अध्यायः 228

पाण्डवानां समीपे नारदागमनम् ॥ 1 ॥

जनमेजय उवाच ।
एवं संप्राप्य राज्यं तदिन्द्रप्रस्थे तपोधन ।
अत ऊर्ध्वं नरव्याघ्राः किमकुर्वत पाण्डवाः ॥
सर्व एव महात्मानः सर्वे मम पितामहाः ।
द्रौपदी धर्मपत्नी च कथं तानन्ववर्तत ॥
कथमासुश्च कृष्णायामेकस्यां ते नरर्षभाः ।
वर्तमाना महाभागा नाभिद्यन्त परस्परम् ॥
श्रोतुमिच्छाम्यहं तत्र विस्तरेण यथातथम् ।
तेषां चेष्टितमन्योन्यं युक्तानां कृष्णया सह ॥
वैशंपायन उवाच ।
धृतराष्ट्राभ्यनुज्ञाता इन्द्रप्रस्थं प्रविश्य तत् ।
रेमिरे पुरुषव्याघ्राः कृष्णया सह पाण्डवाः ॥
प्राप्य राज्यं महातेजाः सत्यसन्धो युधिष्ठिरः ।
पालयामास धर्मेण पृथिवीं भ्रातृभिः सह ॥
जितारयो महात्मानः सत्यधर्मपरायणाः ।
एवं पुरमिदं प्राप्य तत्रोषुः पाण्डुनन्दनाः ॥
कुर्वाणाः पौरकार्याणि सर्वाणि भरतर्षभाः ।
आसांचक्रुर्महार्हेषु पार्थिवेष्वासनेषु च ॥
तेषु तत्रोपविष्टेषु पाण्डवेषु महात्मसु ।
आययौ धर्मराजं तु द्रष्टुकामोऽथ नारदः ॥
`पथा नक्षत्रजुष्टेन सुपर्णाचरितेन च ।
चन्द्रसूर्यप्रकाशेन सेवितेन महर्षिभिः ॥
नभस्स्थलेन दिव्येन दुर्लभेनातपस्विनाम् ।
भूतार्चितो भूतधरां राष्ट्रमन्दिरभूषिताम् ॥
अवेक्षमाणो द्युतिमानाजगाम महातपाः ।
सर्ववेदान्तगो विप्रः सर्ववेदाङ्गपारगः ॥
परेण तपसा युक्तो ब्राह्मेण तपसा वृतः ।
नये नीतौ च निस्तो विश्रुतश्च महामुनिः ॥
परात्परतरं प्राप्तो धर्मान्समभिजग्मिवान् ।
भावितात्मा गतरजाः शान्तो मृदुर्ऋजुर्दिवजः ॥
धर्मेणाधिगतः सर्वैर्देवदानवमानुषैः ।
क्षीणकर्मसु पापेषु भूतेषु विविधेषु च ॥
सर्वथा कृतमर्यादो वेदेषु विविधेषु च ।
शतशः सोमपा यज्ञे पुण्ये पुण्यकृदग्निचित् ॥
ऋक्सामयजुषां वेत्ता न्यायदृग्धर्मकोविदः ।
ऋजुरारोहबान्वृद्धो भूयिष्ठपथिकोऽनघः ॥
श्लक्ष्णया शिखयोपेतः संपन्नः परमत्विषा ।
अवदाते च सूक्ष्मे च दिव्ये च रचिते शुभे ॥
महेन्द्रदत्ते महती बिभ्रत्परमवाससी ।
जाम्बूनदमये दिव्ये गण्डूपदमुखे नवे ॥
अग्न्यर्कसदृशे दिव्ये धारयन्कुण्डले शुभे ।
राजतच्छत्रमुच्छ्रित्य चित्रं परमवर्चसम् ॥
प्राप्य दुष्प्रापमन्येन ब्रह्मवर्चसमुत्तमम् ।
भवने भूमिपालस्य बृहस्पतिरिवाप्लुतः ॥
संहितायां च सर्वेषां स्थितस्योपस्थितस्य च ।
द्विपदस्य च धर्मस्य क्रमधर्मस्य पारगः ॥
गाधा सामानुसामज्ञः साम्नां परमवल्गुनाम् ।
आत्मनः सर्वमोक्षिभ्यः कृतिमान्कृत्यवित्सदा ॥
यजुर्धर्मैर्बहुविधैर्मतो मतिमतां वरः ।
विदितार्थः समश्चैव च्छेत्ता निगमसंशयान् ॥
अर्थनिर्वचने नित्यं संशयच्छिदसंशयः ।
प्रकृत्या धर्मकुशलो दाता धर्मविशारदः ॥
लोपेनागमधर्मेण संक्रमेण च वृत्तिषु ।
एकशब्दांश्च नानार्थानेकार्थांश्च पृथक्कृतान् ॥
पृथगर्थाभिधानांश्च प्रयोगानन्ववेक्षिता ।
