अत्र वर्णनीयबाहुकल्पद्रुमयोरभिमतफलदायित्वादिभिः प्रतीतसादृश्ययोर्भुवनत्रयाभयप्रदायी वर्णनीयबाहौ कृपाणो भेदक इत्येकव्यतिरेकः । तथा वर्णनीयबाहोः प्रयागवटस्य च प्राग्वदेव प्रतीयमानसादृश्ययोरेकस्य भुवनत्रयाभयमहासत्री कृपाणः शाखासु शेते, अन्यस्य तु महाप्रलये स्वकायान्तर्निवेशितारखिलविश्वो वैकुण्ठः । ताविमौ तयोः सदृशावेव भेदकौ हरिकृपाणयोर्वा श्यामतादिभिः प्रतीयमानसादृश्ययोरिमावेव धर्मौ भेदकौ सोऽयमेवंप्रकारो व्यतिरेकसंकर उत्रेयः । स्वजातिव्यतिरेके प्रतीयमानसादृश्यम्, स्वव्यक्तिव्यतिरेके चाभिधीयमानसादृश्यं यद्युदाहरणं दृश्यते संभवति वा तदा तदप्युदाहार्यम् ॥