361

अत्र माननिराकरणोपक्रमे कालोत्पन्नस्याकस्मिकघनगर्जितस्य मानविध्वंसे सहकारित्वादाकस्मिकीयं दैवकृता सहायसंपत्तिः ॥

कार्यारम्भ इति । सहायः प्रकृतकार्यकारणस्य सहकारी, तेनालंकारता आकस्मिक्यचिन्तितपूर्वा बुद्धिपूर्वाद्विपरीता । आकस्मिक्यादीनां प्रत्येकं दैवादैवकृतसंबन्धे षट्प्रकारं समाहितमित्यर्थोक्तम् ॥

आकस्मिक्येवादैवकृता यथा—

‘अनुशासतमित्यनाकुलं नयवर्त्माकुलमर्जुनाग्रजम् ।
स्वयमर्थ इवाभिवाञ्छितस्तमभीयाय पराशरात्मजः ॥ १०३ ॥’

अत्र भीमानुशासनकालोपक्रम एव व्यासागमनस्य तदुपकारित्वादाकस्मिकीयमदैवकृता सहायाप्तिः ॥

व्यासागमनस्येति । व्यासेन संपाद्यमानस्य । तेनादैवकृतेति ॥

बुद्धिपूर्वा दैवकृता यथा—

‘कल्पान्ते शमितत्रिविक्रममहाकङ्कालदण्डस्फुर- च्छेषस्यूतनृसिंहवक्रनखरप्रोतादिकोलामिषः ।
विश्वैकार्णवताविशेषमुदितौ तौ मत्स्यकूर्मावुभौ कर्षन्धीवरतां गतः स्यतु जगन्मोहं महाभैरवः ॥ १०४ ॥’

अत्र प्रलयसमये महेश्वरेण समापयितुमुपक्रान्तानां त्रिविक्रमादीनां योऽयं तद्भुवा बडिशादिना मत्स्यकूर्मयोराकर्षणप्रकारः स भगवता भैरवेण बुद्धिपूर्वकमुपकल्प्यमानो दैवात्तथाभूतैरेव तैः संपद्यत इति बुद्धिपूर्वेयं दैवकृता सहायाप्तिः ॥

दैवात्तथाभूतैरेवेति । नरसिंहनखादीनां बडिशाद्युचितमूर्तिशालिनां दैवमेव निमित्तम्, बडिशादिचिन्ता च विषयीकृतेति बुद्धिपूर्वता ॥

बुद्धिपूर्वाऽदैवकृता यथा—

‘मूले पञ्च ततश्चतुष्टयमिति स्रक्संनिवेशैः शिरः- पुष्पैरन्यतमावलोकनमितैरुच्छोणितैरर्चिते ।