388

सदृशादिति । इह मीमांसका वर्णयन्ति । उपमानमपि सादृश्यमसंनिकृष्टेऽर्थे बुद्धिमुत्पादयति । अस्यार्थः । सादृश्यं सादृश्यज्ञानम् । ज्ञायमानसादृश्यमिति यावत् । तदेवोपमानं कुत इत्यत आह । असंनिकृष्टे सदृशान्तररूपेऽर्थे यतो बुद्धिमुत्पादयति तेन भवति सदृशात्सदृशप्रतिपत्तिरुपमानम् । न सदृशादननुभूतज्ञानमुत्पद्यते; अतिप्रसङ्गात् । तेनेदमनुभूतविषयमेव । नैयायिकानां तु अननुभूतविषयमेवोपमानम् । तथाहि—नागरिकेण यदा आरण्यकः पृष्ट आचष्टे ‘यथा गौस्तथा गवयः’ इति । तदा खलु नागरिकस्यातिदेशवाक्यार्थमनुस्मरतो गां च सादृश्यप्रतियोगिनं जानतो यद्गवये गोसादृश्यज्ञानं तदुपमानं प्रमाणं; तेनायं गवयशब्दवाच्य इति संज्ञासंज्ञिसंबन्धज्ञानं पश्चादुपजन्यते सोपमितिरिति । तत्र सदृशाद्बुद्धौ विपरिवर्तमानाद्यत्सदृशज्ञानं सदृशे गवये संज्ञासंज्ञिसंबन्धज्ञानमित्यर्थः । उदाहरणादिकं निगदव्याख्यातम् ॥

तयोरनुभूतविषयं यथा—

‘सर्वप्राणप्रवणमघवन्मुक्तमाहत्य वक्ष- स्तत्संघट्टाद्विघटितबृहत्खण्डमुच्चण्डरोचिः ।
एवं वेगात्कुलिशमकरोद्व्योम विद्युत्सहस्रै- र्भर्तुर्वज्रज्वलनकपिशास्ते च रोषाट्टहासाः ॥ १६४ ॥’

अत्र रामकराकृष्यमाणभग्नधूर्जटिधनुर्विमुक्तज्योतिश्छटासहस्रसंकुलमाकाशं पश्यतो रावणदूतस्येयं स्वयं दृष्टेषु प्रभुवक्षःस्थलविदीर्णवज्रशकलविस्फूर्जथुषु तद्रोषाट्टहासेषु वियद्व्यापिषु तत्सादृश्यबुद्धिस्तदिदमनुभूतविषयं नामोपमानं मीमांसका वर्णयन्ति ॥

अननुभूतविषयं यथा—

‘तां रोहिणीं विजानीहि ज्योतिषामत्र मण्डले ।
समूहस्तारकाणां यः शकटाकारमाश्रितः ॥ १६५ ॥’

अत्र यथाविधः शकटाकारस्तथाविधो रोहिणीतारकासमूहाकार इत्येवमवधारिताप्तोपदेशस्य तदाकारतारकाचक्रदर्शनादिदं तद्रोहिणीश-