तत्र कैशिकी यथा—
सेयमर्थस्य च संदर्भस्य च सौकुमार्यात्कैशिकी नाम वृत्तिः ॥
शशिरुचिष्विति । नियमितादिषु मुग्धाङ्गनाचुम्बनरसोत्सुकानामतिमनोज्ञाधररागसमर्पकेषु नागलतादलेषु, ततो मानपरिग्रहे वलितकादिचुम्बनविशेषार्थिनीनां कचग्रहसौभाग्यसुन्दरे मल्लिकादाम्नि, ततः सर्वाङ्गीणाश्लेषसौभाग्यार्थकचन्दनरसेऽनन्तरमीर्ष्यारोषवासनानिःशेषकेलियन्त्रणरतोत्कण्ठितानां सीधुपात्रे, ततः सर्वोपकरणजीवितसर्वस्वे प्रियतमे समकक्षतयैव दृष्टयः पेतुरिति । ‘कुवलयिनि’ इति युक्तः पाठः । ‘कुवलयित—’ इति पाठे विशेषणाङ्गप्राधान्यविवक्षायां समासे गुणीभावस्यानुचितत्वात् । सेयं कैशिकी मसृणे शृङ्गारादौ विनियुज्यत इति ॥
आरभटी यथा—
सेयं प्रौढार्थसंदर्भारभटी नाम वृत्तिः ॥
यो य इति । ओजःप्रधानतया प्रौढः संदर्भः । यस्मादियमारभटी दीप्ते रौद्रादौ विनियुक्ता, तेन युक्तं शब्दार्थयोः प्रौढत्वमिति ॥
भारती यथा—
सेयमतिसुकुमारार्थे नातिसुकुमारसंदर्भा भारती नाम वृत्तिः ॥
- ‘मदात् पा’ इति पाठः↩