334

द्वितीयो यथा—

‘पीणत्तुण दुग्गेज्जं जस्स भुरआअन्तणिट्ठुरपरिग्गहिअम् ।
रिट्ठस्स विसमवलिअं कंठं दुक्खेण जीविअं वोलीणम् ॥ ४८ ॥’
[पीनत्वेन दुर्ग्राह्यं यस्य भुजयोरन्तर्निष्ठुरपरिगृहीतम् ।
रिष्टस्य विषमवलितं कण्ठं दुःखेन जीवितमतिक्रान्तम् ॥]

अत्र जीवितदुःखातिक्रमणे कण्ठस्य वलनं, वलनस्य निष्ठुरग्रहणं, निष्ठुरग्रहणस्यापि पीनत्वेन दुर्ग्राह्यत्वं हेतुरिति प्रतीयमानकारणत्वं कारणमालेत्यहेतुभेदः ॥

अत्र जितेन्द्रियत्वादीनामिति । अत्र जीवितदुःखातिक्रमण इति । यद्यत्र हेतुमाला न स्यात्तदा परस्परानपेक्षायामुपन्यासे वाक्यार्थपोषो(ऽपि) न स्यादिति ॥

लक्षणात्मकहेतुविशेषस्य साधर्म्यादनन्तरं सूक्ष्मं लक्षयति—

इङ्गिताकारलक्ष्योऽर्थः सूक्ष्मः सूक्ष्मगुणात्तु सः ।
सूक्ष्मात्प्रत्यक्षतः सूक्ष्मोऽप्रत्यक्ष इति भिद्यते ॥ २१ ॥
वाच्यः प्रतीयमानश्च सूक्ष्मोऽत्र द्विविधो मतः ।
इङ्गिताकारलक्ष्यत्वं लक्ष्यसामान्यमेतयोः ॥ २२ ॥

तत्रेङ्गितलक्ष्यमभिधीयमानसूक्ष्मं यथा—‘तां प्रत्यभिव्यक्तमनोरथानाम्’ इति । अत्र स्वयंवरमिलितानां राज्ञां राजपुत्रीं प्रति प्राप्तिलक्षणस्य मनोरथस्याभिधीयमानस्य शृङ्गारचेष्टात्मकेनेङ्गितेन व्यङ्ग्यत्वादयमिङ्गितलक्ष्योऽभिधीयमानः सूक्ष्मभेदः ॥

इङ्गितेति । इङ्गितमाकार इङ्गिताकारौ चेत्यर्थः । शरीरावयवव्यापार इङ्गितम् । रूपादेरन्यथात्वमाकारः । सूक्ष्मार्थदर्शनं सूक्ष्ममित्यर्थगुणेषूक्तं तेन पौनरुक्त्यमाशङ्क्याह—सूक्ष्मगुणात्तु स इति । हृदयसंवादभागित्रिचतुरहृदयसंवेद्यस्य । अत एवातिसूक्ष्मार्थस्य प्रत्यक्षायमाणत्वात्सूक्ष्मो नामार्थगुणः । यथाहि कवेः प्रतिभा सूक्ष्मविशेषोल्लेखिनी तथा तन्मूलकः शब्दोऽपीति स्फुटाभतया प्रत्यक्ष-