अध्यायः 092

अश्वमेधपर्व ॥ 1 ॥

नकुलेन युधिष्ठिरादीन्प्रति सकुटुम्बस्योञ्छवृत्तेर्ब्राह्मणस्य धर्मपुरुषाय सक्तुप्रस्तदानमहिमवर्णनपूर्वकंपुनस्तत्रैवान्तर्धानम् ॥ 1 ॥

नकुल उवाच ।

हन्त वः कथयिष्यामि दानस्य फलमुत्तमम् ।
न्यायलब्धस्य सूक्ष्मस्य विप्रदत्तस्य यद्द्विजाः ॥
धर्मक्षेत्रे कुरुक्षेत्रे धर्मज्ञैर्बहुभिर्वृते ।
उञ्छवृत्तिर्द्विजः कश्चित्कापोतिरभवत्पुरा ॥
सभार्यः सहपुत्रेण सस्नुषस्तपसि स्थितः ।
बभूव शुक्लवृत्तः स धर्मात्मा नियतेन्द्रियः ॥
षष्ठे काले सदा विप्रो भुङ्क्ते तैः सह संवृतः ॥
षष्ठे काले कदाचित्तु तस्याहारो न विद्यते ।
भुङ्क्तेऽन्यस्मिन्कदाचित्स षष्ठे काले द्विजोत्तमः ॥
कपोतधर्मिणस्तस्य दुर्भिक्षे सति दारुणे ।
नाविद्यत तदा विप्राः संचयस्तन्निबोधत ॥
क्षीणाषैदिसमावापो द्रव्यहीनोऽभवत्तदा ।
कालेकालेऽस्य सम्प्राप्ते नैव विद्येत भोजनम् ॥
क्षुधापरिगताः सर्वे प्रातिष्ठन्त तदा तु ते ।
उञ्छं तदा शुक्लपक्षे मध्यं तपति भास्करे ॥
उष्णार्तश्च क्षुधार्तश्च विप्रस्तपसि संस्थितः ।
उञ्छमप्राप्तवानेव ब्राह्मणः क्षुच्छ्रमान्वितः ॥
स तथैव क्षुधाविष्टः सार्धं परिजनेन ह ।
क्षपयामास तं कालं कृच्छ्रप्राणो द्विजोत्तमः ॥
अथ षष्ठे गते काले यवप्रस्थमुपार्जयन् ।
यवप्रस्थं तु तं सक्तूनकुर्वन्त तपस्विनः ॥
कृतजप्याह्निकास्ते तु हुत्वा चाग्निं यथाविधि ।
कुडवंकुडवं सर्वे व्यभजन्त तपस्विनः ॥
अथागच्छद्द्विजः कश्चिदतिथिर्भुञ्जतां तदा ।
ते तं दृष्ट्वाऽतिथिं प्राप्तं प्रहृष्टमनसोऽभवन् ॥
तेऽभिवाद्य सुखप्रश्नं पृष्ट्वा तमतिथिं तदा ।
विशुद्धमनसो दान्ताः श्रद्धादमसमन्विताः ॥
अनसूया गतक्रोधाः साधवो वीतमत्सराः ।
त्यक्तमानमदक्रोधा धर्मज्ञा द्विजसत्तमाः ॥
सब्रह्यचर्यं गोत्रं ते तस्य ख्यात्वा परस्परम् ।
कुटीं प्रवेशयामासुः क्षुधार्तमतिथिं तदा ॥
इदमर्घ्यं च पाद्यं च बृसी चेयं तवानघ । शुचयः सक्तवश्चेमे नियमोपार्जिताः प्रभो ।
प्रतिगृह्णीष्व भद्रं ते मया दत्ता द्विजर्षभ ॥
इत्युक्तः प्रतिगृह्याथ सक्तूनां कुडवं द्विजः ।
भक्षयामास राजेन्द्र न च तुष्टिं जगाम सः ॥
स उञ्छवृत्तिस्तं प्रेक्ष्य क्षुधापरिगतं द्विजम् ।
आहारं चिन्तयामास कथं तुष्टो भवेदिति ॥
