अर्थालंकृतय इति । स्पष्टम् ॥

श्रीरामसिंहदेवाज्ञामादाय रचितो मया । दर्पणाख्यः सदा तेन तुष्यतां श्रीसरस्वती ॥ रत्नेश्वरो नाम कवीश्वरोऽसौ विराजते काव्यसुधाभिषेकैः । दुस्तर्कवक्राहतदुर्विदग्धां वसुंधरां पल्लवयन्नजस्रम् ॥ अद्य स्फुरतु वाग्देव्याः कण्ठाभरणकौतुकम् । मयि ब्रह्ममनोवृत्तौ कुर्वाणे रत्नदर्पणम् ॥ इति श्रीमन्महाराजश्रीरामसिंहेन महामहोपाध्यायमनीषिरत्नेश्वरेण विरचय्य प्रकाशिते दर्पणाख्ये सरस्वतीकण्ठाभरणविवरणेऽर्थालंकारस्तृतीयः परिच्छेदः समाप्तः ॥