इह पञ्चैव लक्षणे विभक्तयो विहिताः । तद्यथा । ‘अनुर्लक्षणे १।४।८४’, ‘लक्षणेत्थंभूत १।४।९०’ इत्यादिना कर्मसंज्ञां विधाय ‘कर्मप्रवचनीययुक्ते २।३।८’ इति द्वितीया । ‘येनाङ्गविकारः २।३।२०’, ‘इत्थंभूतलक्षणे २।३।२१’ इत्येताभ्यां तृतीया । ‘उत्पातेन ज्ञापिते च १।४।४४ वा.’ इति चतुर्थी । ‘यस्य च भावेन भावलक्षणम् २।३।३७’ इति सप्तमी । ‘षष्ठी चानादरे २।३।३८’ इति षष्ठी । तदेतदाह—द्वितीया चेति । षष्ठीमग्रे वक्ष्यति । ‘षष्ठी चानादरे २।३।३८’ इति सूत्रे चकारस्य समुच्चेयतया न प्रधाना सेति नात्र तुल्यकक्षतया गणिता । क्रियानाविष्टं स्वव्यापारशून्यं तटस्थमेव यव्द्याप्रियते, तेन कारकाद्भेदः । अत्र हि क्रियानाविष्टस्यैव इन्दुमत्यामितीन्दुमतीमालम्बनविभावीकृत्य (विधीय)मानाः शृङ्गारचेष्टास्तयैवावच्छिद्यन्ते, तदवस्था एव च लक्ष्यन्ते, ततो भवति हेतुत्वं लक्षणत्वमवधित्वं चेति । ननु कथमत्र द्वितीया, यावता हेतुत्वात्तृतीयया भवितव्यमित्यत आह—द्वितीयामिति । नाप्राप्तायां तृतीयायामियं विधीयमाना बलवती तां बाधत इत्यर्थः ॥