अध्यायः 134

भीष्मेण युधिष्ठिरंप्रति बलप्रशंसनम् ॥ 1 ॥ तथा पापकारिणां तत्परिहारोपायकथनम् ॥ 2 ॥

भीष्म उवाच ।
`अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।' अत्र कामन्दवचनं कीर्तयन्ति पुराविदः ।
प्रत्यक्षावेव धर्मार्थौ क्षत्रियस्य विजानतः ॥
तौ तु न व्यवधातव्यौ परोक्षा धर्मयातना ।
अधर्मो धर्म इत्येतद्यथा वृक्षफलं तथा ॥
धर्माधर्मफले जातु ददर्शेह न कश्चन ।
वुभूषेद्बलमेवैतत्सर्वं बलवतो वशे ॥
श्रियं बलममात्यांश्च बलवानिह विन्दति ।
यो ह्यनाढ्यः स पतितस्तदुच्छिष्टं यदल्पकम् ॥
बह्वपथ्ये बलवति न किंचित्क्रियते भयात् ।
उभौ सत्याधिकारौ तौ त्रायेते महतो भयात् ॥
अति धर्माद्बलं मन्ये बलाद्धर्मः प्रवर्तते ।
बले प्रतिष्ठितो धर्मो धरण्यामिव जंगमः ॥
धूमो वायोरिव वशे बलं धर्मोऽनुवर्तते ।
अनीश्वरो बलं धर्मो द्रुमं वल्लीव संश्रिता ॥
वशे बलवतां धर्मः सुखं भोगवतामिव ।
नास्त्यसाध्यं बलवतां सर्वं बलवता जितम् ॥
दुराचारः क्षीणबलः परिमाणं न गच्छति ।
अथ तस्मादुद्विजते सर्वो लोको वृकादिव ॥
अपध्वस्तो ह्यवमतो दुःखं जीवति जीवितम् ।
जीवितं यदधिक्षिप्तं यथैव मरणं तथा ॥
यदेवमाहुः पापेन चारित्रेण विवक्षितम् ।
सुभृशं तप्यते तेन वाक््शल्येन परिक्षतः ॥
अत्रैतदाहुराचार्याः पापस्य परिमोक्षणे ।
त्रयीं विद्यामुपासीत तथोपासीत वै द्विजान् ॥
प्रसादयेन्मधुरया वाचा चाप्यथ कर्मणा ।
महामनाश्चैव भवेद्विवहेच्च महाकुले ॥
इत्यस्तीति वदेदेव परेषां कीर्तयेद्गुणान् ।
जपेदुदकशीलः स्यात्पेशलो नातिजल्पकः ॥
ब्रह्म क्षत्रं संप्रविशेद्बहु कृत्वा सुदुष्करम् ।
उच्यमानो हि लोकेन बहु तत्तदचिन्तयन् ॥
उपप्राप्यैवमाचारं क्षिप्रं बहुमतो भवेत् ।
सुखं च वित्तं भुञ्जीत वृत्तेनैकेन गोपयेत् ॥
`अपि तेभ्यो मृगान्हत्वा नयेच्च सततं वने । यस्मिन्न प्रतिगृह्णन्ति दस्युभोजनशङ्कया ।'
लोके च लभते पूजां परत्रेह महत्फलम् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि आपद्धर्मपर्वणि चतुस्त्रिंशदधिशततमोऽध्यायः ॥ 134 ॥

12-134-2 यथा वृकपदंस्थेति झ. द. पाठः ॥ 12-134-6 अति अतिशयितम् ॥ 12-134-10 अपध्वस्तः ऐश्वर्याच्च्युतः ॥ 12-134-12 अत्राधर्मेण धनार्जने कृते सति ॥