380 कान्ताहस्ताङ्गुलीजनितमनुकरणं रात्रौ समागमो भविष्यतीति कान्तागतोऽभिप्रायः । न तु निमीलनमनुकार्याव्द्यभिचरितमेतमर्थमवबोधयतीत्यर्थः ॥

प्रत्यक्षमक्षजं ज्ञानं मानसं चाभिधीयते ।
स्वानुभूतिभवं चैवमुपचारेण कथ्यते ॥ ४६ ॥

ज्ञानसंगत्यनन्तरं प्रमाणरूपालंकारप्रस्तावस्तत्रान्येषां प्रमाणानां प्रत्यक्षमूलकत्वात् प्रथमं प्रत्यक्षलक्षणमाह—प्रत्यक्षमिति । साक्षात्कारः प्रत्यक्षमिति प्रसिद्धं तस्य विभागमाह—अक्षजमिति । अक्षं बहिरिन्द्रियं तस्माज्जातम्, मानसं बाह्येन्द्रियानपेक्षेण मनसा जनितम् । स्वानुभूतिः सहजा चिच्छक्तिस्तस्या उत्पन्नम् । शरीराभिघाताद्यभिभूते प्रत्याहारतिरस्कृते वा मनसि यत् कदाचिदतिस्फुटाभं ज्ञानमुत्पद्यते न तस्य मनोनिबन्धनता शक्यतेऽभिधातुमिति चिच्छक्तिमेवाश्रयते । ननु इन्द्रियजन्य एव लोके साक्षात्कारिताप्रसिद्धेः कथमनुभूतिभवं तथेत्यत आह—उपचारेणेति । यदीन्द्रियजन्ये साक्षात्कारितानियमस्तदोपचारेण परिगणनम् । अथ भावनादिबलेन विनापीन्द्रियं भवतीति पक्षस्तदा मुख्यत एवेति भावः ॥

तत्राक्षजं द्विधा । युगपदेकशश्च । तयोर्युगपद्यथा—

‘क्रान्तकान्तवदनप्रतिबिम्बे मग्नबालसहकारसुगन्धौ ।
स्वादुनि प्रणदितालिनि शीते निर्ववार मधुनीन्द्रियवर्गः ॥ १४५ ’

अत्र मदिराश्रयाणां मुखप्रतिबिम्बसौगन्ध्यस्वादुताश्रव्यत्वशैत्यानां दृग्घ्राणरसनश्रवणत्वगिन्द्रियप्रत्यक्षता प्रतीयते ॥

युगपदिति । एकस्मिन्वाक्ये घ्राणरसनचक्षुस्त्वक्श्रोत्राणां पञ्चानामपि युगपत्प्रवृत्त्यभिधानाद्यौगपद्यं रसानुगुणतया यौगपद्याच्चमत्कारितामावहतीति द्विधाप्यलंकारकाण्डे परिसंख्यानमुचितम् ॥

एकशो यथा—

‘मन्दमन्दविगलत्त्रपमीषच्चक्षुरुल्लसितपक्ष्म दधत्या ।
वीक्ष्यते स्म शनकैर्नववध्वा कामिनो मुखमधोमुखयैव १४६ ’

तदेतच्चाक्षुषम् । एवं श्रावणादीन्यप्युदाहरणीयानि ॥