363
रोमाञ्चोद्गम एव सर्षपकणः पाणी पुनः पल्लवौ स्वाङ्गैरेव गृहं प्रियस्य विशतस्तन्व्या कृतं मङ्गलम् ॥ १०७ ॥’

अत्रागच्छतः प्रियस्येयं वन्दनमालिकादिमङ्गलक्रिया मनःपरितोषहेतुस्तस्यास्तन्वङ्ग्या इङ्गिताकारैरेव यन्निवर्तनं सोऽयमाकस्मिकः स्वबुद्धिपूर्वकश्च तत्सहकारिकारणत्वाददैवकृतश्च समाहितभेदः ॥

अत्रागच्छतः प्रियस्येति । मङ्गलक्रियामात्रं न चमत्कारास्पदमत उक्तं मनःपरितोषहेतुरिति । स्मितं बुद्धिपूर्वम् । रोमाञ्चो न बुद्धिपूर्वः । एवं दृष्ट्यादौ यथायथं वेदितव्यमिति ॥

बुद्धिपूर्वायां सहायाप्तौ क्वचिद्भ्रान्तिरप्यस्ति ततस्तदनन्तरं तां लक्षयति—

भ्रान्तिर्विपर्ययज्ञानं द्विधा सापि प्रयुज्यते ।
अतत्त्वे तत्त्वरूपा च तत्त्वे चातत्त्वरूपिणी ॥ ३५ ॥
अतत्त्वे तत्त्वरूपा या त्रिविधा सापि पठ्यते ।
अबाधिता बाधिता च तथा कारणबाधिता ॥ ३६ ॥

भ्रान्तिरिति । अतस्मिंस्तदिति निश्चयो भ्रान्तिः । सैव विपर्ययः । न चैवं संशयादय इत्युक्तपूर्वम् । सा द्विधा—यस्य यत्रासद्भावस्तस्य तत्र सद्भावारोपः, यस्य वा यत्र सद्भावस्तस्य तत्रासद्भावारोपः । सोऽयं भावाभावकृतो नियमो भ्रान्तेर्बाधनियमेऽपि क्वचिद्वारोपन्यासो भवति क्वचिन्न भवति । उपन्यासो द्विरूपोऽभिधया वृत्त्यन्तरेण च । यत्र बाधोपन्यासे बाधितानुपन्यासे वाऽबाधिता तस्मिन्नेव वाक्येऽविज्ञातबाधेत्यर्थः । उपन्यासेतरप्रकारेण ज्ञातबाधका बाधिता । बाधकारणोक्तेर्बाधपर्यवसानाभिप्रायत्वात् तदेतद्दर्शयति—अबाधिता बाधिता चेति ॥

तत्रातत्त्वे तत्त्वरूपाऽबाधिता यथा—

‘मोहविरमे सरोसं थोरत्थणमण्डले सुरवहूणम् ।
जेण करिकुम्भसम्भावणाइ दिट्ठी परिट्ठविआ ॥ १०८ ॥’
[मोहविरमे सरोषं स्थूलस्तनमण्डले सुरवधूनाम् ।
येन करिकुम्भसंभावनया दृष्टिः परिस्थापिता ॥]