अध्यायः 022

अथ दानधर्मपर्व ॥ 1 ॥

कद्र्वा स्वपुत्रान्प्रति विनतया सह स्वस्य पणबन्धननिवेदनपूर्वकमुच्चैरश्रवसो वाले स्वाङ्गवेष्टनेन नैल्यसम्पादनचोदना ॥ 1 ॥

`भीष्म उवाच ।

विनता तु तथेत्युक्त्वा कृतसंशयना पणे ।
कद्रूरपि तथेत्युक्त्वा पुत्रानिदमुवाच ह ॥
मया कृतः पणः पुत्रा मिथो विनतया सह ।
उच्चैरश्रवसि गान्धर्वे तच्छृणुध्वं भुजङ्गमाः ॥
अब्रवं नैकवर्णं तं सैकवर्णमथाब्रवीत् ।
जिता दासी भवेत्पुत्राः सा वाऽहं वा न संशयः ॥
एकवर्णश्च वाजी स चन्द्रकोकनदप्रभः ।
साऽहं दासी भविष्यामि जिता पुत्रा न संशयः ॥
ते यूयमश्वप्रवरमाविशध्वमतन्द्रिताः ।
सर्वश्वेतं वालधिषु वाला भूत्वाञ्जनप्रभाः ॥
सर्पा ऊचुः ।
निकृत्या न जयः श्रेयान्मातः सत्या गिरः शृणु ।
आयत्यां च तदात्वे च न च धर्मोऽत्र विद्यते ॥
सा त्वं धर्मादपेतं वै कुलस्यैवाहितं तव ।
निकृत्या विजयं मातर्मा स्म कार्षीः कथञ्चना ॥
यद्यधर्मेण विजयं वयं काङ्क्षामहे क्वचित् ।
त्वया नाम निवार्याः स्म मा कुरुध्वमिति ध्रुवम् ॥
सा त्वमस्मानपि सतो विपापानृजुबुद्धिनः ।
कल्मषेणाभिसंयोक्तुं काङ्क्षसे लोभमोहिता ॥
ते वयं त्वां परित्यज्य द्रविष्याम दिशो दश ।
यत्र वाक्यं न ते मातः पुनः श्रोष्याम ईदृशम् ॥
गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः ।
उत्पथं प्रतिपन्नस्य परित्यागो विधीयते ॥
कद्रूरुवाच ।
शृणोमि विविधा वाचो हेतुमत्यः समीरिताः ।
वक्रमार्गनिवृत्त्यर्थं तदहं वो न रोचये ॥
न च तत्पणितं मन्दाः शक्यं जेतुमतोऽन्वथा ।
जिते निकृत्या श्रुत्वैतत्क्षेमं कुरुत पुत्रकाः ॥
श्वोऽहं प्रभातसमये जिता धर्मेण पुत्रकाः ।
शैलूषिणी भविष्यामि विनताया न संशयः ॥
इह चामुत्र चार्थाय पुत्रानिच्छन्ति मातरः ।
सेयमीहा विपन्ना मे युष्मानासाद्य सङ्गताम् ॥
इह वा तारयेत्पुत्रः प्रेत्य वा तारयेत्पितॄन् ।
मात्र चित्रं भवेकिञ्चित्पुनातीति च पुत्रकः ॥
ते यूयं तारणार्थाय मम पुत्रा मनोजवाः ।
आविशध्वं हयश्रेष्ठं वाला भूत्वाऽञ्जनप्रभाः ॥
जानाम्यधर्मं सकलं विजिता विनता भवेत् ।
निकृत्या दासभावस्तु युष्मानप्यवपीडयेत् ॥
निकृत्या विजयो वेति दासत्वं वा पराभवे ।
उभयं निश्चयं कृत्वा जयो वै धार्मिको वरः ॥
यद्यप्यधर्मो विजयो युष्मानेव स्पृशेत्पुनः ।
गुरोर्वचनमास्थाय धर्मो वा सम्भविष्यति' ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्वाविंशोऽध्यायः ॥ 22 ॥

श्रीः