पूर्णेत्यादि । सा स्वप्नेऽपि न दृश्यते । कीदृशी । पूर्णेन्दोरीषदसमाप्तं वदनं यस्याः सा । मृणाल्या ईषदसमाप्ता दोर्लता यस्याः सा । चक्रादीषदसमाप्तं जघनं यस्याः सा । इह कल्पेत्यादावीषदसमाप्तौ ‘ईषदसमाप्तौ कल्पब्देश्यदेशीयरः ५।३।६७’ इति कल्पबादयः । इह पूर्णेन्द्वादय उपचारेणोपमेयवृत्तयस्तत्समभिव्याप्तकल्पबादिना स्वार्थिकप्रत्ययेन चोपमानार्थातिशय एवाभिधीयत इति प्रत्ययस्योपमानार्थता । इदमेवाह—शब्देति । गुणभूतमिति । अतिशयस्य प्रत्ययार्थत्वेन तन्निरूपकत्वमेव गुणत्वमित्यर्थः ॥