360
तुल्यस्तत्रभवान्प्रयागविटपी यस्यैतदेकार्णवे कायान्तर्विनिवेश्य विश्वमखिलं शाखासु शेते हरिः ॥ १०१ ॥’

अत्र वर्णनीयबाहुकल्पद्रुमयोरभिमतफलदायित्वादिभिः प्रतीतसादृश्ययोर्भुवनत्रयाभयप्रदायी वर्णनीयबाहौ कृपाणो भेदक इत्येकव्यतिरेकः । तथा वर्णनीयबाहोः प्रयागवटस्य च प्राग्वदेव प्रतीयमानसादृश्ययोरेकस्य भुवनत्रयाभयमहासत्री कृपाणः शाखासु शेते, अन्यस्य तु महाप्रलये स्वकायान्तर्निवेशितारखिलविश्वो वैकुण्ठः । ताविमौ तयोः सदृशावेव भेदकौ हरिकृपाणयोर्वा श्यामतादिभिः प्रतीयमानसादृश्ययोरिमावेव धर्मौ भेदकौ सोऽयमेवंप्रकारो व्यतिरेकसंकर उत्रेयः । स्वजातिव्यतिरेके प्रतीयमानसादृश्यम्, स्वव्यक्तिव्यतिरेके चाभिधीयमानसादृश्यं यद्युदाहरणं दृश्यते संभवति वा तदा तदप्युदाहार्यम् ॥

एतेनेति । प्राग्वदेवेति । अमिमतफलदायित्वादिभिः । एवंप्रकार इति । न ह्येकवाक्यस्थतामात्रेण तथा चमत्करोति यथाङ्गाङ्गङिगभावादिभिः परस्परग्रथनयेति । सैव प्रकारपदेनाभिहिता । यद्युदाहरणं दृश्यते संभवति वेति । न हि स्वजातिव्यतिरेके द्वयोरभेदाध्यवसायः सादृश्यमन्तरेण चमत्कारमर्पयतीति कल्पितमेव वाच्यम् । न च कल्पनाशब्दमन्तरेण प्रतीयमानसादृश्यसंभवः; सादृश्यस्य भेदाधिष्टानत्वात् । स्वव्यक्तिव्यतिरेकेऽप्यसंभवस्तथाभूतमेव तु शब्देनोपादीयत इति स्यादत उक्तं यदि दृश्यते इति ॥

सहकारित्वं व्यतिरेकनिरूप्यमतो व्यतिरेकानन्तरं समाहितलक्षणमाह—

कार्यारम्भे सहायाप्तिर्दैवादैवकृतेह या ।
आकस्मिकी बुद्धिपूर्वोभयी वा तत्समाहितम् ॥ ३४ ॥’

तत्राकस्मिकी दैवकृता यथा—

‘मानमस्या निराकर्तुं पादयोर्मे पतिप्यतः ।
उपकाराय दिष्ट्येदमुदीर्णं घनगर्जितम् ॥ १०२ ॥’