330

कार्यानन्तरजो यथा—

‘पश्चात्पर्यस्य किरणानुदीर्णं चन्द्रमण्डलम् ।
प्रागेव हरिणाक्षीणामुदीर्णो रागसागरः ॥ ३९ ॥’

अत्र चन्द्रोदयलक्षणाद्धेतोः पूर्वकालमेव रागसागर उदीर्ण इति कार्यस्योदयलाभः । स इह गुणवृत्त्याश्रयणे हेतावतिशयं पुष्यतीत्ययं कार्यानन्तरजो नाम चित्रहेतुः ॥

युक्तो यथा—

‘गुणानुरागमिश्रेण यशसा ते प्रसर्पता ।
दिग्वधूनां मुखे जातमकस्मादर्धकुङ्कुमम् ॥ ४० ॥’

अत्र दिग्वधूमुखेषु ते गुणानुरागः कुङ्कुमं, यशस्तु चन्दनमित्ययं युक्तो नाम गौणवृत्तिव्यपाश्रयश्चित्रहेतुः ॥

नयुक्तो यथा—

‘न मीलयति पद्मानि न नभोऽप्यवगाहते ।
त्वन्मुखेन्दुर्ममासूनां हरणायैव यस्यति ॥ ४१ ॥’

अत्र मुखेन्दोः पद्मनिमीलनादि न युज्यत इति नयुक्तो नाम चित्रभेदः ॥

ननु व्यक्तिभेदेऽपि हेतोरसंख्यता चेद्बिवक्षिता किमेवं शब्देनाधिकेनेत्यत आह—

एवं शब्दस्य प्रकारवाचित्वाव्द्यधिकरणादयः प्रयुज्यन्ते ॥

व्यधिकरणो यथा—

‘सा बाला वयमप्रगल्भवयसः सा स्त्री वयं कातराः सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयम् ।
साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं दोषैरन्यजनाश्रयैरपटवो जाताः स्म इत्यद्भुतम् ॥ ४२ ॥’