445

अर्थयोरिति । अर्थयोर्वाच्ययोरतिसाम्याद्यत्र मनो दोलायते नैकत्र स्थिरं भवति इदं वेदं वेति कृत्वा तं संशयमाहुः । स चैकविषयोऽनेकविषयश्च । यत्रैकस्मिन्धर्मिण्यनेकः शङ्क्यते स एकविषयः । यस्मिन्नानाधर्मिण्येकः शङ्क्यते सोऽनेकविषयः ॥

तयोराद्योऽभिधीयमानसादृश्यो यथा—

‘आहारे विरतिः समस्तविषयग्रामे निवृत्तिः परा नासाग्रे नयनं यदेतदपरं यच्चैकतानं मनः ।
मौनं चेदमिदं च शून्यमखिलं यद्विश्वमाभाति ते तद्ब्रूयाः सखि योगिनी किमसि भोः किं वा वियोगिन्यसि ७३’

अत्रैकस्मिन्वस्तुनि वस्तुद्वयस्याभिधीयमानसामान्यप्रत्यक्षं तद्विशेषप्रत्यक्षादुभयविशेषस्मरणाच्च यो विमर्शः सोऽयमेकविषयः संशयः ॥

आहार इत्यादि । हे सखि, तद्ब्रूयास्त्वं वद । किं योगिन्यसि योगवत्यसि किं वा वियोगिन्यसि वियोगवत्यसि । उभयसाधर्म्यमाह—आहारे भक्ष्ये विरतिर्विरागः समस्ते विषयग्रामे स्रगादौ परात्यर्थं निवृत्तिः । नासाया अग्रे नयनं नासिकाग्रनिरीक्षणमित्यर्थः । एतद्यदपरं यच्च मन एकतानमचञ्चलं ध्येये पत्यौ च । इदं च मौनमवचनम् । इदमखिलं विश्वं यच्छून्यमाभाति । सर्वत्र तवेति योज्यम् । 'आहारलाघवं मौनं नासाग्रस्य च वीक्षणम् । मनःस्थैर्यं वशित्वं च योगिनां विश्वशृन्यता ॥’ इति योगशास्रम् । ‘भक्ष्ये विरागो नयनाग्रवीक्षा मौनं मनोनिश्चलता वशित्वम् । विश्वस्य शून्यत्वविभावनं च वियोगिकृत्यं मुनयो वदन्ति ॥’ इति भरतः । अत्रैकस्मिन्वस्तुनि सखीविषये वस्तुद्वयस्य योगवियोगरूपस्याभिधीयमानं यत्साम्यं तस्य प्रत्यक्षाद्दर्शनात् । समानधर्मदर्शनादिति यावत् । विशेषाप्रत्यक्षाद्विशेषादर्शनादुभयविशेषयोगवियोगयोः स्मरणाद्विमर्शः संखयः । इह साधारणधर्मदर्शनं विशेषादर्शनमारोप्य कोटिद्वयस्मरणकारणमिति संशयकारणमुक्तम् ॥

स एव प्रतीयमानसादृश्यो यथा—

‘किं पद्ममन्तर्भ्रान्तालि किं ते लोलेक्षणं मुखम् ।
मम दोलायते चितं पश्यतस्त्वां घनस्तनि ॥ ७४ ॥’