396

इतरेतराभावो यथा—

‘कर्णोत्पलं न चक्षुस्ते न चक्षुः श्रवणोत्पलम् ।
इति जानन्नपि जनो मन्यते नेत्रदीर्घताम् ॥ १७९ ॥’

अत्यन्ताभावो यथा—

‘जं जस्स होइ सारं तं सो दइत्ति किमत्थ अच्छेरम् ।
अणहोत्तं वि हु दिण्णं तइ दोहग्गं सवत्तीणम् ॥ १८० ॥’
[यद्यस्य भवति सारं तं स ददाति किमत्राश्चर्यम् ।
अभवदपि खलु दत्तं तया दौर्भाग्यं सपत्नीनाम् ॥]

अन्ये पुनरन्यथा अत्यन्ताभावमाचक्षते । यता—

‘प्रसीद सद्यो मुञ्चेमं चण्डि मानं मनोगतम् ।
दृष्टमात्रेऽपि ते तत्र रोषः खकुसुमायते ॥ १८१ ॥’

स्थानान्तरप्रमितस्य स्थानान्तरे त्रैकालिकोऽभावविशेषोऽत्यन्ताभाव इति दर्शनमाश्रित्य चतुष्टयमध्यपाती तावदत्यन्ताभाव उदाहृतः । इदानीं पञ्चमाभावोचितविशेषमत्यन्ताभावं दर्शयति—अन्ये पुनरिति । अन्ये सौगतादयः । अत्यन्तासत्प्रतियोगिकोऽभावोऽत्यन्ताभावः । यथा खपुष्पस्याभाव इत्युदाहरणं स्फुटम् ॥

सामर्थ्याभावो यथा—

‘मानुषीषु कथं वा स्यादस्य रूपस्य संभवः ।
न प्रभातरलं ज्योतिरुदेति वसुधातले ॥ १८२ ॥’

त एते षडपि निगदैरेव व्याख्याताः ॥

सामर्थ्याभावो योग्यताभावः । अनेनैव रूपेण स रसतामासादयन्नुपात्तः ॥

अभावाभावोऽप्यभाव एव । तत्र प्रागभावप्रध्वंसो यथा—

‘उद्यानसहकाराणामनुद्भिन्ना न मञ्जरी ।
देयः पथिकनारीणां सतिलः सलिलाञ्चालिः ॥ १८३ ॥’

अभाव एवेति । अभावव्यवहारपात्रमेव तथाभूतस्यैव लक्षणमित्युक्तं पुरस्तात् ॥