अध्यायः 017

अथाश्रमवासपर्व ॥ 1 ॥

धृतराष्ट्रस्य वनप्रस्थानसमये विदुरसंजयाभ्यामपि वनवासाय तेन सह प्रस्थानम् ॥ 1 ॥ तथा कुन्त्यापि युधिष्ठिरादिभिर्बहुधा प्रार्थनाभिः प्रतिषेधनेपि तत्समाश्वासनपूर्वकं गान्धार्या सह वनंप्रति प्रस्थानम् ॥ 2 ॥

धृतराष्ट्रस्य वनप्रस्थानसमये विदुरसंजयाभ्यामपि वनवासाय तेन सह प्रस्थानम् ॥ 1 ॥ तथा कुन्त्यापि युधिष्ठिरादिभिर्बहुधा प्रार्थनाभिः प्रतिषेधनेपि तत्समाश्वासनपूर्वकं गान्धार्या सह वनंप्रति प्रस्थानम् ॥ 2 ॥

वैशम्पायन उवाच ।
ततः प्रासादहर्म्येषु वसुधायां च पार्थिव ।
नारीणां च नराणां च निःस्वनः सुमहानभूत् ॥
स राजा राजमार्गेण नृनारीसंकुलेन च ।
कथञ्चिन्निर्ययौ धीमान्वेपमानः कृताञ्जलिः ॥
स वर्धमानद्वारेणि निर्ययौ गजसाह्वयात् ।
विसर्जयामास च तं जनौघं स मुहुर्मुहुः ॥
वनं गन्तुं च विदुरो राज्ञा सह कृतक्षणः ।
संजयश्च महामात्रः सूतो गावल्गणिस्तथा ॥
ककृपं निवर्तयामास युयुत्सुं च महारथम् ।
धृताराष्ट्रो महीपालः परिदाप्य युधिष्ठिरे ॥
निवृत्ते पौरवर्गे च राजा सान्तःपुरस्तदा ।
धृतराष्ट्राभ्यनुज्ञातो निवर्तितुमियेष ह ॥
सोब्रवीन्मातरं कुन्तीमुपेत्य भरतर्षभ ॥
अहं राजानमन्विष्ये भवती विनिवर्तताम् ॥
वधूपरिवृता राज्ञि नगरं गन्तुमर्हसि ।
राजा यात्वेष धर्मात्मा तपसे कृतनिश्चयः ॥
इत्युक्ता धर्मराजेनि बाष्पव्याकुललोचना ।
जगामैव तदा कुन्ती गान्धारीं परिगृह्य ह ॥
कुन्त्युवाच ।
सहदेवे महाराज माऽप्रसादं कृथाः क्वचित् ।
एष मामनुरक्तो हि राजंस्त्वां चैव सर्वदा ॥
कर्णं स्मरेथाः सततं सङ्ग्रामेष्वपलायिनम् ।
अवकीर्णो हि स मया वीरो दुष्प्रज्ञया तदा ॥
आयसं हृदयं नूनं मन्दाया मम पुत्रक ।
यत्सूर्यजमपश्यन्त्याः शतधा न विदीर्यते ॥
एवं गते तु किं शक्यं मया कर्तुमरिंदम ।
मम दोषोऽयमत्यर्थं ख्यापितो यन्न सूर्यजः ॥
तन्निमित्तं महाबाहो दानं दद्यास्त्वमुत्तमम् ।
सदैव भ्रातृभिः सार्धं सूर्यजस्यारिमर्दन ॥
द्रौपद्याश्च प्रिये नित्यं स्थातव्यमरिकर्शन ।
भीमसेनोऽर्जुनश्चैव नकुलश्च कुरूद्वह ॥
समाधेयास्त्वया राजंस्त्वय्यद्य कुलधूर्गता । श्वश्रूश्वशुरयोः पादाञ्शुश्रूषन्ती वने त्वहम् ।
