469 परत्वमित्युत्प्रेक्षावयवत्वम् । अत एवोत्प्रेक्षाभेदत्वम् । अवयवक्रियामात्रस्यावयविक्रियोत्प्रेक्षणादवयवावयविभावः । तत्राङ्गाङ्गिभाव एव । यद्वा अवयवमात्रक्रियोत्प्रेक्षणमेवावयवित्वोत्प्रेक्षेत्याह—अन्य इति ॥

यथा—

‘लीनेव प्रतिबिम्बितेव लिखितेवोत्कीर्णरूपेव च प्रत्युप्तेव च वज्रलेपघटितेवान्तर्निखातेव च ।
सा नश्चेतसि कीलितेव विशिखैश्चेतोभुवः पञ्चभिश्चिन्तासंततितन्तुजालनिबिडस्यूतेव लग्ना प्रिया ॥ १०८ ॥’

तेषां मते पूर्वोदाहरणमुत्प्रेक्षावयवो न भवति ।

लीनेवेत्यादि । विवृतोऽयमनुप्रासे । एतन्मते पूर्वोदाहरणम् ‘अङ्गुलीभिरिव-’ इत्यादि । उत्प्रेक्षोपमायामन्तर्भवतीत्याह—तेषामिति ॥

उत्प्रेक्षोपमा यथा—

‘किंशुकव्यपदेशेन तरुमारुह्य सर्वतः ।
दग्धादग्धामरण्यानीं पश्यतीव विभावसुः ॥ १०९ ॥’

अत्र व्यपदेशशब्देन किंशुककुसुमानामग्निसादृश्यमभिधाय दर्शनक्रियोत्प्रेक्ष्यत इति सेयमुत्प्रेक्षोपमा । पूर्वस्मिन्नप्युदाहरणे मरीचिभिरङ्गुलीभिरिव तिमिरं केशसंचयमिव संनिगृह्येत्युपमानार्थानुप्रवेश उत्प्रेक्षायां द्रष्टव्यः । सेयमुत्प्रेक्षावयव उत्प्रेक्षोपमा चोत्प्रेक्षैव भवति ॥

किंशुकेत्यादि । विभावसुरग्निररण्यान्या महारण्यस्य दग्धादग्धं दग्धमदग्धं च भागं पश्यतीव । किं कृत्वा । किंशुकव्यपदेशेन किंशुककुसुमव्याजेन सर्वत्र वृक्षमारुह्य । ‘महारण्यमरण्यानी’ इत्यमरः । ‘चित्रभानुर्विभावसुः’ इति च । अत्र व्याजपदेन किंशुककुसुमाग्न्योः सादृश्यमभिप्रेतमत उपमागर्भोत्प्रेक्षेयम् ॥

मतं यथा—

‘यदेतच्चत्द्रान्तर्जलदलवलीलां वितनुते तदाचष्टे लोकः शशक इति नो मां प्रति तथा ।