379
‘हिअए रोसुग्घुण्णं पाअप्पहरं सिरेण पत्थन्तो ।
णह उदओ(?) माणंसिणीए अ थोरं सुअं रुण्णम् ॥ १४२ ॥’

अत्र हृदये रोषोद्धूर्णपादप्रहारं यदयं शिरसा प्रार्थितवान्, यच्च तयासौ न ताडितस्तत्र हृदये वल्लभा वसतीति भावः । स च प्रार्थनारोदनाभ्यामुद्भिद्यमानः सोद्भेदो भावो हृद्य इत्युच्यते ॥

हृद्यमिति । अभिमतस्य वस्तुनो हृदयावच्छेदेन वृत्तिमतिसंधाय प्रवृत्तिः । तत्र यद्यपि विशेषोऽस्ति तथापि भावसामान्यलक्षणाक्रान्तस्तत्रैवान्तर्भविष्यति ॥

निरुद्भेदस्तु यो भावः स सूक्ष्मस्तैर्निगद्यते ।
इङ्गिताकारलक्ष्यात्स सूक्ष्मात्स्याद्भूमिकान्तरम् ॥ ४५ ॥

यथा—

‘कदा नौ संगमो भावीत्याकीर्णे वक्तुमक्षमम् ।
अवेत्य कान्तमबला लीलापद्मं न्यमीमिलत् ॥ १४३ ॥’

अत्र वक्तुमक्षमतायामिङ्गिताकारयोरप्रतीयमानत्वाद् भावगतेर्भूमिकान्तरमिदं भवति ।

ननु च सूक्ष्मः कथं पूर्वोक्तात्सूक्ष्माद्भिद्यत इत्यत आह—इङ्गिताकारलक्ष्या- दिति । कदा नौ संगमो भावीत्यभिप्रायस्य व्यञ्जकं नेङ्गितं न विकारो वा कान्तस्य कश्चिदुपात्तः, अवेत्येत्यादिप्रकाशिताभिप्रायानुगुणा काचिदस्ति क्रिया वा । कथमन्यथा तमुद्दिश्य लीलापद्मनिमीलनं संगच्छते । तस्मादन्यमेवेदं सूक्ष्मं भावलक्षणाक्रान्तम् ॥

‘पद्मसंमीलनाच्चात्र सूचितो निशि सङ्गमः ।
आश्वासयितुमिच्छन्त्या प्रियमङ्गजपीडितम् ॥ १४४ ॥’

अत्रानुकार्यानुकरणेऽपि भूमिकान्तरिते एव भवत इति सोऽयं निरुद्भेदो भाव एव सूक्ष्म इत्युच्यते ।

उत्तरार्धस्योदाहरणं व्युत्पादयति—अत्र पद्मसंमीलनाच्चेति । एवं चेत् प्राप्तमिङ्गितलक्ष्यत्वमत आह—तत्र चेति । आजानिकं पद्ममीलनमनुकार्यं