गान्धारीसहिता वत्स्ये तापसी मलपङ्किनी ॥
वैशम्पायन उवाच ।
एवमुक्तः स धर्मात्मा भ्रातृभिः सहितो वशी ।
विषादमगमद्धीमान्न च किञ्चिदुवाच ह ॥
मुहूर्तमिव तु ध्यात्वा धर्मराजो युधिष्ठिरः ।
उवाच मतारं दीनश्चिन्ताशोकपरायणः ॥
किमिदं ते व्यवसितं नैवं त्वं वक्तुमर्हसि ।
न त्वामभ्यनुजानामि प्रसादं कर्तुमर्हसि ॥
व्यचोदयः पुराऽस्माकमुत्साहं शुभदर्शने ।
विदुलाया वचोभिस्त्वं नास्मान्संत्यक्तुमर्हसि ॥
निहत्य पृथिवीपालान्राज्यं प्राप्तमिदं मया ।
तव प्रज्ञामुपश्रुत्य वासुदेवान्नरर्षभात् ॥
क्व सा बुद्धिरियं चाद्य भवत्या या श्रुता मया ।
क्षत्रधर्मे स्थितं त्यक्त्वा न प्रयातुमिहार्हसि ॥
अस्मानुत्सृज्य राज्यं च स्नुषाहीना यशस्विनि ।
कथं वत्स्यसि दुर्गेषु वनेष्वद्य प्रसीद मे ॥
इति बाष्पकला वाचः कुन्ती पुत्रस्य शृण्वती ।
जगामैवाश्रुपूर्णाक्षी भीमस्तामिदमब्रवीत् ॥
यदा राज्यमिदं कुन्ति भोक्तव्यं पुत्रनिर्जितम् ।
प्राप्तव्या राजधर्माश्च तदेयं ते कुतो मतिः ॥
किं वयं कारिताः पूर्वं भवत्या पृथिवीक्षयम् ।
कस्य हेतोः परित्यज्य वनं गन्तुमभीप्ससि ॥
वनाच्चापि किमानीता भवत्या बालका वयम् ।
दुःखशोकसमाविष्टौ माद्रीपुत्राविमौ तथा ॥
प्रसीद मातर्मा गास्त्वं वनमद्य यशस्विनि ।
श्रियं यौधिष्ठिरीं मातर्भुङ्क्ष्व पार्थबलार्जिताम् ॥
इति सा निश्चितैवाशु वनवासकृततक्षणा ।
लालप्यतां बहुविधं पुत्राणां नाकरोद्वचः ॥
द्रौपदी चान्वयाच्छ्वश्रूं विषष्णवदना तदा ।
वनवासाय गच्छन्तीं रुदती भद्रया सह ॥
सा पुत्रान्रुदतः सर्वान्मुहुर्मुहुरवेक्षती ।
जगामैव महाप्राज्ञा वनाय कृतनिश्चया ॥
अन्वयुः पाण्डवास्तां तु सभृत्यान्तःपुरास्तथा ।
ततः प्रमृज्य साऽश्रूणि पुत्रान्वचनमब्रवीत् ॥ ॥

इति श्रीमन्महाभारते आश्रमवासिकपर्वणि आश्रमवासपर्वणि सप्तदशोऽध्यायः ॥ 17 ॥

7-17-10 मा प्रमादं कृथा इति क.थ.पाठः ॥ 7-17-16 श्वश्रूश्वशुरयोः । ज्येष्ठत्वाद्धृतराष्ट्रः पाण्डोः पितृसमस्तेन कुन्त्याः स श्वशुर इति ॥ 7-17-22 क्षत्रधर्मे स्थितिं ह्युक्त्वा न प्रत्याख्यातुमर्हसि इति थ.पाठः । स्थितिं चोक्त्वा तस्याश्च्यवितुमिच्छसि इति झ.पाठः ॥ 7-17-30 भद्रया सुभद्रया ॥

श्रीः