पल्लविअमित्यादि । ‘पल्लवितमिव करपल्लवाभ्यां प्रफुल्लितमिव नयनाभ्याम् । फलितमिव पीनपयोधराभ्यामार्याया लावण्यम् ॥’ इहार्याया गृहपतिपुत्र्या नायिकाया लावण्यं सौकुमार्यं हस्तपल्लवाभ्यां पल्लवितमिव नेत्राभ्यां फुल्लितमिव पीनस्तनाभ्यां फलितमिवास्ति । अध्यारोपे बीजमाह—उत्प्रेक्षयेति । तर्हि करपल्लवादीनामध्यारोपाद्बहिर्भाव एव भवेदत आह—करेति । अनुपात्तोऽनुक्तो यो व्यापारोऽध्यासविषयस्तद्धेतुत्वेन तदुपस्थितिकारणत्वेन तत्करणत्वेन वा । अत एव कर्त्रपेक्षया प्रधानतया स्वातन्त्रेणान्वयस्तेषामित्यर्थः । तर्हि समाध्युद्देशेऽनुद्देशः कथमस्त्यत आह—स त्विति । समाध्युक्तिरित्यत्र समाधिरिति कर्तव्ये उक्तिग्रहणमधिकार्थसूचकमित्युक्तिपदेनैव मेलितोद्देशः कृत इत्यर्थः ॥