अध्यायः 129

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति गोलोकस्य देवलोकस्य देवलोकादप्युपरितनत्वे निमित्तप्रतिपादकब्रह्मशक्रसंवादानुवादः ॥ 1 ॥

भीष्म उवाच ।

ये च गाः सम्प्रयच्छन्ति हुतशिष्टाशिनश्च ये ।
तेषां सत्राणि यज्ञाश्च नित्यमेव युधिष्ठिर ॥
ऋते दधिघृतेनेह न यज्ञः सम्प्रवर्तते ।
तेन यज्ञस्य यज्ञत्वमतो मूलं च लक्ष्यते ॥
दानानामपि सर्वेषां गवां दानं प्रशस्यते ।
गावः श्रेष्ठाः पवित्राश्च पावनं ह्येतदुत्तमम् ॥
पुष्ट्यर्थमेताः सेवेत शान्त्यर्थमपि चैव ह ।
पयो दधि घृतं चासां सर्वपापप्रमोचनम् ॥
गावस्तेजः परं प्रोक्तमिह लोके परत्र च ।
न गोभ्यः परमं किञ्चित्पवित्रं भरतर्षभ ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
पितामहस्य संवादमिन्द्रस्य च युधिष्ठिर ॥
पराभूतेषु दैत्येषु शक्रस्त्रिभुवनेश्वरः ।
प्रजाः समुदिताः सर्वाः सत्यधर्मपरायणाः ॥
अथर्षयः सगन्धर्वाः किन्नरोरगराक्षसाः । देवासुरसुपर्णाश्च प्रजानां पतयस्तथा ।
पर्युपासत कौन्तेय कदाचिद्वै पितामहम् ॥
नारदः पर्वतश्चैव विश्वावसुहहाहुहूः ।
दिव्यतानेषु गायन्तः पर्युपासत तं प्रभुम् ॥
तत्र दिव्यानि पुष्पाणि प्रावहत्पवनस्तदा ।
आजह्रुर्ऋतवश्चापि सुगन्धीनि पृथक्पृथक् ॥
तस्मिन्देवसमावाये सर्वभूतसमागमे । दिव्यवादित्रसंघुष्टे दिव्यस्त्रीचारणावृते ।
इन्द्रः पप्रच्छ देवेशमभिवाद्य प्रणम्य च ॥
देवानां भगवन्कस्माल्लोकेशानां पितामह ।
उपरिष्ठाद्गवां लोक एतदिच्छामि वेदितुम् ॥
किं तपो ब्रह्मचर्यं वा गोभिः कृतमिहेश्वर ॥
देवानामुपरिष्टाद्यद्वसन्त्यरजसः सुखम् ॥
ततः प्रोवाच ब्रह्मा तं शक्रं बलनिषूदनम् ।
अवज्ञातास्त्वया नित्यं गावो बलनिषूदन ॥
तेन त्वमासां माहात्म्यं न वेत्सि शृणु यत्प्रभो ।
गवां प्रभावं परमं माहात्म्यं च सुरर्षभ ॥
यज्ञाङ्गं कथिता गावो यज्ञ एव च वासव ।
एताभिश्च विना विज्ञो न वर्तेत कथञ्चन ॥
धारयन्ति प्रजाश्चैताः पयसा हविषा तथा ।
एतासां तनयाश्चापि कृषियोगमुपासते ॥
जनयन्ति च धान्यानि बीजानि विविधानि च ।
ततो यज्ञाः प्रवर्तन्ते हव्यं कव्यं च सर्वशः ॥
पयो दधि घृतं चैव पुण्याश्चैताः सुराधिप ।
वहन्ति विविधान्भोगान्क्षुत्तृष्णापरिपीडिताः ॥
मुनींश्च धारयन्तीह प्रजाश्चैवापि कर्मणा ।
वासवाऽकूटवाहिन्यः कर्मणा सुकृतेन च ॥
उपरिष्टात्ततोऽस्माकं वसन्त्येताः सदैव हि । एतत्ते कारणं शक्र निवासकृतमध्य वै ।
गावो देवोपरिष्टाद्धि समाख्याताः शतक्रतो ॥
एता हि वरदत्ताश्च वरदाश्चापि वासव ।
सुरभ्यः पुण्यकर्मिण्यः पावनाः शुभलक्षणाः ॥
यदर्थं गां गताश्चैव सुरभ्यः सुरसत्तम ।
तच्च मे शृणु कार्स्न्येन वदतो बलसूदन ॥
पुरा देवयुगे तात दैत्येन्द्रेषु महात्मसु ।
त्रीँल्लोकाननुशासत्सु विष्णौ गर्भत्वमागते ॥
अदित्यां तप्यमानायां तपो घोरं सुदुश्चरम् ।
