458
बन्धुर्वा स पुराकृतः किमथवा सत्कर्मणां संचयो मार्गे रूक्षविपत्त्रशाखिनि जनो यं प्राप्य विश्राम्यति ॥ ९२ ॥’

अत्र न्यग्रोधेनैवोपमानेन प्रतीयमानसादृश्यस्य वर्णनीयवदान्योपमेयस्योक्तत्वात्तच्छ्लाघयैव तच्छ्लाघा प्रतीयत इति सेयं प्रतीयमानसादृश्या श्लाघावती समासोक्तिः ॥

उत्तुङ्गे इत्यादि । तस्य न्यग्रोधस्य वटवृक्षस्य श्लाघा स्वप्रशंसा स्ववचसोक्त्या किं समाप्यते । किंतु न । तस्य श्लाघा वक्तुमशक्येत्यर्थः । अङ्गेति सानुनयसंबोधने । कीदृशस्य । उत्तुङ्गे उच्छ्रिते । उच्चावचा निम्नोन्नता ये ग्रावाणः पाषाणास्तद्युक्ते च शिखरिणि गिरौ कृतावासस्य । श्लाघाहेतुमाह—स वटो बन्धुर्मित्रं वा पुरा पूर्वं कृतः । अर्थाज्जनेन । अथवा सत्कर्मणां श्रेष्ठव्यापाराणां संचय उपचयः किम् । अर्थाज्जनस्य । रूक्षा अस्निग्धा विपत्राः पत्रशून्याः शाखिनो वृक्षा यत्र तादृशे मार्गे यं वटवृक्षं प्राप्य जनो विश्राम्यति । उच्चावचेत्यत्र बहुव्रीह्यनन्तरं मतुबिति भ्रमो न कार्यः । उच्चावचग्रावाणोऽत्र सन्तीति विशिष्टस्यैव मत्वर्थसंबन्धाद्बिसकिसलयच्छेदपाथेयवन्त इतिवत्केवलाद्विशिष्टस्य भिन्नबुद्धिविषयत्वात् । अत एवादण्डीत्यादयो निस्तरङ्गं प्रयोगा इत्यवधेयम् । ‘ग्रावोपलाश्मानः’ इत्यमरः । अत्र परोपकारितया न्यग्रोधवदान्ययोः सादृश्यं प्रतीयमानं तत एवोभयोः श्लाघापि ॥

सैव गर्हावती यथा—

‘किं जातोऽसि चतुष्पथे यदि घनच्छायोऽसि किं छायया संपन्नः फलितोऽसि किं यदि फलैः 159पूर्णोऽसि किं संनतः ।
हे सद्वृक्ष सहस्व संप्रति शिखाशाखाशताकर्षण- क्षोभोन्मोटनभञ्जनानि जनतः स्वैरेव दुश्चेष्टितैः ॥ ९३ ॥’

अत्रोपमानभूतस्य सद्वृक्षस्य व्याजगर्हणया तदुपमेयः कोऽपि सत्पुरुषो विगर्ह्यत इति सेयं प्रतीयमानसादृश्या गर्हावती नाम समासोक्तिः ।

किमित्यादि । हे सद्वृक्ष, चतुष्पथे किमर्थं जातोऽस्युत्पन्नोऽसि । यदि त्वं

  1. ‘आढ्योऽसि’ इति टीकाकारसंमतः पाठः