470
अहे त्विन्दु मन्ये त्वदरिविरहाक्रान्ततरुणी- कटाक्षोल्कापातव्रणकिणकलङ्काङ्किततनुम् ॥ ११० ॥’

अत्र कटाक्षोल्कापातव्रणकिणकलङ्काङ्किततनुमिन्दुमहं मन्ये इत्यनेन स्वमतद्वारकमुत्प्रेक्षायाः समर्थनं कृतमित्ययं मताभिधानमुत्प्रेक्षाया एव प्रकारः ॥

यदेतदित्यादि । यदेतच्चन्द्रस्यान्तर्मध्ये मेघकणविलासं कुरुते लोकस्तच्छशक इत्याचष्टे वदति । मां प्रति तथा नैतत् । अहं पुनरिन्दुं मन्ये । कीदृशम् । त्वदीयशत्रुविरहग्रस्ताया युवत्याः कटाक्ष एवोल्कापातस्तस्य व्रणकिण एव कलङ्कस्तेनाङ्किता तनुः शरीरं यस्य तादृशम् । ‘लवलेशकणाणवः’ इत्यमरः । ‘अमानोनाश्च प्रतिषेधवचनाः’ इति च । अत्र निजमतोपन्यासादुत्प्रेक्षासमर्थनमिति मतोत्प्रेक्षेयम् ॥ इत्युत्प्रेक्षालंकारनिरूपणम् ॥

अप्रस्तुतप्रशंसालंकारनिरूपणम् ।

अप्रस्तुतस्तुतिलक्षणमाह—

अप्रस्तुतप्रशंसा स्यादस्तोतव्यस्य या स्तुतिः ।
कुतोऽपि हेतोर्वाच्या च प्रत्येतव्या च सोच्यते ॥ ५२ ॥
सा तु धर्मार्थकामानां प्रायोऽन्यतमबाधया ।
स्वाभिप्रायप्रसिद्ध्या च जायमानेह दृश्यते ॥ ५३ ॥

अप्रस्तुतेति । अस्तोतव्यस्य निन्दितस्य कुतोऽपि कारणात्स्तुतिः प्रशंसा अप्रस्तुतस्तुतिः अत एव समासोक्तेर्भेदः । तत्र ह्युपमानोपमेयता, अत्र तु निन्दितमर्थान्तरम्, अन्यस्य स्तुतिरिति । सा त्वभिधीयमाना प्रतीयमाना चेत्याह—वाच्येति । तत्र हेतुद्वारकमपि विभागमाह—सा त्विति । धर्मश्चार्थश्च कामश्च तेषामन्यतसमस्य प्रायो बाहुल्येन बाधया सर्वत्र स्वाभिप्रायस्य प्रकृष्टसिध्द्या सोत्पद्यमाना प्रतीयत इत्यर्थः ॥

तासु धर्मबाधया वाच्या तथा—

‘मेदच्छेदकृशोदरं लघु 166भवत्युत्साहयोग्यं वपुः सत्त्वानामपि लक्ष्यते विकृतिमच्चित्तं भयक्रोधयोः ।
  1. ‘त्युत्थानयोग्यं’ इति पाठः