पुत्रार्थममरश्रेष्ठ पादेनैकेन नित्यदा ॥
तां तु दृष्ट्वा महादेवीं तप्यमानां महत्तपः ।
दक्षस्य दुहिता देवी सुरभिर्नाम नामतः ॥
अतप्यत तपो घोरं हृष्टा धर्मपरायणा ।
कैलासशिखरे रम्ये देवगन्धर्वसेविते ॥
व्यतिष्ठदेकपादेन परमं योगमास्थिता ।
दशवर्षसहस्राणि दशवर्षशतानि च ॥
सन्तप्तास्तपसा तस्या देवाः सर्षिमहोरगाः ।
तत्र गत्वा मया सार्धं पर्युपासत तां शुभां ॥
अथाहमब्रवं तत्र देवीं तां तपसाऽन्विताम् ।
किमर्थं तप्यसे देवि तपो घोरमनिन्दिते ॥
प्रीतस्तेऽहं महाभागो तपसाऽनेन शोभने ।
वरयस्व वरं देवि दातास्मीति पुरन्दर ॥
सुरभिरुवाच ।
वरेण भगवन्मह्यं कृतं लोकपितामह ।
एष एव वरो मेऽद्य यत्प्रीतोसि ममानघ ॥
ब्रह्मोवाच ।
तामेव ब्रुवतीं देवीं सुरभिं त्रिदशेश्वर ।
प्रत्यब्रवं यद्देवेन्द्र तन्निबोध शचीपते ॥
अलोभकाम्यया देवि तपसा शुचिना च ते ।
प्रसन्नोऽहं वरं तस्मादमरत्वं दादामि ते ॥
त्रयाणामपि लोकानामुपरिष्टान्निवत्स्यसि ।
मत्प्रसादाच्च विख्यातो गोलोकः सम्भविष्यति ॥
मानुषेषु च कुर्वाणाः प्रजाः कर्म शुभास्तव ।
निवत्स्यन्ति महाभागो सर्वा दुहितरश्च ते ॥
मनसा चिन्तिता भोगास्त्वया वै दिव्यमानुषाः ।
यच्च स्वर्गसुखं देवि तत्ते सम्पत्स्यते शुभे ॥
तस्या लोकाः सहस्राक्ष सर्वकामसमन्विताः । न तत्र क्रमते मृत्युर्न जरा न च पावकः ।
न दैन्यं नाशुभं किञ्चिद्विद्यते तत्र वासव ॥
तत्र दिव्यान्यरण्यानि दिव्यानि भवनानि च ।
विमानानि सुयुक्तानि कामगानि च वासव ॥
ब्रह्मचर्येण तपसा सत्येन च दमेन च ।
दानैश्च विविधैः पुण्यैस्तथा तीर्थानुसेवनात् ॥
तपसा महता चैव सुकृतेन च कर्मणा ।
शक्यः समासादयितुं गोलोकः पुष्करेक्षण ॥
एतत्ते सर्वमाख्यातं मया शक्रानुपृच्छते ।
न ते परिभवः कार्यो गवामसुरसूदन ॥
भीष्म उवाच ।
एतच्छ्रुत्वा सहस्राक्षः पूजयामास नित्यदा ।
गाश्चक्रे बहुमानं च तासु नित्यं युधिष्ठिर ॥
एतत्ते सर्वमाख्यातं पावनं च महाद्युते । पवित्रं परमं चापि गवां माहात्म्यमुत्तमम् ।
कीर्तितं पुरुषव्याघ्र सर्वपापविमोचनम् ।
य इदं कथयेन्नित्यं ब्राह्मणेभ्यः समाहितः ॥
हव्यकव्येषु यज्ञेषु पितृकार्येषु चैव ह ।
सार्वकामिकमक्षय्यं पितॄंस्तस्योपतिष्ठते ॥
गोषु भक्तश्च लभते यद्यदिच्छति मानवः ।
स्त्रियोपि भक्ता या गोषु ताश्च काममवाप्नुयुः ॥
पुत्रार्थीं लभते पुत्रं कन्यार्थी तामवाप्नुयात् ।
धनार्थी लभते वित्तं धर्मार्थी धर्ममाप्नुयात् ॥
विद्यार्थी चाप्नुयाद्विद्यां सुखार्थी प्राप्नुयात्सुखम् ।
न किञ्चिद्दुर्लभं चैव गवां भक्तस्य भारत ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनत्रिंशदधिकशततमोऽध्यायः ॥ 128 ॥

7-129-20 वासव अकूटवाहिन्यः अमायाव्यवहारिण्यः ॥ 7-129-21 निवासार्थं कृतं निवासकृतम् ॥ 7-129-48 कन्या पतिमवाप्नुयादिति क.थ.ध.पाठः ॥

श्रीः