375
सदृशादृष्टचिन्तादेरनुभूतार्थवेदनम् ।
स्मरणं प्रत्यभिज्ञानस्वप्नाद्यपि न तद्बहिः ॥ ४२ ॥

मीलिते ज्ञानमस्तीति साजात्यादनन्तरं स्मृतिं लक्षयति—सदृशेति । सदृशा ज्ञायमानसादृश्यात् प्रयत्नजा स्मृतिश्चिन्तादिर्यस्यार्थमग्रे कथयिष्यति—अनुभूतार्थवेदनं समानविषयानुभवनियतज्ञानविशेषरूपं स्मरणम् । प्रत्यभिज्ञानमपि पूर्वानुभूतविषयमेव । एवं स्वप्नोऽपि ॥

तत्र सदृशाद्यथा—

‘अदृश्यन्त पुरस्तेन खेलत्खञ्जनपङ्क्तयः ।
अस्मर्यन्त विनिःश्वस्य प्रियानयनविभ्रमाः ॥ १३२ ॥’

अत्र स्वञ्जनपङ्क्तिदर्शनात्तत्सदृशप्रियानयनविभ्रमस्मरणात्तत्सदृशदर्शनजं स्मरणमिदम् ॥

अत्र खञ्जनेति । अत्रशब्देनखञ्जनपङ्क्तिश्चेदवलोकितानन्तरमेव प्रियास्मरणमासीदिति कार्यकारणभावोऽवगम्यते । स च कारणतासादृश्यमनन्तर्भाव्य खञ्जनज्ञानस्यास्तीति च प्रतीतं सादृश्यमिति भावः ॥

अदृष्टाद्यथा—

‘मुनिसुताप्रणयस्मृतिरोधिना मम वियुक्तमिदं तमसा मनः ।
मनसिजेन सखे प्रहरिष्यता धनुषि चूतशरश्च निवेशितः ॥१३३ ॥’

अत्र मुनिसुताप्रणयस्मृतिरोधिना तमसा मे मनो वियुक्तमित्यदृष्टकृतं स्मरणमिदम् ॥

अत्र मुनिसुतेति । तमोलक्षणस्य प्रतिबन्धकस्यापगमे स्मरणरूपं कार्यमावश्यकमित्यर्थः ॥

चिन्ताया यथा—

‘पुरा यत्र स्रोतः पुलिनमधुना तत्र सरितां विपर्यासं यातो घनविरलभावः क्षितिरुहाम् ।
बहोर्दृष्टं कालादपरमिव जातं वनमिदं निवेशः शैलानां तदिदमिति बुद्धिं द्रढयति ॥ १३४ ॥’