तस्य भार्याऽब्रवीद्वाक्यं मद्भागो दीयतामिति ।
गच्छत्वेष यथाकामं परितुष्टो द्विजोत्तमः ॥
इति ब्रुवन्तीं तां साध्वीं भार्यां स द्विजसत्तमः ।
क्षउधापरिगतां ज्ञात्वा तान्सक्तून्नाभ्यनन्दत ॥
आत्मानुमानतो विद्वान्स तु विप्रर्षभस्तदा । जानन्वृद्धां क्षुधार्तां च श्रान्तां ग्लानां तपस्विनीम् ।
त्वगस्थिभूता वेपन्तीं ततो भार्यामुवाच ह ॥
अपि कीटपतङ्गानां मृगाणां चैव शोभने ।
स्त्रियो रक्ष्याश्च पोष्पाश्च न त्वेवं वक्तुमर्हसि ॥
अनुकंप्यो नरः पत्न्या पुष्टो रक्षित एव च ।
प्रपतेद्यशसो दीप्तात्स च लोकान्न चाप्नुयात् ॥
धर्मकामार्थकार्याणि शुश्रूषाकुलसंततिः ।
दारेष्वदीनो धर्मस्च पितॄणामात्मनस्तथा ॥
न वेत्ति कर्मतो भार्यारक्षणे योऽक्षमः पुमान् ।
अयशो महदाप्नोति नारकांश्चैव गच्छति ॥
इत्युक्ता सा ततः प्राह धर्मार्थौ नौ समौ द्विज ।
सक्तुप्रस्थचतुर्भागं गृहाणेमं प्रसीद मे ॥
सत्यं रतिश्च धर्मश्च स्वर्गश्च गुणनिर्जितः ।
स्त्रीणां पतिसमाधीनं काङ्क्षितं च द्विजर्षभ ॥
ऋतुर्मातु पितुर्बीजं दैवतं परमं पतिः ।
भर्तुः प्रसादान्नारीणां रतिपुत्रफलं तथा ॥
पालनाद्धि पतिस्त्वं मे भर्ताऽसि भरणाच्च मे ।
पुत्रप्रदानाद्वरदस्तस्मात्सक्तून्प्रयच्छ मे ॥
जरापरिगतो वृद्धः क्षुधार्तो दुर्बलो भृशम् ।
उपवासपरिश्रान्तो यदा त्वमपि कर्शितः ॥
इत्युक्तः स तया सक्तून्प्रगृह्येदं वचोऽब्रवीत् ।
द्विजि सक्तूनिमान्भूयः प्रतिगृह्णीष्व सत्तम ॥
स तान्प्रगृह्य भुक्त्वा च न तुष्टिमगमद्द्विजः ।
तमुञ्छवृत्तिरालक्ष्य ततश्चिन्तापरोऽभवत् ॥
पुत्र उवाच ।
सक्तूनिमान्प्रगृह्य त्वं देहि विप्राय सत्तम ।
इत्येव सुकृतं मन्ये तस्मादेतत्करोम्यहम् ॥
भवान्हि परिपाल्यो मे सर्वदैव प्रयत्नतः ।
साधूनां काङ्क्षितं यस्मात्पितुर्वृद्धस्य पालनम् ॥
पुत्रार्थो विहितो ह्येष वार्धके परिपालनम् ॥
श्रुतिरेषा हि विप्रर्षे त्रिषु लोकेषु शाश्वती ॥
प्राणाधारणमात्रेण शक्यं कर्तुं तपस्त्वया ।
प्राणो हि परमो धर्मः स्थितो देहेषु देहिनाम् ॥
पितोवाच ।
अपि वर्षसहस्री त्वं बाल एव मतो मम ।
उत्पाद्य पुत्रं हि पिता कृतकृत्यो भवेत्सुतात् ॥
बालानां क्षुद्बलवती जानाम्येतदहं प्रभो ।
वृद्धोऽहं धारयिष्यामि त्वं बली भव पुत्रक ॥
