397

प्रध्वंसप्रागभावो यथा—

'न मर्त्यलोकस्त्रिदिवात्प्रहीयते म्रियेत नाग्रे यदि वलभो जनः ।

प्रध्वंसध्वंसो यथा—

निवृत्तमेव त्रिदिवप्रयोजनं मृतः स चेज्जीवित एव जीवति ॥ १८४ ॥’

वल्लभजनमरणं प्रध्वंसः स नञा निषिध्यते स तु निषेधः प्रागसत्त्वरूप एव । मृतः स चेदिति मरणोत्तरमभावो भवत्प्रध्वंसो भवति स चासंभवन्नपिशब्देन संभाव्यमानः कान्तिकारणं भवतीत्यलंकारकक्षामारोहति ॥

प्रध्वंसप्रागभावप्रध्वंसो यथा—

‘नामिलितमस्ति किंचित्काञ्चीदेशस्य सर्वथा नाथ ।
प्रसरतु करस्तवायं प्रकृतिकृशे मध्यदेशेऽपि ॥ १८५ ॥’

प्रध्वंसप्रागभावप्रध्वंस इति । मरणेन प्रध्वंसनं तस्याभावः समस्तेन न जातस्याप्यभावो भिन्नेन प्रतिपादितः ॥

प्रध्वंसस्य प्रध्वंसाभावो यथा—

‘एषा प्रवासं कथमप्यतीत्य याता पुनः संशयमन्यथैव ।
को नाम पाकाभिमुखस्य जन्तोर्द्वाराणि दैवान्यपिधातुमीष्टे ॥ १८६ ॥’

प्रध्वंसस्य प्रध्वंसामाव इति । कथमपीत्यनेन प्रवासे दशम्यवस्था कटाक्षिता तस्यात्ययः प्रध्वंसप्रध्वंसः । पुनः संगममित्यनेन तस्यापि प्रध्वंसः । सुबोधमन्यत् ॥

इतरेतराभावाभावो यथा—

‘शासनेऽपि गुरुणि व्यवस्थितं कृत्यवस्तुनि नियुङ्क्ष्व कामतः ।
त्वत्प्रयोजनधनं धनंजयादन्य एष इति मां च मावगाः ॥ १८७ ॥’

अत्यन्ताभावस्य सामर्थ्याभावस्य च प्रध्वंसाभावो यथा—

‘अनाप्तपुण्योपचयैर्दुरापा फलस्य निर्धूतरजाः सवित्री ।
तुल्या भवद्दर्शनसंपदेषा वृष्टेर्दिवो वीतबलाहकायः ॥ १८८ ॥’

एते नातिदुर्बोधा इति न व्याकृताः ॥