367

अत्रेन्दुमरीचिषु पयःप्रभृतिभ्रान्तिभूम्नायं भ्रान्तिमान् नाम भ्रान्तेरेव भेदः ॥

भ्रान्तिमाला यथा—

‘नीलेन्दीवरशङ्कया नयनयोर्बन्धूकबुद्ध्याधरे पाणौ पद्मधिया मधूककुसुमभ्रान्त्या तथा गण्डयोः ।
लीयन्ते कबरीषु बान्धवजनव्यामोहजातस्पृहा दुर्वारा मधुपाः कियन्ति तरुणि स्थानानि रक्षिष्यसि ॥ ११५ ॥’

अत्र युवत्यवयवेषु नयनादिषु मधुव्रतानां येयं नीलोत्पलादिबुद्धिः सेयं मालाक्रमेणोपजायमाना भ्रान्तिमाला भ्रान्तेरेव भेदः ॥

भ्रान्त्यतिशयो द्वेधा—वितर्कहेतुर्विपर्ययहेतुश्च । तयोः पूर्वमुपमाभ्रान्तिमाचक्षते, द्वितीयं तु भ्रान्त्यतिशयमेव ।

तत्रोपमाभ्रान्तिर्यथा—

‘हृतोष्ठरागैर्नयनोदबिन्दुभिर्निमग्ननाभेर्निपतद्भिरङ्कितम् ।
च्युतं रुषा भिन्नगतेरसंशयं शुकोदरश्याममिदं स्तनांशुकम् ॥ ११६ ॥’

अत्र शाद्वलेऽपि समुत्पन्नस्तनांशुकभ्रमस्य पुरूरवसो योऽयं सादृश्यातिशयितो वितर्कः सेयमुपमाभ्रान्तिः ॥

तयोः पूर्वमिति । तत्त्वेन प्रतीयतो मध्ये मनाक्तव्द्यतिरेकमुल्लिखितो नूनं भेदाभेदतुल्यतया मनसि सादृश्यं प्रवर्तत इति भावः । असंशयमिति पदेन प्रकर्षो वितर्कश्च प्रत्यायितः ॥

भ्रान्त्यतिशयो यथा—

‘दिश्याद्धूर्जटिजूटकोटिसरिति ज्योत्स्नालवोद्भासिनी शाशाङ्की कलिका जलभ्रमिवशाद्द्राग्दृष्टनष्टा मुदम् ।
यां चञ्चच्छफरीभ्रमेण मुकुलीकुर्वन्फणालीं मुहु- र्मुह्यँल्लक्ष्यमहिर्जिघृक्षतितमामाकुञ्चनप्राञ्चनैः ॥ ११७ ॥’