465

यथा—

‘इन्दुर्लिप्त इवाञ्जनेन जडिता दृष्टिर्मृगीणामिव प्रम्लानारुणिमेव विद्रुमदलं श्यामेव हेमप्रभा ।
पारुष्यं कलया च कोकिलवधूकण्ठेष्विव प्रस्तुतं सीतायाः पुरतश्च हन्त शिखिनां बर्हाः सगर्हा इव १०३’

अत्र संक्षेपतः सीताशब्दवाच्यस्य मुखादेरवयवसमूहस्याश्रयत इन्दुरञ्जनेनैव लिप्तः, जडितेव मृगीणां दृष्टिः, प्रम्लानमिवारुण्यं विद्रुमस्य, श्यामेव हेमकान्तिः, परुषा इव कोकिलालापाः, सगर्हा इव शिखिनां बर्हा इत्युत्प्रेक्षोक्तेरनुक्तान्यपि तदुपमेयानि मुखादीनि प्रतीयन्ते, सेयमपि संक्षेपोक्तिः समासोक्तिरेव भवति । कः पुनः समासोक्तेः समाध्युक्तेर्वा विशेषः । उच्यते । यत्र प्राकरणिकेऽप्राकरणिको धर्मोऽध्यास्यते सा समाध्युक्तिः यथा—'असहन्तिब्ब किलिम्मइ पिअअमपच्छक्खदूसणं दिणलच्छी ।’ इति । यत्र पुनरप्राकरणिके प्राकरणिकधर्मः सा समासोक्तिः । यथा—'पिबन्मधु यथाकामं भ्रमरः फुल्लपङ्कजे ।’ इति । ननु धर्मिणोऽध्यासे समानमिति चेत् । न । ‘स त्वं तत्त्वं कथय भवता को हतस्तत्र पूर्वम्—’ इत्यादिषु ‘अनाकाशे कोऽयं गलितहरिणः शीतकिरणः’ इत्यादिषु च प्रव्यक्त एवाध्यासविशेषो दृश्यते । एकत्र मनसान्यत्र तु वचसेति सोऽयं समाध्युक्तेः समासोक्तेश्च भेदो भवति ।

इन्दुरित्यादि । सीतायाः पुरतोऽग्रेऽञ्जनेन कज्जलेन लिप्त इव चन्द्रः । हरिणीनां दृष्टिर्जडितैव जडीभूतैव । प्रवालदलं विम्लानलौहित्यमिव । कलकोकिलवधूकण्ठेषु पारुष्यमतिक्रमवचन मिव प्रस्तुतमुपक्रान्तम् । हन्त हर्षे विषादे वा । शिखिनां मयूराणां बर्हाश्च सगर्हा इव जाताः । ‘पारुष्यमतिवादः स्यात्’ इत्यमरः । अत्र सीतापदेन मुखाद्यवयवसमूह उक्तस्तदग्रे उपमानानां तत्तद्दृशा उत्प्रेक्षाभिधानादनुक्ता