अनुमेयेनेति । अनुमेयेन पक्षेण तस्यैव साध्यवत्तयानुमेयत्वात् । यदाह—‘स एव चोभयात्मायं गम्यो गमक इष्यते । प्रसिद्धेनैकदेशेन गम्यः सिद्धेन बोधकः ॥’ इति । तदन्विते साध्यान्विते । प्रसिद्धं प्रकर्षेण सिद्धम् । व्याप्यतयाधिगतम् । तदभावे साध्याभावे । यतोऽनुमापकं ततो लिङ्गम् ॥