अध्यायः 103

भीष्मेण युधिष्ठिरंप्रति शत्रुजयोपायादिप्रतिपादकेन्द्रबृहस्पतिसंवादानुवादः ॥ 1 ॥

युधिष्ठिर उवाच ।
कथं मृदौ कथं तीक्ष्णे महापक्षे च भारत ।
अरौ वर्तेत नृपतिस्तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
बृहस्पतेश्च संवादमिन्द्रस्य च युधिष्ठिर ॥
बृहस्पतिं देवपतिरभिवाद्य कृताञ्जलिः ।
उपसंगम्य पप्रच्छ वासवः परवीरहा ॥
अहितेषु कथं ब्रह्मन्प्रवर्तेयमतन्द्रितः ।
असमुछिद्य चैवैतान्नियच्छेयमुपायतः ॥
सेनयोर्थ्यतिषङ्गे च जयः साधारणो भवेत् ।
किं कुर्वाणं न मां जह्याज्ज्वलिता श्रीः प्रतापिनी ॥
ततो र्मार्थकामानां कुशलः प्रतिभानवान् ।
राजधर्मविधानज्ञः प्रत्युवाच पुरंदरम् ॥
न जा कलहेनेच्छेन्नियन्तुमपकारिणः ।
बालैर सवितं ह्येतद्यदमर्षो यदक्षमा ॥
न शत्रुर्विवृतः कार्यो वधमस्याभिकाङ्क्षता ॥
क्रोधं भयं च हर्षं च नियम्य स्वयमात्मनि ।
अमित्र पसेवेत विश्वस्तवदविश्वसन् ॥
प्रियमेव वदेन्नित्यं नाप्रियं किंचिदाचरेत् ।
विरमेच्छुष्कवैरेभ्यः कर्णजापं च वर्जयेत् ॥
यथा वैतंसिको युक्तो द्विजानां सदृशस्वरः । तान्द्विजान्कुरुते वश्यांस्तथायुक्तो महीपतिः ।
वशं चोपनयेच्छत्रून्निहन्याच्च पुंरदर ॥
न नित्यं परिभूयारीन्सुखं स्वपिति वासव ।
जागर्त्येव हि दुष्टात्मा संकरेऽग्निरिवोत्थितः ॥
न सन्निपातः कर्तव्यः सामान्ये विजये सति ।
विश्वास्यैवोपसंनम्यो वशे कृत्वा रिपुः प्रभो ॥
संप्रधार्य सहामात्यैर्मन्त्रविद्भिर्महात्मभिः । उपेक्ष्यमाणो विज्ञातो हृदयेनापराजितः ।
अथास्य प्रहरेत्काले विधेर्वित्तलितो यदा ॥
दण्डं च दूषयेदस्य पुरुषैराप्तकारिभिः ॥
आदिमध्यावसानज्ञान्प्रच्छन्नं च विचारयेत् ।
बलानि दूषयेदस्य जानन्नेव प्रमाणतः ॥
भेदेनोपप्रदानेन संसृजेदौषधैस्तथा ।
न त्वेव खलु संसर्गं रोचयेदरिभिः सह ॥
दीर्घकालमपीक्षेत्त निग्राह्या एव शत्रवः ।
कालकाङ्गी च युक्तः सन्नुपासीत शचीपते ॥
तथा प्रियं च वक्तव्यं यथा विस्रम्भमाप्नुयात् । न सद्योऽरीन्विहन्याच्च द्रष्टव्यो विजयो ध्रुवः ।
भूयः शल्यं घटयति नवं च कुरुते व्रणम् ॥
प्राप्ते च प्रहरेत्काले न च संवर्तते पुनः ।
हन्तुकामस्य देवेन्द्र पुरुषस्य रिपून्प्रति ॥
यं हि कालो व्यतिक्रामेत्पुरुषं कालकाङ्क्षिणम् ।
दुर्लभः स पुनस्तेन कालः कर्म चिकीर्षता ॥
औजस्यं जनयेदेव संगृह्णन्साधुसंमतम् ।
कालेन साधयेत्कृत्यमप्राप्तो न हि पीडयेत् ॥
विहाय कामं क्रोधं च तथाऽहंकारमेव च ।
युक्तो विवरमन्विच्छेदहितानां सदा नृपः ॥
मार्दवं दण्ड आलस्यं प्रमादश्च सुरोत्तम ।
मायाः सुविहिताः शक्र शातयन्त्यविचक्षणम् ॥
निहत्यैतानि चत्वारि मायां प्रतिविधाय च ।
