371

उभयात्मक इति । स्त्रीरत्नसृष्टिरित्यनेन तत्त्वानुपाती, अपरेत्यनेनातत्त्वानुपाती प्रकाशितः ॥

अनिर्णयान्तो मिथ्यारूपो यथा—

‘अद्रेः शृङ्गं हरति पवनः किंस्विदित्युन्मुखीभि- र्दृष्टोच्छ्रायश्चकितचकितं मुग्धसिद्धाङ्गनाभिः ।
स्थानादस्मात्सरसनिचुलादुत्पतोदङ्मुखः खं दिङ्नागानां पथि परिहरन्स्थूलहस्तावलेपान् ॥ १२३ ॥’

अत्र किमिदमद्रेः शृङ्गं पवनो हरतीति मेघं प्रति कल्पनायां मिथ्यात्वाद्वस्तुनश्चानिर्णयादनिर्णयान्तो मिथ्यारूपो वितर्कः ॥

मिथ्यामिथ्यारूपौ बाधिताबाधितविषयौ । अबाधितोऽपि तर्को भवत्येव । यथा यद्यस्य नीलं रूपं नीलोत्पलमिति ॥

स एवामिथ्यारूपो यथा—

‘अयमसौ भगवानुत पाण्डवः स्थितमवाङ्मुनिना शशिमौलिना ।
समधिरूढमजेन नु जिष्णुना स्विदिति वेगवशान्मुमुहे गणैः ॥ १२४ ॥’

अत्र भगवत्पार्थयोरमिथ्यारूपत्वेन वेगवत्त्वादेकस्यानिर्णयान्तोऽमिथ्यारूपो वितर्कः ॥

अथ भगवत्पार्थयोरिति । भगवत्पार्थयोरवस्थानयोः समधिरोहारोहयोश्च न किंचिद्बाधकमस्ति चक्षुर्ज्ञानस्य विशेषः प्रत्यक्षत इति ॥

अनिर्णयान्त उभयात्मा यथा—

‘माया स्विदेषा मतिविभ्रमो वा ध्वस्तं नु मे वीर्यमुताहमन्यः ।
गाण्डीवमुक्ता हि यथापुरा मे पराक्रमन्ते न शराः किराते ॥ १२५ ॥’

अत्र मायादीनां विकल्पानां मिथ्यारूपत्वान्मम शराः किराते न व्याप्रियन्त इत्यस्या मिथ्यारूपत्वादनिर्णयान्तत्वाच्चायमनिर्णयान्त उभयरूपो वितर्कः ॥