जीर्णेन वयसा पुत्र न मां क्षुद्बाधतेऽपि च ।
दीर्घकालं तपस्तप्तं न मे मरणतो भयम् ॥
पुत्र उवाच ।
अपत्यमस्मि ते पुंसस्त्राणात्पुत्र इति स्मृतः ।
आत्मा पुत्रः स्मृतस्तस्मात्त्राह्यात्मानमिहात्मना ॥
पितोवाच ।
रूपेण सदृशस्त्वं मे शीलेन च दमेन च ।
परीक्षितश्च बहुधा सक्तूनादद्मि ते सुत ॥
इत्युक्त्वाऽऽदाय तान्सक्तून्प्रीतात्मा द्विजसत्तमः ।
प्रहसन्निव विप्राय स तस्मै प्रददौ तदा ॥
भुक्त्वा तानपि सक्तून्स नैव तुष्टो बभूव ह ।
उच्छवृत्तिस्तु धर्मात्मा व्रीडामनुजगाम ह ॥
तं वै वधूः स्थिता साध्वी ब्राह्मणिप्रियकाम्यया ।
सक्तूनादाय संहृष्टा श्वशुरं वाक्यमब्रवीत् ॥
संतानात्तव संतानं मम विप्र भविष्यति ।
सक्तूनिमानतिथये गृहीत्वा सम्प्रयच्छ मे ॥
तव प्रसादान्निर्वृत्ता मम लोकाः किलाक्षयाः ।
पुत्रेण तानवाप्नोति यत्र गत्वा न शोचति ॥
धर्माद्या हि यथा त्रेता वह्नित्रेता तथैव च ।
तथैव पुत्रपौत्राणां स्वर्गस्त्रेता किलाक्षयः ॥
पितॄणात्तारयति पुत्र इत्यनुशुश्रुम ।
पुत्रपौत्रैश्च नियतं सादुलोकानुपाश्नुते ॥
श्वशुर उवाच ।
वातातपविशीर्णाङ्गीं त्वां विवर्णां निरीक्ष्य वै ।
कर्शितां सुव्रताचारे क्षुधाविह्वलचेतसम् ॥
कथं सक्तून्ग्रहीष्यामि भूत्वा धर्मोपघातकः ।
कल्याणवृत्ते कल्याणि नैव त्वं वक्तुमर्हसि ॥
षष्ठे काले व्रतवतीं शौचशीलतपोन्विताम् ।
कृच्छ्रवृत्तिं निराहारां द्रक्ष्यामि त्वां कथं शुभे ॥
बाला क्षुधार्ता नारी च रक्ष्या त्वं सततं मया ।
उपवासपरिश्रान्ता त्वं हि बान्धवनन्दिनी ॥
स्नुषोवाच ।
गुरोर्मम गुरुस्त्वं वै यतो दैवतदैवतम् ।
देवातिदेवस्तस्मात्त्वं सक्तूनादत्स्व मे प्रभो ॥
देहः प्राणश्च धर्मश्च शुश्रूषार्थमिदं गुरोः ।
तव विप्र प्रसादेन लोकान्प्राप्स्यामहे शुभान् ॥
अवेक्ष्या इति कृत्वाऽहं दृढभक्तेति वा द्विज ।
चिन्त्या ममेयमिति वा सक्तूनादानुमर्हसि ॥
श्वशुर उवाच ।
अनेन नित्यं साध्वी त्वं शीलवृत्तेन शोभसे ।
या त्वं धर्मव्रतोपेता गुरुवृत्तिमवेक्षसे ॥
तस्मात्सक्तून्ग्रहीष्यामि वधु नार्हसि वञ्चनाम् ।
गणयित्वा महाभागे त्वां हि धर्मभृतां वरे ॥
इत्युक्त्वा तानुपादाय सक्तून्प्रादाद्द्विजातये ।
ततस्तुष्टोऽभवद्विप्रस्तस्य साधोर्महात्मनः ॥
