दृष्टान्त इति । प्रोक्तस्य प्राकरणिकस्य सिद्धिर्निश्चयः । नन्वनुमानाङ्गमपि दृष्टान्ताभिधानं पृथगलंकारः स्यादित्यत आह—सिद्धेऽर्थ इति । सिद्ध एवार्थे कंचिद्विशेषमावेदयितुं दृष्टान्तोक्तिर्निदर्शनम्, साध्ये त्वर्थेऽनुमानमिति विभागः । पूर्वं दार्ष्टान्तिकोक्तिं समाप्य पश्चाद्दृष्टान्तोक्तिरिति द्वितीयः । एकयैवोक्त्या दृष्टान्तदार्ष्टान्तिकयोरिति तृतीयः । तदाह—पूर्वोत्तरसमत्व इति । यत्र शब्दत 352 एव तुल्येतिवृत्तता दृष्टान्तदर्ष्टान्तिकयोरनुगम्यते तदृजु निदर्शनम् । यत्र तु पर्यवसितायामुक्तौ सहृदयपर्यालोचनया तद्वक्रम् । तदेतदाह—ऋजु वक्रं चेति । तेन निदर्शनस्य षड् भेदाः ॥