ततः शक्नोति शत्रूणां प्रहर्तुमविचारयन् ॥
यदेवैतेन शक्येत गुह्यं कर्तुं तदाऽऽचरेत् ।
यच्छन्ति सतिवा गुह्यं मिथो विश्रावयन्त्यपि ॥
अशक्यमिति कृत्वा वा ततोऽन्यैः संविदं चरेत् ।
ब्रह्मदण्डमदृष्टेषु दृष्टेषु चतुरङ्गिणीम् ॥
भेदं च प्रथमं विद्यात्तूष्णीं दण्डं तथैव च ।
काले प्रयोजयेद्राजा तस्मिंस्तस्मिंस्तदातदा ॥
प्रणिपातं च गच्छेत काले शत्रोर्बलीयसः ।
युक्तोऽस्य वधमन्विच्छेदप्रमत्तः प्रमाद्यतः ॥
प्रणिपातेन दानेन वाचा मधुरया ब्रुवन् ।
अमित्रमुपसेवेत न च जातु विशङ्कयेत् ॥
स्थानानि शङ्कितानां च नित्यमेव विवर्जयेत् ।
न च तेष्वाश्वसेद्राजा जाग्रतीह निराकृताः ॥
न ह्यतो दुष्करं कर्म किंचिदस्ति सुरोत्तम ।
यथा विविधवृत्तानामैश्वर्यममराधिप ॥
तथा विविधशीलानामपि संभव उच्यते ।
प्रयतेद्योगमास्थाय मित्रामित्रानधारयन् ॥
मृदुमप्यवमन्यन्ते तीक्ष्णादुद्विजते जनः ।
मातीक्ष्णो मा मृदुर्भूस्त्वं तीक्ष्णो भव मृदुर्भव ॥
यथा वप्रे वेगवति सर्वतः संप्लतोदके ।
नित्यं विचरणाद्वाधस्तथा राज्यं प्रमाद्यतः ॥
न बहूनुपरुध्येत यौगपद्येन शात्रवान् ।
साम्ना दानेन भेदेन दण्डेन च पुरंदर ॥
एकैकमेषां निष्पिष्य शिष्टेषु निपुणं चरेत् ।
न तु शक्तोऽपि मेधावी सर्वानेवाचरेद्बुधः ॥
यदा स्यान्महती सेना हयनागरथाकुला ।
पदातियन्त्रबहुला अनुरक्ता षडङ्गिनी ॥
यदा बहुविधां वृद्धिं मन्येत प्रतियोगतः ।
तदा विवृत्य प्रहरेद्दस्यूनामविचारयन् ॥
न साम दण्डोपनिषत्प्रशस्यते न मार्दवं शत्रुषु यात्रिकं सदा ।
न सस्यघातो न च संकरक्रिया न चापि भूयः प्रकृतेर्विचारणा ॥
मायाविभेदानुपसर्जनानि वाचं तथैव प्रथमं प्रयोगात् ।
आप्तैर्मनुष्यैरुपचारयेत पुरेषु राष्ट्रेषु च संप्रयुक्तान् ॥
पुराऽपि चैताननुसृत्य भूमिपाः पुरेषु भोगानखिलाञ्जयन्ति
पुरेषु नीतिं विहितां यथाविधि प्रयोजयन्तो बलवृत्रसूदन ॥
प्रदाय गूढानि वसूनि नाम प्रच्छिद्य भोगानपहाय च स्वान् ।
दुष्टाः स्वदोषैरिति कीर्तयित्वा पुरेषु राष्ट्रेषु च योजयन्ति ॥
तथैव चान्यैरपि शास्त्रवेदिभिः स्वलंकृतैः शास्त्रविधानलिङ्गितैः ।
सुशिक्षितैर्भाष्यकथाविशारदैः परेषु कृत्यामुपधारयेच्च ॥
इन्द्र उवाच ।
कानि लिङ्गानि दुष्टस्य भवन्ति द्विजसत्तम ।
कथं दुष्टं विजानीयादेतत्पुष्टो ब्रवीहि मे ॥
बृहस्पतिरुवाच ।
परोक्षमगुणानाह सद्रुणानभ्यसूयति ।
परैर्वा कीर्त्यमानेषु तूष्णीमास्ते पराङ्भुखः ॥
तूष्णींभावेऽपि विज्ञेयं न चेद्भवति कारणम् ।
विश्वासं चोष्ठसंदंशं शिरसश्च प्रकम्पनम् ॥
करोत्यभीक्ष्णं संसृष्टमसंसृष्टश्च भाषते ।
अदृष्टवद्विकुरुते दृष्ट्वा वा नाभिभाषते ॥
