344

कालक्षेपं तवोत्पश्यामीति । उत्पश्यामि संभावयामि । अकालक्षेपवतः कालक्षेपभवनं विधिः । कथमपीति काकूपस्थितो गमनाभावो निषेधः । न च वाच्यं द्वावत्र संभवौ । तथा च नैकोऽप्युभयविषय इति । यतो यैव कालक्षेपसामग्री सैव शुक्लापाङ्गैरित्यादि कारणसहकृता निषेधमपि विषयीकरोति । अतः संभवभेदेनं किंचित्प्रमाणमिति ॥

अनुभयविषयो यथा—

‘तस्याः पातुं सुरगज इव व्योम्नि पूर्वार्धलम्बी त्वं चेदच्छस्फटिकविशदं तर्कयेस्तिर्यगम्भः ।
संसर्पन्त्याः सदसि भवतः स्रोतसि च्छायया सा स्यादस्थानोपगतयमुना संगमेनाभिरामा ॥ ६९ ॥’

अत्र यदि त्वमेवं कुर्यास्तदैवं स्यादिति विधिनिषेधयोरनवगतेरयमनुभयविषयः संभवः ॥

अत्र यदि त्वमेवं कुर्या इति । न तावदत्राभावः प्रतीयत इति न निषेधसंभवः । विधिसंभवोऽपि नास्ति । यो हि व्यवस्थितकारणदर्शनेन व्यवस्थितस्यैव भवनस्य संभवः स विधिसंभवशब्देनाभिधीयते, नचेह तथा । तदिदमुक्तं अनवगतेरिति ॥

एतेन विधिनिषेधयोर्विकल्पविषयोऽपि व्याख्यातः । यथा—

‘यदि भवति मुखानां वाक्पटूनां सहस्रं निरुपममवधानं जीवितं चातिदीर्घम् ।
कमलमुखि तथापि क्ष्मापतेस्तस्य कर्तुं सकलगुणविचारः शक्यते वा नवेति ॥ ७० ॥’

तदेतन्निगदेनैव व्याख्यातम् ॥

तदेतन्निगदेनेति । परस्परव्यभिचारिणोरेकत्र संभाव्यमानत्वादिति व्यक्तौ विकल्प इत्यर्थः ॥