353 न्तिके संभवति शब्देन वा प्रत्याय्यते; किंतु बिम्बप्रतिबिम्बन्यायेनात्र भवति । तथा हि यथा पानकुट्यां हुतवहस्य ज्वलनं यज्ञवाटे च तथाऽव्यवस्थितचित्ततया ग्रामीणाविदग्धयुवतिप्रसक्तो भूत्वान्यत्र नागरिकासु विदग्धासु रज्यते सोऽपि न त्याज्य इत्युक्तिचातुर्यात्तुल्येतिवृत्तता गम्यतेऽतो वक्रत्वमित्याह—किंतु यथेति ॥

उत्तरमृजु यथा—

‘हिअअ तिरच्छीयइ संमुहपच्छा गहिअकडक्खास्स ।
पहिअ एक्केज्जे गोरडी णं चउहट्ट उवच्छ ॥ ८३ ॥’
[हृदये तिरश्चीना संमुखप्राप्ता पश्चाद्गृहीतकटाक्षास्य ।
पथिकस्यैकैव गौरतरा ननु चतुष्पथे व्रजति ॥]

अत्र ऋजूत्त्क्या शब्द एवाभिधीयमानसाधर्म्यं दार्ष्टान्तिकमभिधायोत्तरकालं दृष्टान्तोऽभिहितस्तदिदमुत्तरमृजु निदर्शनम् ॥

हिअएति । विच्छित्तिपथिकस्याभिलाषिता या योषित्सा एकैव । हृदये स्मरणारूढा सती लग्ना अतएव तिरच्छीयइ तिर्यक्शल्यायमाना पथिकसंमुखाभिमुखस्य तस्य चलितत्वात् । पश्चाच्च गृहीतकटाक्षा पश्चाद्भूतेन गृहीतश्चमत्कृतः कटाक्षो यस्याः । एक्केज्जे एकैव । जिरवधारणे । णं ननु चतुष्यथे कश्चित्संमुखतां कश्चित्तिरश्चीनतां कश्चित्पश्चाद्भावं धत्ते; गौरी तु पथिकस्यैकैव तथेति । अत्र ऋजूत्त्क्या शब्दत एवेति । तिर्यक्त्वादीनामुभयगामिनां शब्देनोपादानात्प्रतीतिमात्रेण चालंकारनिर्वाहः ॥

तदेव वक्रं यथा—

‘उपरि घनं घनपटलं दूरे दयिता किमेतदापतितम् ।
हिमवति दिव्यौषधयः कोपाविष्टः फणी शिरसि ॥ ८७ ॥’

अत्रापि दार्ष्टान्तिकमभिधायोत्तरकालमेव दृष्टान्तो विहितस्तदिदमुत्तरं ऋजु निदर्शनम्; किंतु यथा पूर्वस्मिन् हृदये तिर्यगित्यादिभिः शब्द एव ऋजूक्त्या साधर्म्याभिधानम्, नैवमत्र तथा; अपि तु किमेतदापतितमित्युक्तिचातुर्येण विपर्ययेण च लिङ्गसंख्या यथासंख्यानाम् । तदेतदुत्तरं वक्रं च निदर्शनम् ।