतद्भिः सहस्रशः ।
मरीचिभिरिवोष्णांशोः शरैः सन्नतपर्वभिः ॥
व्याप्ताः सर्वा दिशो राजन्योधाश्च ददृशुस्तदा ।
शरैः संवृतमाकाशं तत्राभ्रैरिव चाभवत् ॥
द्यौर्वियद्भूर्दिशश्चैव प्रच्छन्ना निशितैः शरैः ।
अरुणाभ्रावृताकारं तस्मिन्देशे बभौ वियत् ॥
ततः पुनरमेयात्मा कर्णो राजा महारथः ।
न्यहनत्समरे योधान्योधवृत्तमनुष्ठितः ॥
नृत्यन्निव हि राधेयश्चापहस्तो रणाजिरे ।
यैर्विद्वः प्रत्यविद्व्यत्तानेकैकं त्रिगुणैः शरैः ॥
शतैश्च दशभिश्चैतान्पुनर्विद्ध्वा ननाद च ।
साश्वसूतध्वजच्छत्रास्ततस्ते विवरं ददुः ॥
`ते हन्यमानाः कर्णेन पलायन्त दिशो दश ।
नादयन्तो दिशः सर्वाः कर्मत्रस्ता विचेतसः' ॥
तान्प्रमथ्य महेष्वासान्राधेयः शरवृष्टिभिः ।
राजानीकमसम्बाधं प्राविशच्छत्रुकर्शनः ॥
स रथांस्त्रिशतं हत्वा चेदीनामनिवर्तिनाम् ।
राधेयो निशितैर्बाणैस्ततोऽभ्यागाद्युधिष्ठिरम् ॥
`ततस्ते विरथाः शूरा रथानन्यान्समास्थिताः ।
परिवव्रुर्महाराज धर्मपुत्रं युधिष्ठिरम्' ॥
ततस्ते तु परे राजञ्छिखण्डी च ससात्यकिः । राधेयात्परिरक्षन्तो राजानं पर्यवारयन् ।
मुञ्चन्तो विविधान्बाणान्स्वर्णपुङ्खाञ्शिलाशितान् ॥
तथैव तावकाः सर्वे कर्णं दुर्वारणं रणे ।
यत्ताः शूरा महेष्वासाः पर्यरक्षन्त सर्वशः ॥
नानावादित्रघोषाश्च प्रादुरासन्विशाम्पते ।
सिंहनादश्च सञ्जज्ञे शूराणामभिगर्जताम् ॥
ततः पुनः समाजग्मुरभीताः कुरुपाण्डवाः ।
युधिष्ठिरमुखाः पार्थाः सूतपुत्रमुखा वयम् ॥ ॥

इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे त्रिचत्वारिंशोऽध्यायः ॥ 43 ॥

8-43-1 अभ्येत्य यदकरोत्तन्ममाचक्ष्वेत्यन्वयः ॥ 8-43-22 विमर्दन्तं विमृद्रन्तम् ॥ 8-43-71 विवरं अन्तरं ददुः प्रसृता इत्यर्थः ॥ 8-43-43 त्रिचत्वारिंशोऽध्यायः ॥

श्रीः