अध्यायः 012

अश्वमेधपर्व ॥ 1 ॥

कृष्णेन युधिष्ठिरंप्रति शारीरमानसभेदनेन व्याधेर्द्वैविध्याभिधानपूर्वकं तत्परिहारोपायकथनम् ॥ 1 ॥

वासुदेव उवाच ।

द्विवोधो जायते व्याधिः शारीरो मानसस्तथा ।
परस्परं तयोर्जन्म निर्द्वन्द्वं नोपपद्यते ॥
शरीरे जायते व्याधिः शरीरः स निगद्यते ।
मानसे जायते व्याधिर्मानसस्तु निगद्यते ॥
शीतोष्णे चैव वायुश्च गुणा राजञ्शरीरजाः ।
तेषां गुणानां साम्यं चेत्तदाहुः स्वस्थलक्षणम् ॥
उष्णेन बाध्यते शीतं शीतेनोष्णं च बाध्यते ॥
सत्वं रजस्तमश्चेति त्रय आत्मगुणाः स्मृताः ।
तेषां गुणानां साम्यं चेत्तदाहुः स्वस्थलक्षणम् ॥
तेषामन्यतमोत्सेके विधानमुपदिश्यते ।
हर्षेण बाध्यते शोको हर्षः शोकेन बाध्यते ॥
कश्चिद्दुःखे वर्तमानः सुखस्य स्मर्तुमिच्छति ।
कश्चित्सुखे वर्तमानो दुःखस्य स्मर्तुमिच्छति ॥
स त्वं न दुःखी दुःखस्य न सुखी सुसुखस्य वा । स्मर्तुमिच्छसि कौन्तेय दैवं हि बलवत्तरम् ।
अथवा ते स्वभावोऽयं येन पार्थावकृष्यसे ॥
दृष्ट्वा सभागतां कृष्णामेकवस्त्रां रजस्वलाम् ।
मिषतां पाण्डवेयानां न तस्य स्मर्तुमिच्छसि ॥
प्रव्राजनं च नगरादजिनैश्च विवासनम् ।
महारण्यनिवासश्च न तस्य स्मर्तुमिच्छसि ॥
जटासुरात्परिक्लेशश्चित्रसेनेन चाहवः ।
सैन्धवाच्च परिक्लेशो न तस्य स्मर्तुमिच्छसि ॥
पुनरज्ञातचर्यायां कीचकेन पदा वधः ।
याज्ञसेन्यास्तथा पार्थ न तस्य स्मर्तुमिच्छसि ॥
यच्च ते द्रोणभीष्माभ्यां युद्धमासीदरिंदम ।
मनसैकेन योद्धव्यं तत्ते युद्धमुपस्थितम् ॥
तस्मादभ्युपगन्तव्यं युद्धाय भरतर्षभ ।
परमव्यक्तरूपस्य पारं युक्त्या स्वकर्मभिः ॥
यत्र नैव शरैः कार्यं न भृत्यैर्न च बन्धुभिः ।
आत्मनैकेन योद्धव्यं तत्ते युद्धमुपस्थितम् ॥
तस्मिन्ननिर्जिते युद्धे कामवस्थां गमिष्यसि ।
एतज्ज्ञात्वा तु कौन्तेय कृतकृत्यो भविष्यसि ॥
एथां बुद्धिं विनिश्चित्य भूतानामागतिं गतिम् ।
पितृपैतामहे वृत्ते शाधि राज्यं यथोचितम् ॥ ॥

इति श्रीमन्महाभारते आश्वमेधिकपर्वणि अश्वमेधपर्वणि द्वादशोऽध्यायः ॥ 12 ॥

7-12-3 शीतोष्णे कफपित्ते वायुर्वातः तेषां साम्ये स्वास्थ्यं वैषम्ये व्याधिर्भवतीत्यर्थः ॥ 7-12-4 शीतोष्णयोरन्यतराविक्यजं दोष मितरवर्धकेनौषधादिनापनयेदित्यर्थः ॥ 7-12-12 कीचकेन पराभव इति क.पाठः ॥ 7-12-15 आत्मना मनसा ॥

श्रीः