316

लीढेति । व्यस्तं विगतरुधिरम् । सावज्ञं तिर्यक् वलन्ती ये सृक्किणी ताभ्यामाहता इति संबन्धः । यथैकत्र कुञ्जे स्वपतः स्वरूपं तथान्यत्रापीति बहुवचनरहस्यम् । अत एव न देशहेतुशङ्का । अत्र सिंहेति । मदवासनया विशेषितत्वादिति भावः ॥

नीचाश्रया यथा—

‘भद्रं ते सदृशं यदध्वगशतैः कीर्तिस्तवोद्धुष्यते स्थाने रूपमनुत्तमं सुकृतिना दानेन कर्णो जितः ।
इत्यालोच्य चिरं दृशा करुणया शीतातुरेण स्तुतः पान्थेनैकपलालमुष्टिरुचिना गर्वायते हालिकः ॥ ८ ॥’

अत्र हीनपात्रहालिकस्वरूपोक्तिरीयं नीचाश्रया जातिः ॥

भद्रं त इति । करुणाकार्पण्यव्यञ्जकविशेषशालिनी । गर्वायते अगर्ववानेव गर्ववान्भवति । भृशादौ लक्षत्वादेर्मत्वर्थलक्षणत्वात् ॥

अथ हेतवः । तेषु देशो यथा—

‘इमास्ता विन्ध्याद्रेः शुकहरितवंशीवनघना भुवः क्रीडालोलद्विरदरदनारुग्णरवः ।
लताकुञ्जे यासामुपनादि रतक्लान्तशबरी- कपोलस्वेदाम्भः परिचयनुदो वान्ति मरुतः ॥ ९ ॥’

अत्र विन्ध्याद्रेरीदृशेषु प्रदेशेष्वित्थंभूता वायवो वान्तीति हेतुत्वेनोक्तत्वाद्देशस्य देशहेतुर्जातिरियम् ॥

इमास्ता इति । देशविशेषमुद्दिश्य मरुतां विधानमुद्देश्यस्य च विधौ हेतुभावः । वंशीवनानां दुष्प्रवेशतया मरुतां मन्दीभावो द्विरदैस्तरुभङ्गादवकाशलाभे प्रगल्भ- त्वमतः क्लमस्वेदापनयनसामर्थ्यमेतत्सर्वमाह—अत्र विन्ध्याद्रेरिति ॥

कालहेतुर्यथा—

‘कम्पन्ते कपयो भृशं जलकृशं गोजाविकं ग्लायति श्वा चुल्लीकुहरोदरं क्षणमपि क्षिप्तोऽपि नैवोज्झति ।