350

अत्र प्रियतमेनेति । ताम्बूलादिहेतुकोऽन्य एवाधररागोऽन्यश्च मत्सरहेतुकः कषायतालक्षणो नयनगामीति तयोरभेदाध्यवसायो यत्तत्पदाभ्यां प्रतीत इति गौणी वृत्तिः । प्रकाशते च शब्दवृत्त्याधरस्थानस्थितस्य नयनस्थानप्राप्तिरिति तावतैवालंकारनिर्वाहः ॥

विनिमयवती मुख्या यथा—

‘प्रश्च्योतन्मदसुरभीणि निम्नगायाः क्रीडन्तो गजपतयः पयांसि कृत्वा ।
किञ्जल्कव्यवहितताम्रदानलेखै- रुत्तेरुः सरसिजगन्धिभिः कपोलैः ॥ ८० ॥’

अत्र करिकपोलमदामोदस्याम्भोजरजः परिमलस्य च सरित्सलिलद्विपकपोलपाल्योर्मुख्यत्वेनैव परस्परोपकरणादियं विनिमयवती मुख्या नाम परिवृत्तिः ॥

अत्र करिकपोलेति । गजेन्द्राणां मदयासमचन्द्रकयोः(?) स्वाश्रितयोर्नदीषु संक्रामणं नदीस्थितयोश्च किञ्जल्काम्भोजपरिमलयोर्ग्रहणं तेन दानप्रतिदानवत्तया विनिमयो भवति ॥

विनिमयवत्यमुख्या यथा—

‘तस्य च प्रवयसो जटायुषः स्वर्गिणः किमिह शोच्यतेऽधुना ।
येन जर्जरकलेवरव्ययात्क्रीतमिन्दुकिरणोज्ज्वलं यशः ॥ ८१ ॥’

अत्र जर्जरकलेवरं दत्वा शशिकिरणशुभ्रं यशः क्रीतमित्यमुख्ययैव वृत्त्या विनिमयोक्तेरमुख्येयं विनिमयवती परिवृत्तिः ॥

अत्र जर्जरेति । मूल्यार्पणक्रयणयोरत्र बाधाव्द्यक्त एवोपचारः, शब्दवृत्तिस्तु पूर्ववदेव कुण्ठैवेति भवति विनिमयः ॥

उभयवती मुख्या यथा—

‘लोचनाधरकृताहृतरागा वासिताननविशेषितगन्धा ।
वारुणी परगुणात्मगुणानां व्यत्ययं विनिमयं च वितेने ॥ ८२ ॥’