प्रीतात्मा स तु तं वाक्यमिदमाह द्विजर्षभम् ।
वाग्मी तदा द्विजश्रेष्टो धर्मः पुरुषविग्रहः ॥
शुद्धेनि तव दानेन न्यायोपात्तेन धर्मतः ।
यथाशक्ति विसृष्टेन प्रीतोस्मि द्विजसत्तम ॥
अहो दानं घुष्यते ते स्वर्गे स्वर्गनिवासिभिः ।
गगनात्पुष्पवर्षं च पश्येदं पतितं भुवि ॥
सुरर्षिदेवगन्धर्वा ये च देवपुरःसराः ।
स्तुवन्तो देवदूताश्च स्थिता दानेन विस्मिताः ॥
ब्रह्मर्षयो विमानस्था ब्रह्मलोकचरश्च ये ।
काङ्क्षन्ते दर्शनं तुभ्यं दिवं व्रज द्विजर्षभ ॥
पितृलोकगताः सर्वे तारिताः पितरस्त्वया ।
अनागताश्च बहवः सुबहूनि युगान्युत ॥
ब्रह्मचर्येण दानेन यज्ञेनि तपसा तथा ।
अगह्वरेण धर्मेण तस्माद्गच्च दिवं द्विज ॥
श्रद्धया परया यरत्वं तपश्चरसि सुव्रत ।
तस्माद्देवास्तवानेन प्रीता ब्राह्मणसत्तम ॥
सर्वमेतद्धि यस्मात्ते दत्तं शुद्धेन चेतसा ।
कृच्छ्रकाले ततः स्वर्गो विजितः कर्मणा त्वया ॥
क्षुधा निर्णुदति प्रज्ञां धर्मबुद्धिं व्यपोहति ।
क्षुधापरिगतज्ञानो धृतिं त्यजति चैव ह ॥
बुभुक्षां जयते यस्तु स स्वर्गं जयते ध्रुवम् ।
यदा दानरुचिः स्याद्वै तदा धर्मो न सीदति ॥
अनवेक्ष्य सुतस्नेहं कलत्रस्नेहमेव च ।
धर्ममेव गुरं ज्ञात्वा तृष्णा न गणिता त्वया ॥
द्रव्यागमो नृणां सूक्ष्मः पात्रे दानं ततः परम् ।
कालः परतरो दानाच्छ्रद्धा चैव ततः परा ॥
स्वर्गद्वारं सुसूक्ष्मं हि नरैर्माहान्नि दृश्यते ।
सङ्गर्गलं लोभकीलं रागगुप्तं दुरासदम् ॥
तं तु पश्यन्ति पुरुषा जितदक्रोधा जितेन्द्रियाः ।
ब्राह्मणास्तपसा युक्ता यथाशक्ति प्रदायिनः ॥
सहस्रशक्तिश्च शतं शतशक्तिर्दशापि च ।
दद्यादपश्च यः शक्त्या सर्वे तुल्यफलाः स्मृताः ॥
रन्तिदेवो हि नृपतिरपः प्रादादकिंचनः ।
शुद्धेन मनसा विप्र नाकपृष्ठं ततो गतः ॥
न धर्मः प्रीयते तात दानैर्दत्तैर्महाफलैः ।
न्यायलब्धैर्यथा सूक्ष्मैः श्रुद्धापूतैः स तुष्यति ॥
गोप्रदानसहस्राणि द्विजेभ्योऽदान्नृगो नृपः ।
एकां दत्त्वा स पारक्यां नरकं समपद्यत ॥
आत्ममांसप्रदानेन शिबोरौशीनरो नृपः ।
प्राप्य पुण्यकृताँल्लोकान्मोदत दिवि सुव्रतः ॥
विभवेन नृणां पुण्यं यच्छत्त्या स्वार्जितं न तत् ।
न यज्ञैर्विविधैर्विप्र यथान्यायेन संचितैः ॥
क्रोधाद्दानफलं हन्ति लोभात्स्वर्गं न गच्छति ।
