364

अत्र सुरवधूस्तनमण्डले करिकुम्भत्वेन गृहीतेऽतत्त्वरूपे यन्मिथ्यैव तत्त्वारोपणं न चानन्तरं वाधकोपन्यासः कृतस्तेनेयमबाधिता अतत्त्वे तत्त्वरूपा भ्रान्तिः ॥

मोहविरम इति । परिट्ठविआ सपल्लवं व्यवस्थापिता । तत्रैव परिपूर्वस्य तिष्टतेः प्रसिद्धत्वात् । सरोषमिति समवायिविशेषणम् । न च तदन्तरेण क्रियासद्भावः । तेन मोहेऽपि न प्रक्रान्तरसानुभावस्वरूपतामहासीदिति व्यज्यते । इत्थं च दृढानुबन्धोऽसौ रसो यद्बलवत्तरविरोधिसंपर्केऽपि न कार्कश्यमगादिति स्थूलमण्डलसुरवधूपदैः प्रकाश्यते संभावनया न तु पूर्वोत्पन्नज्ञानेन । करिकुम्भानां दृढतरवासनत्वात् । अबाधितेत्यत्र यथार्थोऽभिमतस्तथा दर्शयति—बाधकोपन्यास इति ॥

अतत्त्वे तत्त्वरूपा बाधिता यथा—

‘हसिअं सहत्थतालं सुक्खवडं उवगएहि पहिएहि ।
पत्तप्फलसारिच्छे उड्डीणे पूसवंदम्मि ॥ १०९ ॥’
[हसितं सहस्ततालं शुष्कवटमुपगतैः पथिकैः ।
पत्त्रफलसदृशे उड्डीने शुकवृन्देऽस्मिन् ॥]

अत्र पत्त्रफलितोऽयं न्यग्रोध इत्यतत्त्वरूपे तत्त्वबुद्धावुत्पन्नायां य उत्तरकालमपत्त्रतानिष्फलताप्रत्ययस्तेनेयमतत्त्वे तत्त्वरूपाख्या बाधिता भ्रान्तिः ॥

हसिअमिति । पूसः शुकः । वन्दं वृन्दम् । शुकचञ्चुपुच्छानां पक्वन्यग्रोधफलनवपलाशसादृश्यम् । यद्यपि नात्र बाधोऽभिहितस्तथापि उड्डीण इत्यनेनार्थाभावविषया प्रतीतिः क्रियते । कथमन्यथा हसितहस्ततालरूपकार्यस्योपन्यासः स्यात् ॥

अतत्त्वे तत्त्वरूपा कारणबाधिता यथा—

‘कनककलशस्वच्छे राधापयोधरमण्डले नवजलधरश्यामामात्मद्युतिं प्रतिबिम्बिताम् ।
असितसिचयप्रान्तभ्रान्त्या मुहुर्मुहुरुत्क्षिप- ञ्जयति जनितव्रीडाहासः प्रियाहसितो हरिः ॥ ११० ॥’