454 कमलिनीमालोक्य तस्यामात्मधर्मान्, प्रिये च सूर्यधर्मानारोपयति । ते च बलिः क्रियेऽहं तव रोषस्येत्यादिभिः पदैरुद्भिद्यमाना इह प्रतीयन्त इत्ययं सोद्भेदः समाधिभेदः । अन्यश्चान्यधर्माश्चान्यधर्मा 157इति व्युत्पत्त्या धर्मिणोऽप्यध्यासे समाधिरिष्यते ॥

वल्लहे इत्यादि । ‘वल्लभे लघु व्यपक्रामति पुनरागच्छति चिरेण बलिः क्रिये तामरसिनि तव रोषस्य स्थिरस्य । येन निराकुलं जल्पति किमपि न यावज्जनस्तावद्धिमेन विशीर्णा झटिति प्लुष्टतनुः ॥’ इह हे तामरसिनि पद्मिनि, वल्लभे सूर्ये लघु शीघ्रं व्यपक्रामत्यपगच्छति सति हिमसमये रात्रेदींर्घत्वाच्चिरेण पुनरागच्छति सति तव रोषस्य स्थिरस्य बलिरुपहारोऽहं क्रिये इति काचित्खण्डिता पद्मिनीमुद्दिश्य वदति । येन हेतुना निराकुलो जनो यावदेव किमपि न जल्पति तावदेव हिमेन विशीर्णा झटिति त्वं दग्धतनुरसि । व्यलीकमप्रियम् । ‘हिमानी हिमसंहतिः’ इत्यमरः । प्लुष्टां दग्धाम् । ते धर्माः । धर्मारोपरूपे समाधावव्याप्तिरत आह—अन्य इति । अन्यो धर्मीह विवक्षितो धर्मपदसंनिधेः ॥

सधर्माणां धर्मिणश्च यथा—

‘चन्द्रज्योत्स्ना विशदपुलिने सैकतेऽस्मिन्सरय्वा वादद्वैतं सुचिरमभवत्सिद्धयूनोः कयोश्चित् ।
एको ब्रूते प्रथमनिहतं केशिनं कंसमन्यः स त्वं तत्त्वं कथय भवता को हतस्तत्र पूर्वम् ॥ ८८ ॥’

अत्र संबोध्य वर्णनीये विष्णुस्वरूपस्य धर्मिणस्तद्धर्माणां चाध्यासादयं धर्मिधर्माध्यासरूपः समाधिः ॥

चन्द्रेत्यादि । कयोश्चित् सिद्धयूनोः सरय्वा नदीभेदस्यास्मिन् सैकते बहुकालं वादद्वैतं वचनविवादोऽभवत् । ‘वादद्यूतम्’ इति पाठे वादो विवाद एव द्यूतमित्यर्थः । सैकते कीदृशे । चन्द्रज्योत्स्नया विशदं स्वच्छं पुलिनं तोयोत्थितभागो यत्र तत्र । अनेन रम्यतोक्ता । वादस्वरूपमाह—एकः केशिनं प्रथमनिहतं ब्रूते, अन्यः कंसं प्रथमनिहतं ब्रूते । हे भगवन्, स प्रसिद्धस्त्वं तत्त्वं यथार्थं कथय ।

  1. अर्थप्रदर्शनमेतत् । व्युत्पत्तिस्तु ‘अन्यश्च धर्मश्च’ इत्येव