न्यायवृत्तिर्हि तपसा दानवित्स्वर्गमश्नुते ॥
न राजसूयैर्बहुभिरिष्टा विपुलदक्षिणैः ॥
न चाश्वमेधैर्बहुभिः फलं सममिदं तव ॥
सक्तुप्रस्थेन विजितो ब्रह्मलोकस्त्वयाऽक्षयः ।
विरजो ब्रह्मसदनं गच्छ विप्र यतासुखम् ॥
सर्वेषां वो द्विजश्रेष्ठ दिव्यं यानमुपस्थितम् ।
आरोहत यथाकामं धर्मोस्मि द्विज पश्य माम् ॥
बाधितो हि त्वया देहो लोके कीर्तिः स्थिरा च ते ।
सभार्यः सहपुत्रश्च सस्नुषश्च दिवं व्रज ॥
इत्युक्तवाक्ये धर्मे तु यानमारुद्य स द्विजः ।
सदारः ससुतश्चैव सस्नुषश्च दिवं गतः ॥
तस्मिन्विपरे गते स्वर्गं ससुते सस्नुषे तदा ।
भार्याचतुर्थे धर्मज्ञे ततोऽहं निःसृतो बिलात् ॥
ततस्तु सक्तुगन्धेन क्लेदेन सलिलस्य च ।
दिव्यपुष्पविमर्दाच्च साधोर्दानलवैश्च तैः ॥
विप्रस्य तपसा तस्य शिरो मे काञ्चनीकृतम् ।
तस्य सत्याभिसन्धस्य सक्तुदानेन चैव ह ॥
शरीरार्धं च मे विप्राः शातकुंभमयं कृतम् ।
पश्यतेमं सुविपुलं तपसा तस्य धीमतः ॥
कथमेवंविधं स्याद्वै पार्श्वमन्यदिति द्विजाः । तपोवनानि यज्ञांश्च हृष्टोऽभ्योमि पुनः पुनः ।
यज्ञं त्वहमिमं श्रुत्वा रुरुराजस्य धीमतः ।
आशया परया प्राप्तो न चाहं काञ्चनीकृतः ॥
ततो मयोक्तं तद्वाक्यं प्रहस्य ब्राह्मणर्षभाः ।
सक्तुप्रस्थेन यज्ञोऽयं संमितो नेति सर्वथा ॥
सक्तुप्रस्थलवैस्तैर्हि तदाऽहं काञ्चनीकृतः ।
न हि यज्ञो महानेष सदृशस्तैर्मतो मम ॥
इत्युक्त्वा नकुलः सर्वान्यज्ञे द्विजवरांस्तदा ।
जगामादर्सनं तेषां विप्रास्ते च ययुर्गृहान् ॥
एतत्ते सर्वमाख्यातं मया परपुरंजय ।
यदाश्चर्यमभूत्तत्र वाचिमेधे महाक्रतौ ॥
न विस्मयस्ते नृपते यज्ञे कार्यः कथञ्चन ।
ऋषिकोटिसहस्राणि तपोभिर्ये दिवं गताः ॥
अद्रोहः सर्वभूतेषु संतोषः शीलमार्जवम् ।
तपो दमश्च सत्यं च प्रदानं चेति संमितम् ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अनुगीतापर्वणि द्विनवतितमोऽध्यायः ॥ 92 ॥

7-92-2 कपोतवदेकैकं कणमादत्ते स कापोतिः ॥ 7-92-8 उंछं कणश आदानं कर्तुमिति शेषः । शुक्लस्य ज्येष्ठस्य पक्षे ॥ 7-92-56 अवेक्ष्या पालनीया । चिन्त्या परीक्षणीया ॥ 7-92-58 हे वरे श्रेष्ठे महाभागे त्वां धर्मभृतां मध्ये गणयित्वा सक्तून् ग्रहीष्यामीत्यन्वयः ॥ 7-92-84 तारितो हि त्वयेति झ.पाठः ॥

श्रीः