प्रमाणभूतो लोकेषु सर्वाधिकरणेषु च ॥
सर्ववर्णविकारेषु नित्यं कुशलपूजितः ।
स्वरेऽस्वरे च विविधे वृत्तेषु विविधेषु च ॥
समस्थानेषु सर्वेषु समाम्नायेषु धातुषु ।
उद्देश्यानां समाख्याता सर्वमाख्यातमुद्दिशन् ॥
अभिसन्धिषु तत्त्वज्ञः पदान्यङ्गान्यनुस्मरन् ।
कालधर्मेण निर्दिष्टं यथार्थं च विचारयन् ॥
चिकीर्षितं च यो वेत्ता यथा लोकेन संवृतम् ।
विभाषितं च समयं भाषितं हृदयंगमम् ॥
आत्मने च परस्मै च स्वरसंस्कारयोगवित् ।
एषां स्वराणां ज्ञाता च बोद्धा प्रवचनः स्वराट् ॥
विज्ञाता चोक्तवाक्यानामेकतां बहुतां तथा ।
बोद्धा हि परमार्थांश्च विविधांश्च व्यतिक्रमान् ॥
अभेदतश्च बहुशो बहुशश्चापि भेदतः ।
वक्ता विविधवाक्यानां नानादेशसमीक्षिता ॥
पञ्चागमांश्च विविधानादेशांश्च समीक्षिता ।
नानार्थकुशलस्तत्र तद्धितेषु च कृत्स्नशः ॥
परिभूषयिता वाचां वर्णतः स्वरतोऽर्थतः ।
प्रत्ययं च समाख्याता नियतं प्रतिधातुकम् ॥
पञ्च चाक्षरजातानि स्वरसंज्ञानि यानि च । तमागतमृषिं दृष्ट्वा प्रत्युद्गम्याभिवाद्य च ॥'
आसनं रुचिरं तस्मै प्रददौ स युधिष्ठिरः । `कृष्णाजिनोत्तरे तस्मिन्नुपविष्टो महानृषिः ॥'
देवर्षेरुपविष्टस्य स्वयमर्ध्यं यथाविधि । प्रादाद्युधिष्ठिरो धीमान्राज्यं तस्मै न्यवेदयत् ।
प्रतिगृह्य तु तां पूजामृषिः प्रीतमनास्तदा ॥
आशीर्भिर्वर्धयित्वा च तमुवाचास्यतामिति ।
निषसादाभ्यनुज्ञातस्ततो राजा युधिष्ठिरः ॥
प्रेषयामास कृष्णायै भगवन्तमुपस्थितम् ।
श्रुत्वैतद्द्रौपदी चापि शुचिर्भूत्वा समाहिता ॥
जगाम तत्र यत्रास्ते नारदः पाण्डवैः सह ।
तस्याभिवाद्य चरणौ देवर्षेर्धर्मचारिणी ॥
कृताञ्जलिः सुसंवीता स्थिताऽथ द्रुपदात्मजा ।
तस्याश्चापि स धर्मात्मा सत्यवागृषिसत्तमः ॥
आशिषो विविधाः प्रोच्य राजपुत्र्यास्तु नारदः ।
गम्यतामिति होवाच भगवांस्तामनिन्दिताम् ॥
गतायामथ कृष्णायां युधिष्ठिरपुरोगमान् ।
विविक्ते पाण्डवान्सर्वानुवाच भगवानृषिः ॥
पाञ्चाली भवतामेका धर्मपत्नी यशस्विनी ।
यथा वो नात्र भेदः स्यात्तथा नीतिर्विधीयतां ॥
सुन्दोपसुन्दौ हि पुरा भ्रातरौ सहितावुभौ ।
आस्तामवध्यावन्येषां त्रिषु लोकेषु विश्रुतौ ॥
एकराज्यावेकगृहावेकशय्यासनाशनौ ।
तिलोत्तमायास्तौ हेतोरन्योन्यमभिजघ्नतुः ॥
रक्ष्यतां सौहृदं तस्मादन्योन्यप्रीतिभावकम् ।
यथा वो नात्र भेदः स्यात्तत्कुरुष्व युधिष्ठिर ॥
युधिष्ठिर उवाच ।
सुन्दोपसुन्दावसुरौ कस्य पुत्रौ महामुने ।
उत्पन्नश्च कथं भेदः कथं चान्योन्यमघ्नताम् ॥
अप्सरा देवकन्या वै कस्य चैषा तिलोत्तमा ।
यस्याः कामेन संमत्तौ जघ्नतुस्तौ परस्परम् ॥
एतत्सर्वं यथा वृत्तं विस्तरेण तपोधन ।
श्रोतुमिच्छामहे ब्रह्मन्परं कौतूहलं हि मे ॥ ॥

इति श्रीमन्महाभारते आदिपर्वणि विदुरागमनराज्यलाभपर्वणि अष्टाविंशत्यधिकद्विशततमोऽध्यायः ॥ 228 ॥