पृथगेत्य समश्नाति नेदमद्य यथाविधि ।
आसने शयने याने भावा लक्ष्या विशेषतः ॥
आर्तिरार्ते प्रिये प्रीतिरेतावन्मित्रलक्षणम् ।
विपरीतं तु बोद्धव्यमरिलक्षणमेव तत् ॥
एतान्येव यथोक्तानि बुध्येथास्त्रिदशाधिप ।
पुरुषाणां प्रदुष्टानां स्वभावो बलवत्तरः ॥
इति दुष्टस्य विज्ञानमुक्तं ते सुतसत्तम ।
निशाम्य शास्त्रतत्त्वार्थं यथावदमरेश्वरः ॥
भीष्म उवाच
स तद्वचः शत्रुनिबर्हणे रत स्तथा चकारावितथं बृहस्पतेः ।
चचार काले विजयाय चारिहा वशं च शत्रूननयत्पुरंदरः ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि त्र्यधिकशततमोऽध्यायः ॥ 103 ॥

12-103-5 व्यतिषङ्गे मिश्रणे युद्धे इत्यर्थः । साधारणोऽनियतः ॥ 12-103-6 प्रत्युवाच गुरुः ॥ 12-103-7 विवृतः सावधानः ॥ 12-103-11 वितसः पक्षिबन्धनोपायस्तदुपजीवी वैतंसिकः ॥ 12-103-12 स्वपिति महीपतिरित्यनुकर्षः ॥ 12-103-13 सामान्ये अनिश्चिते ॥ 12-103-14 प्रहरेत्काले किंचिद्विचलिते पदे इति झ. पाठः ॥ 12-103-15 किंचास्य दण्डं सेनां च भेदेन दूषयेत्सः ॥ 12-103-17 औषधैर्विषादिभिः ॥ 12-103-20 रिपून्प्रति हन्तुकामस्य ॥ 12-103-25 चत्वारि मार्दवादीनि ॥ 12-103-26 यच्छन्ति निगृह्णन्ति ॥ 12-103-27 अदृष्टेषु दूरस्थेषु ब्रह्मदण्डं पुरोहितद्वारमभिचारं प्रयुञ्जयात् । दृष्टे प्रत्यक्षशत्रौ चतुरङ्गिणीमपि प्रयुञ्ज्यात् ॥ 12-103-32 विविधवृत्तानां अस्थिराणाम् ॥ 12-103-35 वेगवति पूरे सति वप्रे तटे विचरणाद्विदारणाद्वाध इति योजना ॥ 12-103-38 षडङ्गिनी रथतुरगमातङ्गपदातिकोशवणिक्पथवती ॥ 12-103-39 विवृत्य प्रकटीभूय । दस्यूनां दस्यून् ॥ 12-103-40 बलवति शत्रौ साम न प्रशस्यते किं तर्हि दण्डोपनिषत् रहस्यदण्डः । अत एव शत्रुषु मार्दवं पार्यन्तिकं न कार्यम् । नापि यात्रिकं सदा कार्यम् । जयस्यानि यतत्वात् । यात्रायां हि सस्यानां घातः । संकरक्रिया विषादिना जलादीनां नाशनम् । भूयः पुनः पुनः प्रकृते सप्तविधायाः विचारणा तस्मात्कपटपूर्वको दण्डएव श्रेयानित्यर्थः ॥ 12-103-41 मायाविभेदान्नानाविधा मायाः प्रयुञ्जीत । तत उपसर्जनानि परस्परमितरेषां शत्रूणामुत्थापनादीनि ॥ 12-103-42 एतान् शत्रून्पुरेषु तत्तत्स्थानेषु अनुसृत्य भोगांस्तदीयान् जयन्ति । नीतिं पुरेषु स्वीयतेषु ॥ 12-103-43 अनुसरणभेवाह प्रदायेति । एते न ममामात्याः दुष्टाः मां त्यक्त्वा राजान्तारं प्रतिगता इति लोकमुखात्कीर्तयित्वा परेषां पुरेषु राष्ट्रेषु च तान्यो जयन्ति ॥ 12-103-44 कृत्यामिव कृत्यां मृत्युकारिणीं देवताम ॥ 12-103-47 तच्चेद्भवति कारणमिति थ.द. पाठः ॥ 12-103-48 संसृष्टं संसर्गम् । असंसृष्टश्च परइव भाषते ॥